क्अ इइ,२७९।१९-२८०।६ रो इइइ,६४४ गजसहायाभ्याम् च इति वक्तव्यम् । गजता सहायता । अह्नः खः । अह्नः खः वक्तव्यः । अह्नाम् समूहः अहीनः । क्रतौ । क्रतौ इति वक्तव्यम् । इह मा भूत् । आह्नाय धूतपाप्मानः भास्कराः जातमृत्यवः । पर्श्वाः सण् । पर्श्वाः सण् वक्तव्यः । पर्शूनाम् समूहः पार्श्वम् । यदि सण् क्रियते इत्सञ्ज्ञा न प्राप्नोति । एवम् तर्हि णस् वक्तव्यः ।
KA II,279.19-280.6 Ro III,644 gajasahāyābhyām ca iti vaktavyam . gajatā sahāyatā . ahnaḥ khaḥ . ahnaḥ khaḥ vaktavyaḥ . ahnām samūhaḥ ahīnaḥ . kratau . kratau iti vaktavyam . iha mā bhūt . āhnāya dhūtapāpmānaḥ bhāskarāḥ jātamṛtyavaḥ . parśvāḥ saṇ . parśvāḥ saṇ vaktavyaḥ . parśūnām samūhaḥ pārśvam . yadi saṇ kriyate itsañjñā na prāpnoti . evam tarhi ṇas vaktavyaḥ .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.