क्अ इइ।३६५।१४-३६६।६ रो इव्।८१-८२ स्त्रीपुंसाभ्याम् त्वतलोः उपसङ्ख्यानम् । स्त्रीपुंसाभ्याम् त्वतलोः उपसङ्ख्यानम् कर्तव्यम् । स्त्रीभावः स्त्रीत्वम् स्त्रीता । किम् पुनः कारणम् न सिध्यति । इमौ नञ्स्नञौ प्राक् भवनात् इति उच्येते । तौ विशेषविहितौ सामान्यविहितम् वतिम् बाधेयाताम् । वावचनम् च । वावचनम् च कर्तव्यम् । किम् प्रयोजनम् । नञ्स्नञौ अपि यथा स्याताम् । स्त्रीभावः स्त्रैणम् । पुम्म्भावः पौंस्नम् इति । अपवादसमावेशात् वा सिद्धम् । अपवादसमावेशात् वा सिद्धम् एतत् । तत् यथा इमनिच्प्रभृतिभिः अपवादैः समावेशः भवति एवम् आभ्याम् अपि भविष्यति । न एव ईश्वरः आज्ञापपयति न अपि धर्मसूत्रकाराः पठन्ति इमनिच्प्रभृतिभिः अपवादैः समावेशः भवति इति । किम् तर्हि आ च त्वात् इति एतस्मात् यत्नात् इमनिच्प्रभृतिभिः अपवादैः समावेशः भवति । न च एतौ अत्र अभ्यन्तरौ । एतौ अपि अत्र अभ्यन्तरौ । कथम् । अपवादसदेशाः अपवादाः भवन्ति इति । एतत् च एव न जानीमः अपवादसदेशाः अपवादाः भवन्ति इति । अपि च कुतः एतत् एतौ अपि अत्र अभ्यन्तरौ न पुनः पूर्वौ वा स्याताम् परौ वा । एवम् तर्हि वक्ष्यति आ च त्वात् इति अत्र चकारकरणस्य प्रयोजनम् । नञ्स्नञ्भ्याम् अपि समावेशः भवति इति ।
KA II.365.14-366.6 Ro IV.81-82 strīpuṃsābhyām tvataloḥ upasaṅkhyānam . strīpuṃsābhyām tvataloḥ upasaṅkhyānam kartavyam . strībhāvaḥ strītvam strītā . kim punaḥ kāraṇam na sidhyati . imau nañsnañau prāk bhavanāt iti ucyete . tau viśeṣavihitau sāmānyavihitam vatim bādheyātām . vāvacanam ca . vāvacanam ca kartavyam . kim prayojanam . nañsnañau api yathā syātām . strībhāvaḥ straiṇam . pummbhāvaḥ pauṃsnam iti . apavādasamāveśāt vā siddham . apavādasamāveśāt vā siddham etat . tat yathā imanicprabhṛtibhiḥ apavādaiḥ samāveśaḥ bhavati evam ābhyām api bhaviṣyati . na eva īśvaraḥ ājñāpapayati na api dharmasūtrakārāḥ paṭhanti imanicprabhṛtibhiḥ apavādaiḥ samāveśaḥ bhavati iti . kim tarhi ā ca tvāt iti etasmāt yatnāt imanicprabhṛtibhiḥ apavādaiḥ samāveśaḥ bhavati . na ca etau atra abhyantarau . etau api atra abhyantarau . katham . apavādasadeśāḥ apavādāḥ bhavanti iti . etat ca eva na jānīmaḥ apavādasadeśāḥ apavādāḥ bhavanti iti . api ca kutaḥ etat etau api atra abhyantarau na punaḥ pūrvau vā syātām parau vā . evam tarhi vakṣyati ā ca tvāt iti atra cakārakaraṇasya prayojanam . nañsnañbhyām api samāveśaḥ bhavati iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३६६।४-३६८।४ रो इव्।८३-९३ तस्य भावः इति अभिप्रायादिषु अतिप्रसङ्गः । तस्य भावः इति अभिप्रायादिषु अतिप्रसङ्गः भवति । इह अपि प्राप्नोति । अभिप्रायः देवदत्तस्य मोदकेषु भोजने । ये नः भावाः ते नः भावाः पुत्राः पुत्रैः चेष्टन्ते इति । सिद्धम् तु यस्य गुणस्य भावात् द्रव्ये शब्दनिवेशः तदभिधाने त्वतलौ । सिद्धम् एतत् । कथम् । यस्य गुणस्य भावात् द्रव्ये शब्दनिवेशः तदभिधाने तस्मिन् गुणे वक्तव्ये प्रत्ययेन भवितव्यम् । न च अभिप्रायादीनाम् भावात् द्रव्ये देवदत्तशब्दः वर्तते । किम् पुनः द्रव्यम् के पुनः गुणाः । शब्दस्पर्शरूपरसगन्धाः गुणाः । ततः अन्यत् द्रव्यम् । किम् पुनः अन्यत् शब्दादिभ्यः द्रव्यम् आहोस्वित् अनन्यत् । गुणस्य अयम् भावात् द्रव्ये शब्दनिवेशम् कुर्वन् ख्यापयति अन्यत् शब्दादिभ्यः द्रव्यम् इति । अनन्यत् शब्दादिभ्यः द्रव्यम् । न हि अन्यत् उपलभ्यते । पशोः खलु अपि विशसितस्य पर्णशते न्यस्तस्य न अन्यत् शब्दादिभ्यः उपलभ्यते । अन्यत् शब्दादिभ्यः द्रव्यम् तत् तु अनुमानगम्यम् । तत् यथा ओषधिवनस्पतीनाम् वृद्धिह्रासौ । ज्योतिषाम् गतिः इति । कः असौ अनुमानः । इह समाने वर्ष्मणि परिणाहे च अन्यत् तुलाग्रम् भवति लोहस्य अन्यत् कार्पासानाम् । यत्कृतः विशेषः तत् द्रव्यम् । तथा कः चित् स्पृशन् एव छिनत्ति कः चित् लम्बमानः अपि न छिनत्ति । यत्कृतः विशेषः तत् द्रव्यम् । कः चित् एकेन एव प्रहारेण व्यपवर्गम् करोति कः चित् द्वाभ्याम् अपि अन् करोति । यत्कृतः विशेषः तत् द्रव्यम् । अथ वा यस्य गुणान्तरेषु अपि प्रादुर्भावत्सु तत्त्वम् न विहन्यते तत् द्रव्यम् । किम् पुनः तत्त्वम् । तद्भावः तत्त्वम् । तत् यथा आमलकादीनाम् फलानाम् रक्तादयः पीतादयः च गुणाः प्रादुः भवन्ति । आमलकम् बदरम् इति एव भवति । अन्वर्थम् खलु अपि निर्वचनम् । गुणसन्द्रावः द्रव्यम् इति । यदि तर्हि षष्ठीसमर्थात् गुणे प्रत्ययाः उतप्द्यन्ते किम् इयता सूत्रेण । एतावत् वक्तव्यम् : षष्ठीसमर्थात् गुणे इति । षष्ठीसमर्थात् गुणे इति इयति उच्यमाने द्विगुणा रज्जुः त्रिगुणा रज्जुः अत्र अपि प्राप्नोति । न एषः दोषः । गुणशब्दः अयम् बह्वर्थः । अस्ति एव समेषु अवयवेषु वर्तते । तत् यथा द्विगुणा रज्जुः त्रिगुणा रज्जुः इति । अस्ति द्रव्यपदार्थकः । तत् यथा गुणवान् अयम् देशः इति उच्यते यस्मिन् गावः सस्यानि च वर्तन्ते । अस्ति अप्राधान्ये वर्तते । तत् यथा यः यत्र अप्रधानम् भवति सः आह गुणभूताः वयम् अत्र इति । अस्ति आचारे वर्तते । तत् यथा गुणवान् अयम् ब्राह्मणः इति उच्यते यः सम्यक् आचारम् करोति । अस्ति संस्कारे वर्तते । तत् यथा संस्कृतम् अन्नम् गुणवत् इति उच्यते । अथ वा सर्वत्र एव अयम् गुणशब्दः समेषु अवयवेषु वर्तते । तत् यथा द्विगुणम् अध्ययनम् त्रिगुणम् अध्ययनम् इति उच्यते । चर्चागुणान् क्रमगुणान् च अपेक्ष्य भवति न संहितागुणान् चर्चागुणान् च । यदि एवम् गुणवत् अन्नम् इति गुणशब्दः न उपपद्यते । न हि अन्नस्य सूपादयः गुणाः समाः भवन्ति । न अवश्यम् वर्ष्मतः परिमाणतः एव वा साम्यम् भवति । किम् तर्हि युक्तितः अपि । आतः च युक्तितः । यः हि मुद्गप्रस्थे लवणप्रस्थम् प्रक्षिपेत् न अदः युक्तम् स्यात् । यदि तावत् अदेः अन्नम् न अदः अत्तव्यम् स्यात् । अथ अनितेः अन्नम् न अदः जग्द्व्हा प्राण्यात् । शुक्लादिषु तर्हि वर्त्यभावात् वृत्तिः न प्राप्नोति । शुक्लत्वम् । शुक्लता इति । किम् पुनः कारणम् शुक्लादयः एव उदाह्रियन्ते न पुनः वृक्षादयः अपि । वृक्षत्वम् वृक्षता इति । अस्ति अत्र विशेषः । उभयवचनाः हि एते द्रव्यम् च आहुः गुणम् च । यतः द्रव्यवचनाः ततः वृत्तिः भविष्यति । इमे अपि तर्हि उभयवचनाः । कथम् । आरभ्यते मतुब्लोपः गुणवचनेभ्यः मतुपः लुक् भवति इति । यतः द्रव्यवचनाः ततः वृत्तिः भविष्यति । डित्थादिषु तर्हि वर्त्यभावात् वृत्तिः न प्राप्नोति । डित्थत्वम् । डित्थता । डाम्भिट्टत्वम् इति । अत्र अपि कः चित् प्राथमकल्पिकः डित्थः डाम्भिट्टः च । तेन कृताम् क्रियाम् गुणम् वा यः कः चित् करोति सः उच्यते डित्थत्वम् ते एतत् डाम्भिट्टत्वम् ते एतत् । एवम् डित्थाः कुर्वन्ति । एवम् डाम्भिट्टाः कुर्वन्ति । यः तर्हि प्राथमकल्पिकः डित्थः डाम्भिट्टः च तस्य वर्त्यभावात् वृत्तिः न प्राप्नोति । न एषः दोषः । यथा एव तस्य काथञ्चित्कः प्रयोगः एवम् वृत्तिः अपि भविष्यति । यत् वा सर्वे भावाः स्वेन भावेन भवन्ति सः तेषाम् भावः तदभिधाने । किम् एभिः त्रिभिः भावग्रहणैः क्रियते । एकेन शब्दः प्रतिनिर्दिश्यते द्वाभ्याम् अर्थः । यत् वा सर्वे शब्दाः स्वेन अर्थेन भवन्ति । सः तेषाम् अर्थः इति तदभिधाने वा त्वतलौ
KA II.366.4-368.4 Ro IV.83-93 tasya bhāvaḥ iti abhiprāyādiṣu atiprasaṅgaḥ . tasya bhāvaḥ iti abhiprāyādiṣu atiprasaṅgaḥ bhavati . iha api prāpnoti . abhiprāyaḥ devadattasya modakeṣu bhojane . ye naḥ bhāvāḥ te naḥ bhāvāḥ putrāḥ putraiḥ ceṣṭante iti . siddham tu yasya guṇasya bhāvāt dravye śabdaniveśaḥ tadabhidhāne tvatalau . siddham etat . katham . yasya guṇasya bhāvāt dravye śabdaniveśaḥ tadabhidhāne tasmin guṇe vaktavye pratyayena bhavitavyam . na ca abhiprāyādīnām bhāvāt dravye devadattaśabdaḥ vartate . kim punaḥ dravyam ke punaḥ guṇāḥ . śabdasparśarūparasagandhāḥ guṇāḥ . tataḥ anyat dravyam . kim punaḥ anyat śabdādibhyaḥ dravyam āhosvit ananyat . guṇasya ayam bhāvāt dravye śabdaniveśam kurvan khyāpayati anyat śabdādibhyaḥ dravyam iti . ananyat śabdādibhyaḥ dravyam . na hi anyat upalabhyate . paśoḥ khalu api viśasitasya parṇaśate nyastasya na anyat śabdādibhyaḥ upalabhyate . anyat śabdādibhyaḥ dravyam tat tu anumānagamyam . tat yathā oṣadhivanaspatīnām vṛddhihrāsau . jyotiṣām gatiḥ iti . kaḥ asau anumānaḥ . iha samāne varṣmaṇi pariṇāhe ca anyat tulāgram bhavati lohasya anyat kārpāsānām . yatkṛtaḥ viśeṣaḥ tat dravyam . tathā kaḥ cit spṛśan eva chinatti kaḥ cit lambamānaḥ api na chinatti . yatkṛtaḥ viśeṣaḥ tat dravyam . kaḥ cit ekena eva prahāreṇa vyapavargam karoti kaḥ cit dvābhyām api an karoti . yatkṛtaḥ viśeṣaḥ tat dravyam . atha vā yasya guṇāntareṣu api prādurbhāvatsu tattvam na vihanyate tat dravyam . kim punaḥ tattvam . tadbhāvaḥ tattvam . tat yathā āmalakādīnām phalānām raktādayaḥ pītādayaḥ ca guṇāḥ prāduḥ bhavanti . āmalakam badaram iti eva bhavati . anvartham khalu api nirvacanam . guṇasandrāvaḥ dravyam iti . yadi tarhi ṣaṣṭhīsamarthāt guṇe pratyayāḥ utapdyante kim iyatā sūtreṇa . etāvat vaktavyam : ṣaṣṭhīsamarthāt guṇe iti . ṣaṣṭhīsamarthāt guṇe iti iyati ucyamāne dviguṇā rajjuḥ triguṇā rajjuḥ atra api prāpnoti . na eṣaḥ doṣaḥ . guṇaśabdaḥ ayam bahvarthaḥ . asti eva sameṣu avayaveṣu vartate . tat yathā dviguṇā rajjuḥ triguṇā rajjuḥ iti . asti dravyapadārthakaḥ . tat yathā guṇavān ayam deśaḥ iti ucyate yasmin gāvaḥ sasyāni ca vartante . asti aprādhānye vartate . tat yathā yaḥ yatra apradhānam bhavati saḥ āha guṇabhūtāḥ vayam atra iti . asti ācāre vartate . tat yathā guṇavān ayam brāhmaṇaḥ iti ucyate yaḥ samyak ācāram karoti . asti saṃskāre vartate . tat yathā saṃskṛtam annam guṇavat iti ucyate . atha vā sarvatra eva ayam guṇaśabdaḥ sameṣu avayaveṣu vartate . tat yathā dviguṇam adhyayanam triguṇam adhyayanam iti ucyate . carcāguṇān kramaguṇān ca apekṣya bhavati na saṃhitāguṇān carcāguṇān ca . yadi evam guṇavat annam iti guṇaśabdaḥ na upapadyate . na hi annasya sūpādayaḥ guṇāḥ samāḥ bhavanti . na avaśyam varṣmataḥ parimāṇataḥ eva vā sāmyam bhavati . kim tarhi yuktitaḥ api . ātaḥ ca yuktitaḥ . yaḥ hi mudgaprasthe lavaṇaprastham prakṣipet na adaḥ yuktam syāt . yadi tāvat adeḥ annam na adaḥ attavyam syāt . atha aniteḥ annam na adaḥ jagdvhā prāṇyāt . śuklādiṣu tarhi vartyabhāvāt vṛttiḥ na prāpnoti . śuklatvam . śuklatā iti . kim punaḥ kāraṇam śuklādayaḥ eva udāhriyante na punaḥ vṛkṣādayaḥ api . vṛkṣatvam vṛkṣatā iti . asti atra viśeṣaḥ . ubhayavacanāḥ hi ete dravyam ca āhuḥ guṇam ca . yataḥ dravyavacanāḥ tataḥ vṛttiḥ bhaviṣyati . ime api tarhi ubhayavacanāḥ . katham . ārabhyate matublopaḥ guṇavacanebhyaḥ matupaḥ luk bhavati iti . yataḥ dravyavacanāḥ tataḥ vṛttiḥ bhaviṣyati . ḍitthādiṣu tarhi vartyabhāvāt vṛttiḥ na prāpnoti . ḍitthatvam . ḍitthatā . ḍāmbhiṭṭatvam iti . atra api kaḥ cit prāthamakalpikaḥ ḍitthaḥ ḍāmbhiṭṭaḥ ca . tena kṛtām kriyām guṇam vā yaḥ kaḥ cit karoti saḥ ucyate ḍitthatvam te etat ḍāmbhiṭṭatvam te etat . evam ḍitthāḥ kurvanti . evam ḍāmbhiṭṭāḥ kurvanti . yaḥ tarhi prāthamakalpikaḥ ḍitthaḥ ḍāmbhiṭṭaḥ ca tasya vartyabhāvāt vṛttiḥ na prāpnoti . na eṣaḥ doṣaḥ . yathā eva tasya kāthañcitkaḥ prayogaḥ evam vṛttiḥ api bhaviṣyati . yat vā sarve bhāvāḥ svena bhāvena bhavanti saḥ teṣām bhāvaḥ tadabhidhāne . kim ebhiḥ tribhiḥ bhāvagrahaṇaiḥ kriyate . ekena śabdaḥ pratinirdiśyate dvābhyām arthaḥ . yat vā sarve śabdāḥ svena arthena bhavanti . saḥ teṣām arthaḥ iti tadabhidhāne vā tvatalau
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३६८।५-३६९।२ रो इव्।९३-९५ त्वतल्भ्याम् नञ्समासः पूर्वविप्रतिषिद्धम् त्वतलोः स्वरसिद्ध्यर्थम् । त्वतल्भ्याम् नञ्समासः भवति पूर्वविप्रतिष्धेन । किम् प्रयोजनम् । त्वतलोः स्वरसिद्ध्यर्थम् । त्वतलोः स्वरसिद्धिः यथा स्यात् । त्वतलोः अवकाशः भावस्य वचनम् प्रतिषेधस्य अवचनम् । ब्राह्मणत्वम् । ब्राह्म्णता । नञ्समासस्य अवकाशः प्रतिषेधस्य वचनम् भावस्य अवचनम् । अब्राह्मणः । अवृषलः । उभयवचने उभयम् प्राप्नोति । अब्राह्मणत्वम् । अब्राह्मणता । नञ्समासः भवति पूर्वविप्रतिष्धेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । न वक्तव्यः । न अत्र त्वतलौ प्राप्नुतः । किम् कारणम् । असामर्थ्यात् । कथम् असामर्थ्यम् । सापेक्षम् असमर्थम् भवति इति । यावता ब्राह्मणशब्दः प्रतिषेधम् अपेक्षते । नञ्समासः अपि तर्हि न प्राप्नोति । किम् कारणम् । असामर्थ्यात् एव । कथम् असामर्थ्यम् । सापेक्षम् असमर्थम् भवति इति । यावता ब्राह्मणशब्दः भावम् अपेक्षते । प्रधानम् तदा ब्राह्मणशब्दः । भवति च प्रधानस्य सापेक्षस्य अपि समासः । इदम् तर्हि प्रयोजनम् । नञ्समादात् अन्यः भाववचनः स्वरोत्तरपदवृद्ध्यर्थम् इति वक्ष्यति । तत्र व्यवस्थार्थम् इदम् वक्तव्यम् । वा छन्दसि । वा छन्दसि नञ्समासः वक्तव्यः । निर्वीर्यताम् वै यजमानः आशास्ते अपशुताम् । अयोनित्वाय । अशिथिलत्वाय । अगोताम् अनपत्यताम् । भवेत् इदम् युक्तम् उदाहरणम् । अयोनित्वाय । अशिथिलत्वाय इति । इदम् तु अयुक्तम् अपशुताम् इति । न हि असौ समासभावम् आशास्ते । किम् तर्हि । उत्तरपदाभावम् आशास्ते । न पशोः भावः इति । नञ्समासात् अन्यः भाववचनः । नञ्समासात् अन्यः भाववचनः भवति विप्रतिषेधेन । किम् प्रयोजनम् । स्वरोत्तरपदवृद्ध्यर्थम् । स्वरार्थम् उत्तरपदवृद्ध्यर्थम् च । स्वरार्थम् तावत् । अप्रथिमा । अम्रदिमा । उत्तरपदवृद्ध्यर्थम् । अशौक्ल्यम् । अकार्ष्ण्यम् ।
KA II.368.5-369.2 Ro IV.93-95 tvatalbhyām nañsamāsaḥ pūrvavipratiṣiddham tvataloḥ svarasiddhyartham . tvatalbhyām nañsamāsaḥ bhavati pūrvavipratiṣdhena . kim prayojanam . tvataloḥ svarasiddhyartham . tvataloḥ svarasiddhiḥ yathā syāt . tvataloḥ avakāśaḥ bhāvasya vacanam pratiṣedhasya avacanam . brāhmaṇatvam . brāhmṇatā . nañsamāsasya avakāśaḥ pratiṣedhasya vacanam bhāvasya avacanam . abrāhmaṇaḥ . avṛṣalaḥ . ubhayavacane ubhayam prāpnoti . abrāhmaṇatvam . abrāhmaṇatā . nañsamāsaḥ bhavati pūrvavipratiṣdhena . saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . na atra tvatalau prāpnutaḥ . kim kāraṇam . asāmarthyāt . katham asāmarthyam . sāpekṣam asamartham bhavati iti . yāvatā brāhmaṇaśabdaḥ pratiṣedham apekṣate . nañsamāsaḥ api tarhi na prāpnoti . kim kāraṇam . asāmarthyāt eva . katham asāmarthyam . sāpekṣam asamartham bhavati iti . yāvatā brāhmaṇaśabdaḥ bhāvam apekṣate . pradhānam tadā brāhmaṇaśabdaḥ . bhavati ca pradhānasya sāpekṣasya api samāsaḥ . idam tarhi prayojanam . nañsamādāt anyaḥ bhāvavacanaḥ svarottarapadavṛddhyartham iti vakṣyati . tatra vyavasthārtham idam vaktavyam . vā chandasi . vā chandasi nañsamāsaḥ vaktavyaḥ . nirvīryatām vai yajamānaḥ āśāste apaśutām . ayonitvāya . aśithilatvāya . agotām anapatyatām . bhavet idam yuktam udāharaṇam . ayonitvāya . aśithilatvāya iti . idam tu ayuktam apaśutām iti . na hi asau samāsabhāvam āśāste . kim tarhi . uttarapadābhāvam āśāste . na paśoḥ bhāvaḥ iti . nañsamāsāt anyaḥ bhāvavacanaḥ . nañsamāsāt anyaḥ bhāvavacanaḥ bhavati vipratiṣedhena . kim prayojanam . svarottarapadavṛddhyartham . svarārtham uttarapadavṛddhyartham ca . svarārtham tāvat . aprathimā . amradimā . uttarapadavṛddhyartham . aśauklyam . akārṣṇyam .
Sanskrit only: no published translation is held for this verse.