क्अ इइ,२३८।२-१३ रो इइइ,५५०-५५१ किमर्थम् नञ्स्नञौ उच्येते न नञ् एव उच्येत । का रूपसिद्धिः : पौंस्नम् । पुंस् इति सकारान्तः नकारशब्दः च प्रत्ययः । न सिध्यति । संयोगान्तस्य लोपः इति लोपः प्राप्नोति । एवम् तर्हि न एव अर्थः नञा न अपि स्नञा । अञ् प्रकृतः । सः अनुवर्तिष्यते नकारः च आगमः वक्तव्यः । अथ नकारागमे सति किम् पूर्वान्तः करिष्यते आहोस्वित् परादिः । किम् च अतः । यदि पूर्वान्तः स्त्रैणाः बहुषु लोपः प्राप्नोति । स्त्रैणानाम् सङ्घः सङ्घाङ्कलक्षणेषु अञ्यञिञाम् अण् इति अण् प्राप्नोति । अथ परादिः पौंसम् सः एव दोषः संयोगान्तलोपः प्राप्नोति । अस्तु पूर्वान्तः । कथम् स्त्रैणाः स्त्रैणानाम् सङ्घः इति । उभयत्र लौकिकस्य गोत्रस्य ग्रहणम् । न च इदम् लौकिकम् गोत्रम् । ईकारः तर्हि प्राप्नोति । इष्टम् एव एतत् सङ्गृहीतम् । स्त्रैणी पौंसी इति एव भवितव्यम् । एवम् हि सौनागाः पठन्ति नञ्स्नञीकक्खुंस्तरुणतलुनानाम् उपसङ्ख्यानम् इति । टिलोपः तर्हि प्राप्नोति । नुग्वचनात् न भविष्यति । भवेत् इह नुग्वचनात् न स्यात् स्त्रैणम् इति । इह तु खलु पऊम्सम् इति नुग्वचनात् एव प्राप्नोति । तस्मात् नञ्स्नञौ वक्तव्यौ ।
KA II,238.2-13 Ro III,550-551 kimartham nañsnañau ucyete na nañ eva ucyeta . kā rūpasiddhiḥ : pauṃsnam . puṃs iti sakārāntaḥ nakāraśabdaḥ ca pratyayaḥ . na sidhyati . saṃyogāntasya lopaḥ iti lopaḥ prāpnoti . evam tarhi na eva arthaḥ nañā na api snañā . añ prakṛtaḥ . saḥ anuvartiṣyate nakāraḥ ca āgamaḥ vaktavyaḥ . atha nakārāgame sati kim pūrvāntaḥ kariṣyate āhosvit parādiḥ . kim ca ataḥ . yadi pūrvāntaḥ straiṇāḥ bahuṣu lopaḥ prāpnoti . straiṇānām saṅghaḥ saṅghāṅkalakṣaṇeṣu añyañiñām aṇ iti aṇ prāpnoti . atha parādiḥ pauṃsam saḥ eva doṣaḥ saṃyogāntalopaḥ prāpnoti . astu pūrvāntaḥ . katham straiṇāḥ straiṇānām saṅghaḥ iti . ubhayatra laukikasya gotrasya grahaṇam . na ca idam laukikam gotram . īkāraḥ tarhi prāpnoti . iṣṭam eva etat saṅgṛhītam . straiṇī pauṃsī iti eva bhavitavyam . evam hi saunāgāḥ paṭhanti nañsnañīkakkhuṃstaruṇatalunānām upasaṅkhyānam iti . ṭilopaḥ tarhi prāpnoti . nugvacanāt na bhaviṣyati . bhavet iha nugvacanāt na syāt straiṇam iti . iha tu khalu paūmsam iti nugvacanāt eva prāpnoti . tasmāt nañsnañau vaktavyau .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.