क्अ इइ।३८४।१९-३८५।१३ रो इव्।१३५-१३६ बहुकतिपयवतूनाम् लिङ्गविशिष्टात् उत्पत्तिः । बहुकतिपयवतूनाम् लिङ्गविशिष्टाद् उत्पत्तिः वक्तव्या । इह अपि यथा स्यात् । बह्वीनाम् पूरणी बहुतिथी । कतिपयानाम् पूरणी कतिपयथी । तावतीनाम् पूरणी तावतिथी । बहुकतिपयवतूनाम् लिङ्गविशिष्टाद् उत्पत्तिः सिद्धा । कथम् । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति । पुंवद्वचनम् च । पुंवद्भावः च वक्तव्यः । बह्वीनाम् पूरणी बहुतिथी । किमर्थम् न भस्य अढे तद्धिते पुंवत् भवति इति सिद्धम् । भस्य इति उच्यते । यजादौ च भम् भवति । न च अत्र यजादिम् पश्यामः । किम् कारणम् । तिथुका व्यविहितत्वात् न प्राप्नोति । इदम् इह सम्प्रधार्यम् । तिथुक् क्रियताम् पुंवद्भावः इति । किम् अत्र कर्तव्यम् । परत्वात् पुंवद्भावः । नित्यः तिथुक् । कृते अपि पुंवद्भावे प्राप्नोति अकृते अपि प्राप्नोति । तिथुक् अपि अनित्यः । अन्यस्य कृते पुंवद्भावे प्राप्नोति अन्यस्य अकृते । शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति । अन्तरङ्गः तर्हि तिथुक् । का अन्तरङ्गता । उत्पत्तिसन्नियोगेन तिथुक् उच्यते उत्पन्ने प्रत्यय्ते प्रकृतिप्रत्ययौ आश्रित्य पुंवद्भावः । पुंवद्भावः अपि अन्तरङ्गः । कथम् । उक्तम् एतत् सिद्धः च प्रत्ययविधौ इति । उभयोः अन्तरङ्गयोः परत्वात् पुंवद्भावः । पुंवद्भावे कृते पुनःप्रसङ्गविज्ञानात् तिथुक् सिद्धः : बहुतिथी ।
KA II.384.19-385.13 Ro IV.135-136 bahukatipayavatūnām liṅgaviśiṣṭāt utpattiḥ . bahukatipayavatūnām liṅgaviśiṣṭād utpattiḥ vaktavyā . iha api yathā syāt . bahvīnām pūraṇī bahutithī . katipayānām pūraṇī katipayathī . tāvatīnām pūraṇī tāvatithī . bahukatipayavatūnām liṅgaviśiṣṭād utpattiḥ siddhā . katham . prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti . puṃvadvacanam ca . puṃvadbhāvaḥ ca vaktavyaḥ . bahvīnām pūraṇī bahutithī . kimartham na bhasya aḍhe taddhite puṃvat bhavati iti siddham . bhasya iti ucyate . yajādau ca bham bhavati . na ca atra yajādim paśyāmaḥ . kim kāraṇam . tithukā vyavihitatvāt na prāpnoti . idam iha sampradhāryam . tithuk kriyatām puṃvadbhāvaḥ iti . kim atra kartavyam . paratvāt puṃvadbhāvaḥ . nityaḥ tithuk . kṛte api puṃvadbhāve prāpnoti akṛte api prāpnoti . tithuk api anityaḥ . anyasya kṛte puṃvadbhāve prāpnoti anyasya akṛte . śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . antaraṅgaḥ tarhi tithuk . kā antaraṅgatā . utpattisanniyogena tithuk ucyate utpanne pratyayte prakṛtipratyayau āśritya puṃvadbhāvaḥ . puṃvadbhāvaḥ api antaraṅgaḥ . katham . uktam etat siddhaḥ ca pratyayavidhau iti . ubhayoḥ antaraṅgayoḥ paratvāt puṃvadbhāvaḥ . puṃvadbhāve kṛte punaḥprasaṅgavijñānāt tithuk siddhaḥ : bahutithī .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.