क्अ इइ।३९४।७-१५ रो इव्।१६१-१६२ गुणवचनेभ्यः मतुपः लुक् । गुणवचनेभ्यः मतुपः लुक् वक्तव्यः । शुक्लः कृष्णः इति । अव्यतिरेकात् सिद्धम् । न गुणः गुणिनम् व्यभिचरति इति । अव्यतिरेकात् सिद्धम् इति चेत् दृष्टः व्यतिरेकः । दृश्यते व्यतिरेकः । तत् यथ पटस्य शुक्लः इति । तथा च लिङ्गवचनसिद्धिः । एवम् च कृत्वा लिङ्गवचनानि सिद्धानि भवन्ति । शुक्लम् वस्त्रम् । शुक्ला शाटी । शुक्लः कम्बलः । शुक्लौ कम्बलौ । शुक्लाः कम्बलाः इति । यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति ।
KA II.394.7-15 Ro IV.161-162 guṇavacanebhyaḥ matupaḥ luk . guṇavacanebhyaḥ matupaḥ luk vaktavyaḥ . śuklaḥ kṛṣṇaḥ iti . avyatirekāt siddham . na guṇaḥ guṇinam vyabhicarati iti . avyatirekāt siddham iti cet dṛṣṭaḥ vyatirekaḥ . dṛśyate vyatirekaḥ . tat yatha paṭasya śuklaḥ iti . tathā ca liṅgavacanasiddhiḥ . evam ca kṛtvā liṅgavacanāni siddhāni bhavanti . śuklam vastram . śuklā śāṭī . śuklaḥ kambalaḥ . śuklau kambalau . śuklāḥ kambalāḥ iti . yat asau dravyam śritaḥ bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api bhavati .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.