क्अ इइ,१९५।२५-१९८।१९ रो इइइ,४३९-४५२ स्त्रियाम् इति उच्यते । का स्त्री नाम । लोकततः एते शब्दाः प्रसिद्धाः स्त्रीपुमान् नपुंसकम् इति । यत् लोके दृष्ट्वा एतत् अवसीयते इयम् स्त्री अयम् पुमान् इदम् नपुंसकम् इति सा स्त्रीसः पुमान् तत् नपुंसकम् इति । किम् पुनः लोके दृष्ट्वा एतत् अवसीयते इयम् स्त्री अयम् पुमान् इदम् नपुंसकम् इति । लिङ्गम् । किम् पुनः तत् । स्तनकेशवती स्त्री स्यात् । लोमशः पुरुषः स्मृतः । उभयोः अन्तरम् यत् च तदभावे नपुंसकम् । लिङ्गात् स्त्रीपुंसयोः ज्ञाने भ्रूकुंसे टाप् प्रसज्यते । लिङ्गात् स्त्रीपुंसयोः ज्ञाने भ्रूकुंसे टाप् प्राप्नोति । यत् हि लोके दृष्ट्वा एतत् अवसीयते इयम् स्त्री इति अस्ति तत् भ्रूकुंसे । नत्वम् खरकुटीः पश्य । इह चञ्चाः पश्य वध्रिकाः पश्य खरकुटीः पश्य इति तस्मात् शसः नः पुंसि इति नत्वम् प्राप्नोति । यत् हि दृष्ट्वा एतत् अवसीयते अयम् पुमान् इति अस्ति तत् वध्रिकादिषु । खट्वावृक्षौ न सिध्यतः । खट्वावृक्षयोः च लिङ्गम् न सिध्यति । यत् हि लोके दृष्ट्वा एतत् अवसीयते इयम् स्त्री अयम् पुमान् इति न तत् खट्वावृक्षयोः अस्ति । किम् तर्हि तयोः लिङ्गम् न्याय्यम् । नापुंसकम् भवेत् तस्मिन् । नपुंसकम् खट्वावृक्षयोः लिङ्गम् न्याय्यम् । किम् इदम् नापुंसकम् इति । नपुंसके भवम् नापुंसकम् । तदभावे नपुंसकम् । तदभावे स्त्रीपुंसलिङ्गाभावे नपुंसकलिङ्गम् न्याय्यम् । असत् तु मृगतृष्णावत् । असत् तु खट्वावृक्षयोः लिङ्गम् द्रष्टव्यम् । कथम् पुनः असत् नाम लिङ्गम् शक्यम् द्रष्टुम् । मृगतृष्णावत् । तत् यथा मृगाः तृषिताः अपाम् धाराः पश्यन्ति । न च ताः सन्ति । गन्धर्व्नगरम् यथा । यथा गन्धर्वनगराणि दूरतः दृश्यन्ते उपसृत्य च न उपलभ्यन्ते तद्वत् खट्वावृक्षयोः लिङ्गम् द्रष्टव्यम् । आदित्यगतिवत् सत् न । अथ व यथा आदित्यस्य गतिः सती न उपलभ्यते तद्वत् खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते । वस्त्रान्तर्हितवत् च तत् । यथा वस्त्रान्तर्हितानि द्रव्याणि न उपलभ्यन्ते तद्वत् खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते । विषमः उपन्यासः । वस्त्रान्तर्हितानि द्रव्याणि वस्त्रापाये उपलभ्यन्ते । खट्वावृक्षयोः पुनः ये अपि एते रथ्काराः वाशीवृक्षादनहस्ताः मूलात् प्रभृति आ अग्रात् वृक्षान् तक्ष्णुवन्ति ते अपि तयोः लिङ्गम् न उपलभन्ते । केन एतत् अवसीयते खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते इति । षड्भिः प्रकारैः सताम् भावानाम् अनुपलब्धिः भवति । सन्निकर्षात् अतिविप्रकर्षात् मूर्त्यन्तरव्यवधानात् तमसा आवृतत्वात् इन्द्रियदौर्बल्यात् अतिप्रमादात् इति । अतः अत्र कः चित् हेतुः द्रष्टव्यः येन खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते । केन एतत् अवसीयते खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते इति । तयोः तु तत्कृतम् दृष्ट्वा । स्त्रीकृतम् शब्दम् दृष्ट्वा स्त्री इति अवसीयते पुंस्कृतम् दृष्ट्वा पुमान् इति । यथा आकाशेन ज्योतिषः । तत् यथा आकाशम् दृष्ट्व ज्योतिः अत्र इति गम्यते । ज्योतिर्निमित्तम् हि आकाशम् । अन्योन्य्संश्रयम् तु एतत् । अन्योन्य्संश्रयम् तु एतत् भवति । स्त्रीकृतः शब्दः शब्दकृतम् च स्त्रीत्वम् । एतत् इतरेतराश्रयम् भवति । इतरेतराश्रयाणि च न प्रकल्पन्ते । प्रत्यक्षेण विरुध्यते । प्रत्यक्षेण खलु अपि सः विरुध्यते यः आह खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते इति । तत्र स्वेन्द्रियविरोधः कृतः भवति । न च नाम स्वेन्द्रियविरोधिना भवितव्यम् । तटे च सर्वलिङ्गानि दृष्ट्वा कः अध्यवसायति । तटे च खलु अपि सर्वाणि लिङ्गानि दृष्ट्वा तटः तटई तटम् इति कः अध्यवसातुम् अर्हति इयम् स्त्रीअयम् पुमान् इदम् नपुंसकम् इति । तस्मात् न वैयाकरणैः शक्यम् लौकिकम् लिङ्गम् आस्थातुम् । अवश्यम् च कः चित् स्वकृतान्तः आस्थेयः । कः असौ स्वकृतान्तः । संस्त्यानप्रसवौ लिङ्गम् आस्थेयौ स्वकृतान्ततः । संस्त्यानप्रसवौ लिङ्गम् आस्थेयौ । किम् इदम् संस्त्यानप्रसवौ इति । संस्त्याने स्त्यायतेः ड्रट् : स्त्री । सूतेः सप् प्रसवे पुमान् इति । ननु च लोके अपि स्त्यायतेः एव स्त्री सूतेः च पुमान् । अधिकरणसाधना लोके स्त्री : स्त्यायति अस्याम् गर्भः इति । कर्तृसाधनः च पुमान् : सूते पुमान् इति । इह पुनः उभयम् भावसाधनम् : स्त्यानम् स्त्री प्रवृत्तिः च पुमान् । कस्य पुनः स्त्यानम् स्त्री प्रवृत्तिः वा पुमान् । गुणानाम् । केषाम् । शब्सस्पर्शरूपरसगन्धानाम् । सर्वाः च पुनः मूर्तयः एवमात्मिकाः संस्त्यानप्रसवगुणाः शब्सस्पर्शरूपरसगन्धवत्यः । यत्र अल्पीयांसः गुणाः तत्र अवरतः त्रयः शब्दः स्पर्शः रूपम् इति । रसगन्धौ न सर्वत्र । प्रवृत्तिः खलु अपि नित्या । न हि इह कः चित् स्वस्मिन् आत्मनि मुहूर्तम् अपि अवतिष्ठते । वर्धते वा यावत् अनेन वर्धितव्यम् अपायेन वा युज्यते । तत् च उभयम् सर्वत्र । यदि उभयम् सर्वत्र कुतः व्यवस्था ।
KA II,195.25-198.19 Ro III,439-452 striyām iti ucyate . kā strī nāma . lokatataḥ ete śabdāḥ prasiddhāḥ strīpumān napuṃsakam iti . yat loke dṛṣṭvā etat avasīyate iyam strī ayam pumān idam napuṃsakam iti sā strīsaḥ pumān tat napuṃsakam iti . kim punaḥ loke dṛṣṭvā etat avasīyate iyam strī ayam pumān idam napuṃsakam iti . liṅgam . kim punaḥ tat . stanakeśavatī strī syāt . lomaśaḥ puruṣaḥ smṛtaḥ . ubhayoḥ antaram yat ca tadabhāve napuṃsakam . liṅgāt strīpuṃsayoḥ jñāne bhrūkuṃse ṭāP prasajyate . liṅgāt strīpuṃsayoḥ jñāne bhrūkuṃse ṭāp prāpnoti . yat hi loke dṛṣṭvā etat avasīyate iyam strī iti asti tat bhrūkuṃse . natvam kharakuṭīḥ paśya . iha cañcāḥ paśya vadhrikāḥ paśya kharakuṭīḥ paśya iti tasmāt śasaḥ naḥ puṃsi iti natvam prāpnoti . yat hi dṛṣṭvā etat avasīyate ayam pumān iti asti tat vadhrikādiṣu . khaṭvāvṛkṣau na sidhyataḥ . khaṭvāvṛkṣayoḥ ca liṅgam na sidhyati . yat hi loke dṛṣṭvā etat avasīyate iyam strī ayam pumān iti na tat khaṭvāvṛkṣayoḥ asti . kim tarhi tayoḥ liṅgam nyāyyam . nāpuṃsakam bhavet tasmin . napuṃsakam khaṭvāvṛkṣayoḥ liṅgam nyāyyam . kim idam nāpuṃsakam iti . napuṃsake bhavam nāpuṃsakam . tadabhāve napuṃsakam . tadabhāve strīpuṃsaliṅgābhāve napuṃsakaliṅgam nyāyyam . asat tu mṛgatṛṣṇāvat . asat tu khaṭvāvṛkṣayoḥ liṅgam draṣṭavyam . katham punaḥ asat nāma liṅgam śakyam draṣṭum . mṛgatṛṣṇāvat . tat yathā mṛgāḥ tṛṣitāḥ apām dhārāḥ paśyanti . na ca tāḥ santi . gandharvnagaram yathā . yathā gandharvanagarāṇi dūrataḥ dṛśyante upasṛtya ca na upalabhyante tadvat khaṭvāvṛkṣayoḥ liṅgam draṣṭavyam . ādityagativat sat na . atha va yathā ādityasya gatiḥ satī na upalabhyate tadvat khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate . vastrāntarhitavat ca tat . yathā vastrāntarhitāni dravyāṇi na upalabhyante tadvat khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate . viṣamaḥ upanyāsaḥ . vastrāntarhitāni dravyāṇi vastrāpāye upalabhyante . khaṭvāvṛkṣayoḥ punaḥ ye api ete rathkārāḥ vāśīvṛkṣādanahastāḥ mūlāt prabhṛti ā agrāt vṛkṣān takṣṇuvanti te api tayoḥ liṅgam na upalabhante . kena etat avasīyate khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate iti . ṣaḍbhiḥ prakāraiḥ satām bhāvānām anupalabdhiḥ bhavati . sannikarṣāt ativiprakarṣāt mūrtyantaravyavadhānāt tamasā āvṛtatvāt indriyadaurbalyāt atipramādāt iti . ataḥ atra kaḥ cit hetuḥ draṣṭavyaḥ yena khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate . kena etat avasīyate khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate iti . tayoḥ tu tatkṛtam dṛṣṭvā . strīkṛtam śabdam dṛṣṭvā strī iti avasīyate puṃskṛtam dṛṣṭvā pumān iti . yathā ākāśena jyotiṣaḥ . tat yathā ākāśam dṛṣṭva jyotiḥ atra iti gamyate . jyotirnimittam hi ākāśam . anyonysaṃśrayam tu etat . anyonysaṃśrayam tu etat bhavati . strīkṛtaḥ śabdaḥ śabdakṛtam ca strītvam . etat itaretarāśrayam bhavati . itaretarāśrayāṇi ca na prakalpante . pratyakṣeṇa virudhyate . pratyakṣeṇa khalu api saḥ virudhyate yaḥ āha khaṭvāvṛkṣayoḥ sat liṅgam na upalabhyate iti . tatra svendriyavirodhaḥ kṛtaḥ bhavati . na ca nāma svendriyavirodhinā bhavitavyam . taṭe ca sarvaliṅgāni dṛṣṭvā kaḥ adhyavasāyati . taṭe ca khalu api sarvāṇi liṅgāni dṛṣṭvā taṭaḥ taṭaī taṭam iti kaḥ adhyavasātum arhati iyam strīayam pumān idam napuṃsakam iti . tasmāt na vaiyākaraṇaiḥ śakyam laukikam liṅgam āsthātum . avaśyam ca kaḥ cit svakṛtāntaḥ āstheyaḥ . kaḥ asau svakṛtāntaḥ . saṃstyānaprasavau liṅgam āstheyau svakṛtāntataḥ . saṃstyānaprasavau liṅgam āstheyau . kim idam saṃstyānaprasavau iti . saṃstyāne styāyateḥ ḍraṭ : strī . sūteḥ sap prasave pumān iti . nanu ca loke api styāyateḥ eva strī sūteḥ ca pumān . adhikaraṇasādhanā loke strī : styāyati asyām garbhaḥ iti . kartṛsādhanaḥ ca pumān : sūte pumān iti . iha punaḥ ubhayam bhāvasādhanam : styānam strī pravṛttiḥ ca pumān . kasya punaḥ styānam strī pravṛttiḥ vā pumān . guṇānām . keṣām . śabsasparśarūparasagandhānām . sarvāḥ ca punaḥ mūrtayaḥ evamātmikāḥ saṃstyānaprasavaguṇāḥ śabsasparśarūparasagandhavatyaḥ . yatra alpīyāṃsaḥ guṇāḥ tatra avarataḥ trayaḥ śabdaḥ sparśaḥ rūpam iti . rasagandhau na sarvatra . pravṛttiḥ khalu api nityā . na hi iha kaḥ cit svasmin ātmani muhūrtam api avatiṣṭhate . vardhate vā yāvat anena vardhitavyam apāyena vā yujyate . tat ca ubhayam sarvatra . yadi ubhayam sarvatra kutaḥ vyavasthā .
Sanskrit only: no published translation is held for this verse.
क्अ इइ,१९८।२०-२००।२२ रो इइइ,४५२-४५८ कथम् पुनः इदम् विज्ञायते । स्त्रियाम् अभिधेयायाम् टाबादयः भवन्ति इति आहोस्वित् स्त्रीसमानाधिकरणात् प्रातिपदिकात् इति । कः च अत्र विशेषः । स्त्रियाम् इति स्त्र्यर्थाभिधाने चेत् टाबादयः द्विवचनबहुवचनानेकप्रत्ययानुपपत्तिः । स्त्रियाम् इति स्त्र्यर्थाभिधाने चेत् टाबादयः भवन्ति द्विवचनबहुवचनयोः अनुपपत्तिः । कुमार्यौ कुमार्यः किशोर्यौ किशोर्यः । किम् कारणम् । एकः अयम् अर्थः स्त्रीत्वम् नाम । तस्य एकत्वात् एकवचनम् एव प्राप्नोति । अनेकप्रत्ययानुपपत्तिः च । अनेकः च प्रत्ययः न उपपद्यते । गार्ग्यायणी कारीषगन्ध्या कालितरा इति । किम् कारणम् । एकत्वात् स्त्रीत्वस्य । एकः अयम् अर्थः स्त्रीत्वम् नाम । तस्य एकेन उक्तत्वात् द्वितीयस्य प्रयोगेण न भवितव्यम् । किम् कारणम् । उक्तार्थानाम् अप्रयोगः इति । स्त्र्यर्थस्य च प्रातिपदिकार्थत्वात् स्त्रियाम् इति लिङ्गानुपपत्तिः । स्त्र्यर्थस्य च प्रातिपदिकार्थत्वात् स्त्रियाम् इति अधिकारः न प्राप्नोति । अस्तु तर्हि स्त्रीसमानाधिकरणात् प्रातिपदिकात् इति । स्त्रीसमानाधिकरणात् इति चेत् भूतादिषु अतिप्रसङ्गः । स्त्रीसमानाधिकरणात् इति चेत् भूतादिषु अतिप्रसङ्गः भवति । भूतम् इयम् ब्राह्मणी । कारणम् इयम् ब्राह्मणी इति । आवपनम् इयम् उष्ट्रिका इति । स्त्र्यर्थाभिधाने पुनः टाबादिषु सत्सु इह तावत् भूतम् इयम् ब्राह्मणी इति न अत्र स्त्रीत्वम् विवक्षितम् । किम् तर्हि । पौतन्यम् । कारणम् इयम् ब्राह्मणी इति न अत्र स्त्रीत्वम् विवक्षितम् । किम् तर्हि । प्राधान्यम् । आवपनम् इयम् उष्ट्रिका इति न अत्र स्त्रीत्वम् विवक्षितम् । किम् तर्हि । सम्भवनम् । षट्सञ्ज्ञकेभ्यः च प्रतिषेधः । षट्सञ्ज्ञकेभ्यः च प्रतिषेधः वक्तव्यः । पञ्च ब्राह्मण्यः दश ब्राह्मण्यः । स्त्र्यर्थाभिधाने पुनः टाबादिषु सत्सु न अत्र स्त्रीत्वम् विवक्षितम् । किम् तर्हि भेदः विवक्षितः सङ्ख्या । इह च स्त्री : ईकारः न प्राप्नोति । न हि तेन एव तस्य सामानाधिकरण्यम् अस्ति । सिद्धम् तु स्त्रियाः प्रातिपदिकविशेषणत्वात् स्वार्थे टाबादयः । सिद्धम् एतत् । कथम् । स्त्रियाः प्रातिपदिकविशेषणत्वात् । प्रातिपदिकविशेषणम् स्त्रीग्रहणम् । स्वार्थिकाः टाबादयः । न एवम् विज्ञायते स्त्रियाम् अभिधेयायाम् इति न अपि स्त्रीसमानाधिकरणात् इति । कथम् तर्हि । स्त्रियाम् यत् प्रातिपदिकम् वर्तते तस्मात् टाबादयः भवन्ति । कस्मिन् अर्थे । स्वार्थे इति । अथ वा पुनः अस्तु स्त्रियाम् अभिधेयायाम् इति । ननु च उक्तम् स्त्रियाम् इति स्त्र्यर्थाभिधाने चेत् टाबादयः द्विवचनबहुवचनानेकप्रत्ययानुपपत्तिः । स्त्र्यर्थस्य च प्रातिपदिकार्थत्वात् स्त्रियाम् इति लिङ्गानुपपत्तिः । न एषः दोषः । यत् तावत् उच्यते द्विवचनबहुवचनयोः अनुपपत्तिः इति । गुणवचनस्य च आश्रयतः लिङ्गवचनभावात् । गुणवचनानाम् हि शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति । तत् यथा शुक्लम् वस्त्रम् , शुक्ला शाटी शुक्लः कम्बलः शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति । यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति । एवम् इह अपि यत् अदः द्रव्यम् श्रितम् भवति स्त्रीत्वम् तस्य यत् लिङ्गम् वचनम् च तत् स्त्रीत्वस्य अपि भविष्यति । यत् अपि उच्यते अनेकप्रत्ययानुपपत्तिः इति । भावस्य च भावयुक्तत्वात् । भावः भावेन युज्यते । तत् यथ इषिः इषिणा निमन्त्रिः च निमन्त्रिणा । विषमः उपन्यासः । युक्तम् तत्र अन्यत्वम् साधनभेदात् कालभेदात् च । उक्तम् तत्र एकस्य बाह्यम् साधनम् सर्वकालः च प्रत्ययः अपरस्य आभ्यन्तरम् साधनम् वर्तमानकालः च प्रत्ययः इति । इह पुनः एकम् स्त्रीत्वम् । अथ एकम् उपलभ्यते । किम् च अतः यदि एकम् उपलभ्यते द्वितीयम् अपि उपलभ्यताम् । अथ एकम् अपि अनुमानगम्यम् द्व्तीयम् अपि अनुमानात् गम्यताम् । कस्य तावत् भवान् एवम् गुणम् न्याय्यम् मन्यते स्त्रीत्वम् नाम । द्रव्यस्य । द्रव्ये च भवतः कः सम्प्रत्ययः । यदि तावत् गुअणसमुदायः द्रव्यम् का गतिः ये एते भावाः कृदभिहिताः तद्धिताभिहिताः च । चिकीर्षा गोता इति । अथ मतम् एतत् कृदभिहितः भावः द्रव्यवत् भवति इति स्त्रीत्वम् अपि स्त्रीत्वेन अभिहितम् द्रव्यवत् भविष्यति । क्व च तावत् दोषः स्यात् । दृष्टस्य हि
KA II,198.20-200.22 Ro III,452-458 katham punaḥ idam vijñāyate . striyām abhidheyāyām ṭābādayaḥ bhavanti iti āhosvit strīsamānādhikaraṇāt prātipadikāt iti . kaḥ ca atra viśeṣaḥ . striyām iti stryarthābhidhāne cet ṭābādayaḥ dvivacanabahuvacanānekapratyayānupapattiḥ . striyām iti stryarthābhidhāne cet ṭābādayaḥ bhavanti dvivacanabahuvacanayoḥ anupapattiḥ . kumāryau kumāryaḥ kiśoryau kiśoryaḥ . kim kāraṇam . ekaḥ ayam arthaḥ strītvam nāma . tasya ekatvāt ekavacanam eva prāpnoti . anekapratyayānupapattiḥ ca . anekaḥ ca pratyayaḥ na upapadyate . gārgyāyaṇī kārīṣagandhyā kālitarā iti . kim kāraṇam . ekatvāt strītvasya . ekaḥ ayam arthaḥ strītvam nāma . tasya ekena uktatvāt dvitīyasya prayogeṇa na bhavitavyam . kim kāraṇam . uktārthānām aprayogaḥ iti . stryarthasya ca prātipadikārthatvāt striyām iti liṅgānupapattiḥ . stryarthasya ca prātipadikārthatvāt striyām iti adhikāraḥ na prāpnoti . astu tarhi strīsamānādhikaraṇāt prātipadikāt iti . strīsamānādhikaraṇāt iti cet bhūtādiṣu atiprasaṅgaḥ . strīsamānādhikaraṇāt iti cet bhūtādiṣu atiprasaṅgaḥ bhavati . bhūtam iyam brāhmaṇī . kāraṇam iyam brāhmaṇī iti . āvapanam iyam uṣṭrikā iti . stryarthābhidhāne punaḥ ṭābādiṣu satsu iha tāvat bhūtam iyam brāhmaṇī iti na atra strītvam vivakṣitam . kim tarhi . pautanyam . kāraṇam iyam brāhmaṇī iti na atra strītvam vivakṣitam . kim tarhi . prādhānyam . āvapanam iyam uṣṭrikā iti na atra strītvam vivakṣitam . kim tarhi . sambhavanam . ṣaṭsañjñakebhyaḥ ca pratiṣedhaḥ . ṣaṭsañjñakebhyaḥ ca pratiṣedhaḥ vaktavyaḥ . pañca brāhmaṇyaḥ daśa brāhmaṇyaḥ . stryarthābhidhāne punaḥ ṭābādiṣu satsu na atra strītvam vivakṣitam . kim tarhi bhedaḥ vivakṣitaḥ saṅkhyā . iha ca strī : īkāraḥ na prāpnoti . na hi tena eva tasya sāmānādhikaraṇyam asti . siddham tu striyāḥ prātipadikaviśeṣaṇatvāt svārthe ṭābādayaḥ . siddham etat . katham . striyāḥ prātipadikaviśeṣaṇatvāt . prātipadikaviśeṣaṇam strīgrahaṇam . svārthikāḥ ṭābādayaḥ . na evam vijñāyate striyām abhidheyāyām iti na api strīsamānādhikaraṇāt iti . katham tarhi . striyām yat prātipadikam vartate tasmāt ṭābādayaḥ bhavanti . kasmin arthe . svārthe iti . atha vā punaḥ astu striyām abhidheyāyām iti . nanu ca uktam striyām iti stryarthābhidhāne cet ṭābādayaḥ dvivacanabahuvacanānekapratyayānupapattiḥ . stryarthasya ca prātipadikārthatvāt striyām iti liṅgānupapattiḥ . na eṣaḥ doṣaḥ . yat tāvat ucyate dvivacanabahuvacanayoḥ anupapattiḥ iti . guṇavacanasya ca āśrayataḥ liṅgavacanabhāvāt . guṇavacanānām hi śabdānām āśrayataḥ liṅgavacanāni bhavanti . tat yathā śuklam vastram , śuklā śāṭī śuklaḥ kambalaḥ śuklau kambalau śuklāḥ kambalāḥ iti . yat asau dravyam śritaḥ bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api bhavati . evam iha api yat adaḥ dravyam śritam bhavati strītvam tasya yat liṅgam vacanam ca tat strītvasya api bhaviṣyati . yat api ucyate anekapratyayānupapattiḥ iti . bhāvasya ca bhāvayuktatvāt . bhāvaḥ bhāvena yujyate . tat yatha iṣiḥ iṣiṇā nimantriḥ ca nimantriṇā . viṣamaḥ upanyāsaḥ . yuktam tatra anyatvam sādhanabhedāt kālabhedāt ca . uktam tatra ekasya bāhyam sādhanam sarvakālaḥ ca pratyayaḥ aparasya ābhyantaram sādhanam vartamānakālaḥ ca pratyayaḥ iti . iha punaḥ ekam strītvam . atha ekam upalabhyate . kim ca ataḥ yadi ekam upalabhyate dvitīyam api upalabhyatām . atha ekam api anumānagamyam dvtīyam api anumānāt gamyatām . kasya tāvat bhavān evam guṇam nyāyyam manyate strītvam nāma . dravyasya . dravye ca bhavataḥ kaḥ sampratyayaḥ . yadi tāvat guaṇasamudāyaḥ dravyam kā gatiḥ ye ete bhāvāḥ kṛdabhihitāḥ taddhitābhihitāḥ ca . cikīrṣā gotā iti . atha matam etat kṛdabhihitaḥ bhāvaḥ dravyavat bhavati iti strītvam api strītvena abhihitam dravyavat bhaviṣyati . kva ca tāvat doṣaḥ syāt . dṛṣṭasya hi
Sanskrit only: no published translation is held for this verse.
क्अ इइ,२००।२३-२०१।६ रो इइइ,४५८ स्त्रीविषये ङ्यापोः अप्रसिद्धिः अकारान्तादर्शनात् । स्त्रीविषये ङ्यापोः अप्रसिद्धिः । खट्वा माला । किम् कारणम् । अकारान्तादर्शनात् । न हि अकारान्तता दृश्यते । ननु च इयम् दृश्यते । अतिखट्वः अतिमालः इति । न एषा अकारान्तता । आपः एव एतत् ह्रस्वत्वम् । सर्वेषाम् तु स्वरवर्णानुपूर्वीज्ञानार्थः उपदेशः । सर्वेषाम् एव तु प्रातिपदिकानाम् स्वरवर्णानुपूर्वीज्ञानार्थः उपदेशः कर्तव्यः । शशः । षषः इति मा भूत् । पलाशः । पलाषः इति मा भूत् । मञ्चकः । मञ्जकः इति मा भूत् । तस्मात् सिद्धम् । तस्मात् सिद्धम् एतत् भवति । अथ वा इयम् अकारान्तता दृश्यते । पञ्चभिः खट्वाभिः क्रीतः पटः पञ्चखट्वः दशखट्वः ।
KA II,200.23-201.6 Ro III,458 strīviṣaye ṅyāpoḥ aprasiddhiḥ akārāntādarśanāt . strīviṣaye ṅyāpoḥ aprasiddhiḥ . khaṭvā mālā . kim kāraṇam . akārāntādarśanāt . na hi akārāntatā dṛśyate . nanu ca iyam dṛśyate . atikhaṭvaḥ atimālaḥ iti . na eṣā akārāntatā . āpaḥ eva etat hrasvatvam . sarveṣām tu svaravarṇānupūrvījñānārthaḥ upadeśaḥ . sarveṣām eva tu prātipadikānām svaravarṇānupūrvījñānārthaḥ upadeśaḥ kartavyaḥ . śaśaḥ . ṣaṣaḥ iti mā bhūt . palāśaḥ . palāṣaḥ iti mā bhūt . mañcakaḥ . mañjakaḥ iti mā bhūt . tasmāt siddham . tasmāt siddham etat bhavati . atha vā iyam akārāntatā dṛśyate . pañcabhiḥ khaṭvābhiḥ krītaḥ paṭaḥ pañcakhaṭvaḥ daśakhaṭvaḥ .
Sanskrit only: no published translation is held for this verse.