क्अ इइ।३६८।५-३६९।२ रो इव्।९३-९५ त्वतल्भ्याम् नञ्समासः पूर्वविप्रतिषिद्धम् त्वतलोः स्वरसिद्ध्यर्थम् । त्वतल्भ्याम् नञ्समासः भवति पूर्वविप्रतिष्धेन । किम् प्रयोजनम् । त्वतलोः स्वरसिद्ध्यर्थम् । त्वतलोः स्वरसिद्धिः यथा स्यात् । त्वतलोः अवकाशः भावस्य वचनम् प्रतिषेधस्य अवचनम् । ब्राह्मणत्वम् । ब्राह्म्णता । नञ्समासस्य अवकाशः प्रतिषेधस्य वचनम् भावस्य अवचनम् । अब्राह्मणः । अवृषलः । उभयवचने उभयम् प्राप्नोति । अब्राह्मणत्वम् । अब्राह्मणता । नञ्समासः भवति पूर्वविप्रतिष्धेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । न वक्तव्यः । न अत्र त्वतलौ प्राप्नुतः । किम् कारणम् । असामर्थ्यात् । कथम् असामर्थ्यम् । सापेक्षम् असमर्थम् भवति इति । यावता ब्राह्मणशब्दः प्रतिषेधम् अपेक्षते । नञ्समासः अपि तर्हि न प्राप्नोति । किम् कारणम् । असामर्थ्यात् एव । कथम् असामर्थ्यम् । सापेक्षम् असमर्थम् भवति इति । यावता ब्राह्मणशब्दः भावम् अपेक्षते । प्रधानम् तदा ब्राह्मणशब्दः । भवति च प्रधानस्य सापेक्षस्य अपि समासः । इदम् तर्हि प्रयोजनम् । नञ्समादात् अन्यः भाववचनः स्वरोत्तरपदवृद्ध्यर्थम् इति वक्ष्यति । तत्र व्यवस्थार्थम् इदम् वक्तव्यम् । वा छन्दसि । वा छन्दसि नञ्समासः वक्तव्यः । निर्वीर्यताम् वै यजमानः आशास्ते अपशुताम् । अयोनित्वाय । अशिथिलत्वाय । अगोताम् अनपत्यताम् । भवेत् इदम् युक्तम् उदाहरणम् । अयोनित्वाय । अशिथिलत्वाय इति । इदम् तु अयुक्तम् अपशुताम् इति । न हि असौ समासभावम् आशास्ते । किम् तर्हि । उत्तरपदाभावम् आशास्ते । न पशोः भावः इति । नञ्समासात् अन्यः भाववचनः । नञ्समासात् अन्यः भाववचनः भवति विप्रतिषेधेन । किम् प्रयोजनम् । स्वरोत्तरपदवृद्ध्यर्थम् । स्वरार्थम् उत्तरपदवृद्ध्यर्थम् च । स्वरार्थम् तावत् । अप्रथिमा । अम्रदिमा । उत्तरपदवृद्ध्यर्थम् । अशौक्ल्यम् । अकार्ष्ण्यम् ।
KA II.368.5-369.2 Ro IV.93-95 tvatalbhyām nañsamāsaḥ pūrvavipratiṣiddham tvataloḥ svarasiddhyartham . tvatalbhyām nañsamāsaḥ bhavati pūrvavipratiṣdhena . kim prayojanam . tvataloḥ svarasiddhyartham . tvataloḥ svarasiddhiḥ yathā syāt . tvataloḥ avakāśaḥ bhāvasya vacanam pratiṣedhasya avacanam . brāhmaṇatvam . brāhmṇatā . nañsamāsasya avakāśaḥ pratiṣedhasya vacanam bhāvasya avacanam . abrāhmaṇaḥ . avṛṣalaḥ . ubhayavacane ubhayam prāpnoti . abrāhmaṇatvam . abrāhmaṇatā . nañsamāsaḥ bhavati pūrvavipratiṣdhena . saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . na atra tvatalau prāpnutaḥ . kim kāraṇam . asāmarthyāt . katham asāmarthyam . sāpekṣam asamartham bhavati iti . yāvatā brāhmaṇaśabdaḥ pratiṣedham apekṣate . nañsamāsaḥ api tarhi na prāpnoti . kim kāraṇam . asāmarthyāt eva . katham asāmarthyam . sāpekṣam asamartham bhavati iti . yāvatā brāhmaṇaśabdaḥ bhāvam apekṣate . pradhānam tadā brāhmaṇaśabdaḥ . bhavati ca pradhānasya sāpekṣasya api samāsaḥ . idam tarhi prayojanam . nañsamādāt anyaḥ bhāvavacanaḥ svarottarapadavṛddhyartham iti vakṣyati . tatra vyavasthārtham idam vaktavyam . vā chandasi . vā chandasi nañsamāsaḥ vaktavyaḥ . nirvīryatām vai yajamānaḥ āśāste apaśutām . ayonitvāya . aśithilatvāya . agotām anapatyatām . bhavet idam yuktam udāharaṇam . ayonitvāya . aśithilatvāya iti . idam tu ayuktam apaśutām iti . na hi asau samāsabhāvam āśāste . kim tarhi . uttarapadābhāvam āśāste . na paśoḥ bhāvaḥ iti . nañsamāsāt anyaḥ bhāvavacanaḥ . nañsamāsāt anyaḥ bhāvavacanaḥ bhavati vipratiṣedhena . kim prayojanam . svarottarapadavṛddhyartham . svarārtham uttarapadavṛddhyartham ca . svarārtham tāvat . aprathimā . amradimā . uttarapadavṛddhyartham . aśauklyam . akārṣṇyam .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.