क्अ इइ।३८१।७-१६ रो इव्।१२५-१२६ किमर्थम् शद्ग्रहणे अन्तग्रहणम् । शद्ग्रहणे अन्तग्रहणम् प्रत्ययग्रहणे यस्मात् सः तदादेः अधिकार्थम् । शद्ग्रहणे अन्तग्रहणम् क्रियते । प्रत्ययग्रहणे यस्मात् सः विहितः तदादेः तदन्तस्य ग्रहणम् भवति इति इह न प्राप्नोति : एकत्रिंशम् शतम् । इष्यते च अत्र अपि स्यात् इति । तत् च अन्तरेण यत्नम् न सिध्यति इति अन्तग्रहणम् । एवमर्थम् इदम् उच्यते । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । सङ्ख्याग्रहणम् च । सङ्ख्याग्रहणम् च कर्तव्यम् । इह मा भूत् । गोत्रिंशत् अधिकर्म् अस्मिन् शते इति । विंशतेः च । विंशतेः च अन्तग्रहणम् कर्तव्यम् । इह अपि यथा स्यात् । एकविंशम् शतम् । चकारात् सङ्ख्याग्रहणम् च कर्तव्यम् । इह मा भूत् । गोविंशतिः अधिकम् अस्मिन् शते इति ।
KA II.381.7-16 Ro IV.125-126 kimartham śadgrahaṇe antagrahaṇam . śadgrahaṇe antagrahaṇam pratyayagrahaṇe yasmāt saḥ tadādeḥ adhikārtham . śadgrahaṇe antagrahaṇam kriyate . pratyayagrahaṇe yasmāt saḥ vihitaḥ tadādeḥ tadantasya grahaṇam bhavati iti iha na prāpnoti : ekatriṃśam śatam . iṣyate ca atra api syāt iti . tat ca antareṇa yatnam na sidhyati iti antagrahaṇam . evamartham idam ucyate . asti prayojanam etat . kim tarhi iti . saṅkhyāgrahaṇam ca . saṅkhyāgrahaṇam ca kartavyam . iha mā bhūt . gotriṃśat adhikarm asmin śate iti . viṃśateḥ ca . viṃśateḥ ca antagrahaṇam kartavyam . iha api yathā syāt . ekaviṃśam śatam . cakārāt saṅkhyāgrahaṇam ca kartavyam . iha mā bhūt . goviṃśatiḥ adhikam asmin śate iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.