क्अ इइ,२३८।१४-२५ रो इइइ,५५२ अथ इमौ नञ्स्नञौ प्राक् भवनात् आहोस्वित् प्राक् वतेः । कः च अत्र विशेषः । नञ्स्नञौ भवनात् इति चेत् वत्यर्थे प्रतिषेधः । नञ्स्नञौ भवनात् इति चेत् वत्यर्थे प्रतिषेधः वक्तव्यः । स्त्रीवत् पुंवत् इति । किम् पुनः कारणम् न सिध्यति । इम नञ्स्नञौ प्राक् भवनात् इति उच्येते । तौ विशेषविहितौ सामान्यविहितम् वतिम् बाधेयाताम् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । वतेः प्राक् इति वक्ष्यामि । वतेः प्राक् इति चेत् भावे उपसङ्ख्यानम् । वतेः प्राक् इति चेत् भावे उपसङ्ख्यानम् कर्तव्यम् । स्त्रीभावः स्त्रैणम् पुम्भावः पौंस्नम् इति । सूत्रम् च भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् नञ्स्नञौ भवनात् इति चेत् वत्यर्थे प्रतिषेधः इति । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति न वत्यर्थे नञ्स्नञौ भवतः इति यत् अयम् स्त्रियाः पुंवत् इति निर्देशम् करोति । एवम् अपि स्त्रीवत् इति न सिध्यति । योगापेक्षम् ज्ञापकम् ।
KA II,238.14-25 Ro III,552 atha imau nañsnañau prāk bhavanāt āhosvit prāk vateḥ . kaḥ ca atra viśeṣaḥ . nañsnañau bhavanāt iti cet vatyarthe pratiṣedhaḥ . nañsnañau bhavanāt iti cet vatyarthe pratiṣedhaḥ vaktavyaḥ . strīvat puṃvat iti . kim punaḥ kāraṇam na sidhyati . ima nañsnañau prāk bhavanāt iti ucyete . tau viśeṣavihitau sāmānyavihitam vatim bādheyātām . tat tarhi vaktavyam . na vaktavyam . vateḥ prāk iti vakṣyāmi . vateḥ prāk iti cet bhāve upasaṅkhyānam . vateḥ prāk iti cet bhāve upasaṅkhyānam kartavyam . strībhāvaḥ straiṇam pumbhāvaḥ pauṃsnam iti . sūtram ca bhidyate . yathānyāsam eva astu . nanu ca uktam nañsnañau bhavanāt iti cet vatyarthe pratiṣedhaḥ iti . na eṣaḥ doṣaḥ . ācāryapravṛttiḥ jñāpayati na vatyarthe nañsnañau bhavataḥ iti yat ayam striyāḥ puṃvat iti nirdeśam karoti . evam api strīvat iti na sidhyati . yogāpekṣam jñāpakam .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.