क्अ इइ,१९५।२५-१९८।१९ रो इइइ,४३९-४५२ स्त्रियाम् इति उच्यते । का स्त्री नाम । लोकततः एते शब्दाः प्रसिद्धाः स्त्रीपुमान् नपुंसकम् इति । यत् लोके दृष्ट्वा एतत् अवसीयते इयम् स्त्री अयम् पुमान् इदम् नपुंसकम् इति सा स्त्रीसः पुमान् तत् नपुंसकम् इति । किम् पुनः लोके दृष्ट्वा एतत् अवसीयते इयम् स्त्री अयम् पुमान् इदम् नपुंसकम् इति । लिङ्गम् । किम् पुनः तत् । स्तनकेशवती स्त्री स्यात् । लोमशः पुरुषः स्मृतः । उभयोः अन्तरम् यत् च तदभावे नपुंसकम् । लिङ्गात् स्त्रीपुंसयोः ज्ञाने भ्रूकुंसे टाप् प्रसज्यते । लिङ्गात् स्त्रीपुंसयोः ज्ञाने भ्रूकुंसे टाप् प्राप्नोति । यत् हि लोके दृष्ट्वा एतत् अवसीयते इयम् स्त्री इति अस्ति तत् भ्रूकुंसे । नत्वम् खरकुटीः पश्य । इह चञ्चाः पश्य वध्रिकाः पश्य खरकुटीः पश्य इति तस्मात् शसः नः पुंसि इति नत्वम् प्राप्नोति । यत् हि दृष्ट्वा एतत् अवसीयते अयम् पुमान् इति अस्ति तत् वध्रिकादिषु । खट्वावृक्षौ न सिध्यतः । खट्वावृक्षयोः च लिङ्गम् न सिध्यति । यत् हि लोके दृष्ट्वा एतत् अवसीयते इयम् स्त्री अयम् पुमान् इति न तत् खट्वावृक्षयोः अस्ति । किम् तर्हि तयोः लिङ्गम् न्याय्यम् । नापुंसकम् भवेत् तस्मिन् । नपुंसकम् खट्वावृक्षयोः लिङ्गम् न्याय्यम् । किम् इदम् नापुंसकम् इति । नपुंसके भवम् नापुंसकम् । तदभावे नपुंसकम् । तदभावे स्त्रीपुंसलिङ्गाभावे नपुंसकलिङ्गम् न्याय्यम् । असत् तु मृगतृष्णावत् । असत् तु खट्वावृक्षयोः लिङ्गम् द्रष्टव्यम् । कथम् पुनः असत् नाम लिङ्गम् शक्यम् द्रष्टुम् । मृगतृष्णावत् । तत् यथा मृगाः तृषिताः अपाम् धाराः पश्यन्ति । न च ताः सन्ति । गन्धर्व्नगरम् यथा । यथा गन्धर्वनगराणि दूरतः दृश्यन्ते उपसृत्य च न उपलभ्यन्ते तद्वत् खट्वावृक्षयोः लिङ्गम् द्रष्टव्यम् । आदित्यगतिवत् सत् न । अथ व यथा आदित्यस्य गतिः सती न उपलभ्यते तद्वत् खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते । वस्त्रान्तर्हितवत् च तत् । यथा वस्त्रान्तर्हितानि द्रव्याणि न उपलभ्यन्ते तद्वत् खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते । विषमः उपन्यासः । वस्त्रान्तर्हितानि द्रव्याणि वस्त्रापाये उपलभ्यन्ते । खट्वावृक्षयोः पुनः ये अपि एते रथ्काराः वाशीवृक्षादनहस्ताः मूलात् प्रभृति आ अग्रात् वृक्षान् तक्ष्णुवन्ति ते अपि तयोः लिङ्गम् न उपलभन्ते । केन एतत् अवसीयते खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते इति । षड्भिः प्रकारैः सताम् भावानाम् अनुपलब्धिः भवति । सन्निकर्षात् अतिविप्रकर्षात् मूर्त्यन्तरव्यवधानात् तमसा आवृतत्वात् इन्द्रियदौर्बल्यात् अतिप्रमादात् इति । अतः अत्र कः चित् हेतुः द्रष्टव्यः येन खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते । केन एतत् अवसीयते खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते इति । तयोः तु तत्कृतम् दृष्ट्वा । स्त्रीकृतम् शब्दम् दृष्ट्वा स्त्री इति अवसीयते पुंस्कृतम् दृष्ट्वा पुमान् इति । यथा आकाशेन ज्योतिषः । तत् यथा आकाशम् दृष्ट्व ज्योतिः अत्र इति गम्यते । ज्योतिर्निमित्तम् हि आकाशम् । अन्योन्य्संश्रयम् तु एतत् । अन्योन्य्संश्रयम् तु एतत् भवति । स्त्रीकृतः शब्दः शब्दकृतम् च स्त्रीत्वम् । एतत् इतरेतराश्रयम् भवति । इतरेतराश्रयाणि च न प्रकल्पन्ते । प्रत्यक्षेण विरुध्यते । प्रत्यक्षेण खलु अपि सः विरुध्यते यः आह खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते इति । तत्र स्वेन्द्रियविरोधः कृतः भवति । न च नाम स्वेन्द्रियविरोधिना भवितव्यम् । तटे च सर्वलिङ्गानि दृष्ट्वा कः अध्यवसायति । तटे च खलु अपि सर्वाणि लिङ्गानि दृष्ट्वा तटः तटई तटम् इति कः अध्यवसातुम् अर्हति इयम् स्त्रीअयम् पुमान् इदम् नपुंसकम् इति । तस्मात् न वैयाकरणैः शक्यम् लौकिकम् लिङ्गम् आस्थातुम् । अवश्यम् च कः चित् स्वकृतान्तः आस्थेयः । कः असौ स्वकृतान्तः । संस्त्यानप्रसवौ लिङ्गम् आस्थेयौ स्वकृतान्ततः । संस्त्यानप्रसवौ लिङ्गम् आस्थेयौ । किम् इदम् संस्त्यानप्रसवौ इति । संस्त्याने स्त्यायतेः ड्रट् : स्त्री । सूतेः सप् प्रसवे पुमान् इति । ननु च लोके अपि स्त्यायतेः एव स्त्री सूतेः च पुमान् । अधिकरणसाधना लोके स्त्री : स्त्यायति अस्याम् गर्भः इति । कर्तृसाधनः च पुमान् : सूते पुमान् इति । इह पुनः उभयम् भावसाधनम् : स्त्यानम् स्त्री प्रवृत्तिः च पुमान् । कस्य पुनः स्त्यानम् स्त्री प्रवृत्तिः वा पुमान् । गुणानाम् । केषाम् । शब्सस्पर्शरूपरसगन्धानाम् । सर्वाः च पुनः मूर्तयः एवमात्मिकाः संस्त्यानप्रसवगुणाः शब्सस्पर्शरूपरसगन्धवत्यः । यत्र अल्पीयांसः गुणाः तत्र अवरतः त्रयः शब्दः स्पर्शः रूपम् इति । रसगन्धौ न सर्वत्र । प्रवृत्तिः खलु अपि नित्या । न हि इह कः चित् स्वस्मिन् आत्मनि मुहूर्तम् अपि अवतिष्ठते । वर्धते वा यावत् अनेन वर्धितव्यम् अपायेन वा युज्यते । तत् च उभयम् सर्वत्र । यदि उभयम् सर्वत्र कुतः व्यवस्था ।
KA II,195.25-198.19 Ro III,439-452 striyām iti ucyate . kā strī nāma . lokatataḥ ete śabdāḥ prasiddhāḥ strīpumān napuṃsakam iti . yat loke dṛṣṭvā etat avasīyate iyam strī ayam pumān idam napuṃsakam iti sā strīsaḥ pumān tat napuṃsakam iti . kim punaḥ loke dṛṣṭvā etat avasīyate iyam strī ayam pumān idam napuṃsakam iti . liṅgam . kim punaḥ tat . stanakeśavatī strī syāt . lomaśaḥ puruṣaḥ smṛtaḥ . ubhayoḥ antaram yat ca tadabhāve napuṃsakam . liṅgāt strīpuṃsayoḥ jñāne bhrūkuṃse ṭāP prasajyate . liṅgāt strīpuṃsayoḥ jñāne bhrūkuṃse ṭāp prāpnoti . yat hi loke dṛṣṭvā etat avasīyate iyam strī iti asti tat bhrūkuṃse . natvam kharakuṭīḥ paśya . iha cañcāḥ paśya vadhrikāḥ paśya kharakuṭīḥ paśya iti tasmāt śasaḥ naḥ puṃsi iti natvam prāpnoti . yat hi dṛṣṭvā etat avasīyate ayam pumān iti asti tat vadhrikādiṣu . khaṭvāvṛkṣau na sidhyataḥ . khaṭvāvṛkṣayoḥ ca liṅgam na sidhyati . yat hi loke dṛṣṭvā etat avasīyate iyam strī ayam pumān iti na tat khaṭvāvṛkṣayoḥ asti . kim tarhi tayoḥ liṅgam nyāyyam . nāpuṃsakam bhavet tasmin . napuṃsakam khaṭvāvṛkṣayoḥ liṅgam nyāyyam . kim idam nāpuṃsakam iti . napuṃsake bhavam nāpuṃsakam . tadabhāve napuṃsakam . tadabhāve strīpuṃsaliṅgābhāve napuṃsakaliṅgam nyāyyam . asat tu mṛgatṛṣṇāvat . asat tu khaṭvāvṛkṣayoḥ liṅgam draṣṭavyam . katham punaḥ asat nāma liṅgam śakyam draṣṭum . mṛgatṛṣṇāvat . tat yathā mṛgāḥ tṛṣitāḥ apām dhārāḥ paśyanti . na ca tāḥ santi . gandharvnagaram yathā . yathā gandharvanagarāṇi dūrataḥ dṛśyante upasṛtya ca na upalabhyante tadvat khaṭvāvṛkṣayoḥ liṅgam draṣṭavyam . ādityagativat sat na . atha va yathā ādityasya gatiḥ satī na upalabhyate tadvat khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate . vastrāntarhitavat ca tat . yathā vastrāntarhitāni dravyāṇi na upalabhyante tadvat khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate . viṣamaḥ upanyāsaḥ . vastrāntarhitāni dravyāṇi vastrāpāye upalabhyante . khaṭvāvṛkṣayoḥ punaḥ ye api ete rathkārāḥ vāśīvṛkṣādanahastāḥ mūlāt prabhṛti ā agrāt vṛkṣān takṣṇuvanti te api tayoḥ liṅgam na upalabhante . kena etat avasīyate khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate iti . ṣaḍbhiḥ prakāraiḥ satām bhāvānām anupalabdhiḥ bhavati . sannikarṣāt ativiprakarṣāt mūrtyantaravyavadhānāt tamasā āvṛtatvāt indriyadaurbalyāt atipramādāt iti . ataḥ atra kaḥ cit hetuḥ draṣṭavyaḥ yena khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate . kena etat avasīyate khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate iti . tayoḥ tu tatkṛtam dṛṣṭvā . strīkṛtam śabdam dṛṣṭvā strī iti avasīyate puṃskṛtam dṛṣṭvā pumān iti . yathā ākāśena jyotiṣaḥ . tat yathā ākāśam dṛṣṭva jyotiḥ atra iti gamyate . jyotirnimittam hi ākāśam . anyonysaṃśrayam tu etat . anyonysaṃśrayam tu etat bhavati . strīkṛtaḥ śabdaḥ śabdakṛtam ca strītvam . etat itaretarāśrayam bhavati . itaretarāśrayāṇi ca na prakalpante . pratyakṣeṇa virudhyate . pratyakṣeṇa khalu api saḥ virudhyate yaḥ āha khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate iti . tatra svendriyavirodhaḥ kṛtaḥ bhavati . na ca nāma svendriyavirodhinā bhavitavyam . taṭe ca sarvaliṅgāni dṛṣṭvā kaḥ adhyavasāyati . taṭe ca khalu api sarvāṇi liṅgāni dṛṣṭvā taṭaḥ taṭaī taṭam iti kaḥ adhyavasātum arhati iyam strīayam pumān idam napuṃsakam iti . tasmāt na vaiyākaraṇaiḥ śakyam laukikam liṅgam āsthātum . avaśyam ca kaḥ cit svakṛtāntaḥ āstheyaḥ . kaḥ asau svakṛtāntaḥ . saṃstyānaprasavau liṅgam āstheyau svakṛtāntataḥ . saṃstyānaprasavau liṅgam āstheyau . kim idam saṃstyānaprasavau iti . saṃstyāne styāyateḥ ḍraṭ : strī . sūteḥ sap prasave pumān iti . nanu ca loke api styāyateḥ eva strī sūteḥ ca pumān . adhikaraṇasādhanā loke strī : styāyati asyām garbhaḥ iti . kartṛsādhanaḥ ca pumān : sūte pumān iti . iha punaḥ ubhayam bhāvasādhanam : styānam strī pravṛttiḥ ca pumān . kasya punaḥ styānam strī pravṛttiḥ vā pumān . guṇānām . keṣām . śabsasparśarūparasagandhānām . sarvāḥ ca punaḥ mūrtayaḥ evamātmikāḥ saṃstyānaprasavaguṇāḥ śabsasparśarūparasagandhavatyaḥ . yatra alpīyāṃsaḥ guṇāḥ tatra avarataḥ trayaḥ śabdaḥ sparśaḥ rūpam iti . rasagandhau na sarvatra . pravṛttiḥ khalu api nityā . na hi iha kaḥ cit svasmin ātmani muhūrtam api avatiṣṭhate . vardhate vā yāvat anena vardhitavyam apāyena vā yujyate . tat ca ubhayam sarvatra . yadi ubhayam sarvatra kutaḥ vyavasthā .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.