क्अ इइ।३९३।११-३९४।६ रो इव्।१५९-१६१ किम् पुनः इमे मतुप्प्रभृतयः सन्मात्रे भवन्ति । एवम् भवितुम् अर्हति । मतुप्प्रभृतयः सन्मात्रे चेत् अतिप्रसङ्गः । मतुप्प्रभृतयः सन्मात्रे चेत् अतिप्रसङ्गः भवति । इह अपि प्राप्नोति । व्रीहिः अस्य । यवः अस्य इति । तस्मात् भूमादिग्रहणम् कर्तव्यम् । के पुनः भूमादयः । भूमनिन्दाप्रशंसासु नित्ययोगे अतिशायने संसर्गे अस्तिविवक्षायाम् भवन्ति मतुबादयः । भूम्नि : गोमान् यवमान् । निन्दायाम् : ककुदावर्ती सङ्खादकी । प्रशंसयाम् : रूपवान् वर्णवान् । नित्ययोगे : क्षीरिणः वृक्षाः , कण्टकिनः वृक्षाः इति । अतिशायने : उदरिणी कन्या । संसर्गे : दण्डी छत्री । तत् तर्हि भूमादिग्रहणम् कर्तव्यम् । न कर्तव्यम् । कस्मात् न भवति । व्रीहिः अस्य । यवः अस्य इति । उक्तम् वा। किम् उक्तम् । अनभिधानात् इति । इतिकरणः खलु अपि क्रियते । ततः चेत् विवक्षा । भूमादियुक्तस्य एव च विवक्षा । गोमान् यवमान् । भूमादियुक्तस्य एव सत्ता कथ्यते । न हि कस्य चित् यवः न अस्ति । सङ्खादकी ककुदावर्तिनी । निन्दाउक्तस्य एव सत्ता कथ्यते । न हि कः चित् न सङ्खादकी । रूपवान् वर्णवान् । प्रशंसायुक्तस्य एव सत्ता कथ्यते । न हि कस्य चित् रूपम् न अस्ति । क्षीरिणः वृक्षाः । कण्टकिनः वृक्षाः इति । नित्ययुक्तस्य एव सत्ता कथ्यते । न हि कस्य चित् क्षिरम् न अस्ति । उदरिणी कन्या इति । अतिशायनयुक्तस्य एव सत्ता कथ्यते । न हि कस्य चित् उदरम् न अस्ति । दण्डी छत्री । संसर्गयुक्तस्य एव सत्ता कथ्यते । न हि कस्य चित् दण्डः न अस्ति । यावतीभिः खलु अपि गोभिः वाहदोहप्रसवाः कल्पन्ते तावतीषु सत्ता कथ्यते । कस्य चित् तिसृभिः कल्पन्ते कस्य चित् शतेन अपि न प्रकल्पन्ते । सन्मात्रे च ऋषिदर्शनात् । सन्मात्रे च पुनः ऋषिः दर्शयति मतुपम् । यवमतीभिः अद्भिः यूपम् प्रोक्षति इति ।
KA II.393.11-394.6 Ro IV.159-161 kim punaḥ ime matupprabhṛtayaḥ sanmātre bhavanti . evam bhavitum arhati . matupprabhṛtayaḥ sanmātre cet atiprasaṅgaḥ . matupprabhṛtayaḥ sanmātre cet atiprasaṅgaḥ bhavati . iha api prāpnoti . vrīhiḥ asya . yavaḥ asya iti . tasmāt bhūmādigrahaṇam kartavyam . ke punaḥ bhūmādayaḥ . bhūmanindāpraśaṃsāsu nityayoge atiśāyane saṃsarge astivivakṣāyām bhavanti matubādayaḥ . bhūmni : gomān yavamān . nindāyām : kakudāvartī saṅkhādakī . praśaṃsayām : rūpavān varṇavān . nityayoge : kṣīriṇaḥ vṛkṣāḥ , kaṇṭakinaḥ vṛkṣāḥ iti . atiśāyane : udariṇī kanyā . saṃsarge : daṇḍī chatrī . tat tarhi bhūmādigrahaṇam kartavyam . na kartavyam . kasmāt na bhavati . vrīhiḥ asya . yavaḥ asya iti . uktam vā. kim uktam . anabhidhānāt iti . itikaraṇaḥ khalu api kriyate . tataḥ cet vivakṣā . bhūmādiyuktasya eva ca vivakṣā . gomān yavamān . bhūmādiyuktasya eva sattā kathyate . na hi kasya cit yavaḥ na asti . saṅkhādakī kakudāvartinī . nindāuktasya eva sattā kathyate . na hi kaḥ cit na saṅkhādakī . rūpavān varṇavān . praśaṃsāyuktasya eva sattā kathyate . na hi kasya cit rūpam na asti . kṣīriṇaḥ vṛkṣāḥ . kaṇṭakinaḥ vṛkṣāḥ iti . nityayuktasya eva sattā kathyate . na hi kasya cit kṣiram na asti . udariṇī kanyā iti . atiśāyanayuktasya eva sattā kathyate . na hi kasya cit udaram na asti . daṇḍī chatrī . saṃsargayuktasya eva sattā kathyate . na hi kasya cit daṇḍaḥ na asti . yāvatībhiḥ khalu api gobhiḥ vāhadohaprasavāḥ kalpante tāvatīṣu sattā kathyate . kasya cit tisṛbhiḥ kalpante kasya cit śatena api na prakalpante . sanmātre ca ṛṣidarśanāt . sanmātre ca punaḥ ṛṣiḥ darśayati matupam . yavamatībhiḥ adbhiḥ yūpam prokṣati iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.