क्अ इइ,२७१।१९-२७२।१७ रो इइइ,६३०-६३१ अयुक्तः अयम् निर्देशः । योगः हिम् नाम भवति ययोः सन्निकर्षविप्रकर्षौ स्तः । न च कालनक्षत्रयोः सन्निकर्षविप्रकर्षौ स्तः । नित्ये हि कालनक्षत्रे । कथम् तर्हि निर्देशः कर्तव्यः । नक्षत्रेण चन्द्रमसः योगात् तद्युक्तात् काले प्रत्ययविधानम् । नक्षत्रेण चन्द्रमसः योगात् तद्युक्तात् काले प्रत्ययः भवति इति वक्तव्यम् । पुष्येण युक्तः पुष्ययुक्तः , पुष्ययुक्तः चन्द्रमाः अस्मिन् काले : पौषम् अहः , पौषी रात्रिः । तत्र उत्तरपदलोपः । तत्र उत्तरपदलोपः वक्तव्यः । पुष्ययुक्तशब्दात् हि प्रत्ययः विधीयते । लिङ्गवचनानुपपत्तिः च । लिङ्गवचनयोः च अनुपपत्तिः । चन्द्रमसः यत् लिङ्गम् वचनम् च तत् युक्तवद्भावेन प्राप्नोति । कालयोगात् सिद्धम् । अस्तु नक्ष्त्रेण युक्तः कालः इति एव । नन् च उक्तम् अयुक्तः अयम् निर्देशः । योगः हिम् नाम भवति ययोः सन्निकर्षविप्रकर्षौ स्तः न च कालनक्षत्रयोः सन्निकर्षविप्रकर्षौ स्तः । नित्ये हि कालनक्षत्रे इति । न एषः दोषः । पुष्यसमीपगते चन्द्रमसि पुष्यशब्दः वर्तते । तेन तत्सञ्ज्ञकेन कालः विशेष्यते । तथा च सम्प्रत्ययः । एवम् च कृत्वा लोके सम्प्रत्ययः भवति । पुष्यसमीपगते चन्द्रमसि वक्तारः भवन्ति पुष्येण अद्य । मघाभिः अद्य इति ।
KA II,271.19-272.17 Ro III,630-631 ayuktaḥ ayam nirdeśaḥ . yogaḥ him nāma bhavati yayoḥ sannikarṣaviprakarṣau staḥ . na ca kālanakṣatrayoḥ sannikarṣaviprakarṣau staḥ . nitye hi kālanakṣatre . katham tarhi nirdeśaḥ kartavyaḥ . nakṣatreṇa candramasaḥ yogāt tadyuktāt kāle pratyayavidhānam . nakṣatreṇa candramasaḥ yogāt tadyuktāt kāle pratyayaḥ bhavati iti vaktavyam . puṣyeṇa yuktaḥ puṣyayuktaḥ , puṣyayuktaḥ candramāḥ asmin kāle : pauṣam ahaḥ , pauṣī rātriḥ . tatra uttarapadalopaḥ . tatra uttarapadalopaḥ vaktavyaḥ . puṣyayuktaśabdāt hi pratyayaḥ vidhīyate . liṅgavacanānupapattiḥ ca . liṅgavacanayoḥ ca anupapattiḥ . candramasaḥ yat liṅgam vacanam ca tat yuktavadbhāvena prāpnoti . kālayogāt siddham . astu nakṣtreṇa yuktaḥ kālaḥ iti eva . nan ca uktam ayuktaḥ ayam nirdeśaḥ . yogaḥ him nāma bhavati yayoḥ sannikarṣaviprakarṣau staḥ na ca kālanakṣatrayoḥ sannikarṣaviprakarṣau staḥ . nitye hi kālanakṣatre iti . na eṣaḥ doṣaḥ . puṣyasamīpagate candramasi puṣyaśabdaḥ vartate . tena tatsañjñakena kālaḥ viśeṣyate . tathā ca sampratyayaḥ . evam ca kṛtvā loke sampratyayaḥ bhavati . puṣyasamīpagate candramasi vaktāraḥ bhavanti puṣyeṇa adya . maghābhiḥ adya iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.