क्अ इइ,२००।२३-२०१।६ रो इइइ,४५८ स्त्रीविषये ङ्यापोः अप्रसिद्धिः अकारान्तादर्शनात् । स्त्रीविषये ङ्यापोः अप्रसिद्धिः । खट्वा माला । किम् कारणम् । अकारान्तादर्शनात् । न हि अकारान्तता दृश्यते । ननु च इयम् दृश्यते । अतिखट्वः अतिमालः इति । न एषा अकारान्तता । आपः एव एतत् ह्रस्वत्वम् । सर्वेषाम् तु स्वरवर्णानुपूर्वीज्ञानार्थः उपदेशः । सर्वेषाम् एव तु प्रातिपदिकानाम् स्वरवर्णानुपूर्वीज्ञानार्थः उपदेशः कर्तव्यः । शशः । षषः इति मा भूत् । पलाशः । पलाषः इति मा भूत् । मञ्चकः । मञ्जकः इति मा भूत् । तस्मात् सिद्धम् । तस्मात् सिद्धम् एतत् भवति । अथ वा इयम् अकारान्तता दृश्यते । पञ्चभिः खट्वाभिः क्रीतः पटः पञ्चखट्वः दशखट्वः ।
KA II,200.23-201.6 Ro III,458 strīviṣaye ṅyāpoḥ aprasiddhiḥ akārāntādarśanāt . strīviṣaye ṅyāpoḥ aprasiddhiḥ . khaṭvā mālā . kim kāraṇam . akārāntādarśanāt . na hi akārāntatā dṛśyate . nanu ca iyam dṛśyate . atikhaṭvaḥ atimālaḥ iti . na eṣā akārāntatā . āpaḥ eva etat hrasvatvam . sarveṣām tu svaravarṇānupūrvījñānārthaḥ upadeśaḥ . sarveṣām eva tu prātipadikānām svaravarṇānupūrvījñānārthaḥ upadeśaḥ kartavyaḥ . śaśaḥ . ṣaṣaḥ iti mā bhūt . palāśaḥ . palāṣaḥ iti mā bhūt . mañcakaḥ . mañjakaḥ iti mā bhūt . tasmāt siddham . tasmāt siddham etat bhavati . atha vā iyam akārāntatā dṛśyate . pañcabhiḥ khaṭvābhiḥ krītaḥ paṭaḥ pañcakhaṭvaḥ daśakhaṭvaḥ .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.