Library·Patanjali: Vyakaranamahabhasya·5·5.2·5.2.94

Patanjali: Vyakaranamahabhasya 5.2.94

क्अ इइ।३९१।२-२३ रो इव्।१४७-१५३ किमर्थम् इमौ अर्थौ उभौ निर्दिश्येते : अस्य अस्मिन् इति न यत् यस्य भवति तस्मिन् अपि तत् भवति यत् च यस्मिन् भवति तत् तस्य अपि भवति । न एतयोः आवश्यकः समावेशः । भवन्ति हि देवदत्तस्य गावः न च ताः तस्मिन् आधृताः भवन्ति । भवन्ति च पर्वते वृक्षाः न च ते तस्य भवन्ति । अथ अस्तिग्रहणम् किमर्थम् । सत्तायाम् अर्थे प्रत्ययः यथा स्यात् । न एतत् अस्ति प्रयोजनम् । न सत्ताम् पदार्थः व्यभिचरति । इदम् तर्हि प्रयोजनम् : सम्प्रतिसत्तायाम् यथा स्यात् , भूतभविष्यत्सत्तायाम् मा भूत् : गावः अस्य आसन् । गावः अस्य भवितारः इति । न तर्हि इदानीम् इदम् भवति : गोमान् आसीत् । गोमान् भविता इति । भवति न तु एतस्मिन् वाक्ये । यदि एतस्मिन् वाक्ये स्यात् यथा इह अस्तेः प्रयोगः न भवति गोमान् यवमान् इति एवम् इह अपि न स्यात् : गोमान् आसीत् । गोमान् भविता इति । सति अपि अस्तेः प्रयोगे यथा इह बहुवचनम् श्रूयते गावः अस्य आसन् गावः अस्य भवितारः एवम् इह अपि स्यात् । गोमान् आसीत् । गोमान् भविता इति । का तर्हि इयम् वाचोयुक्तिः । गोमान् आसीत् । गोमान् भविता इति । एषा एषा वाचोयुक्तिः । न एषा गवाम् सत्ता कथ्यते । किम् तर्हि । गोमत्सत्ता एषा कथ्यते । अस्ति अत्र वर्तमानकालः अस्तिः । कथम् तर्हि भूतभविष्यत्सत्ता गम्यते । धातुसम्बन्धे प्रत्ययाः इति । इदम् तर्हि प्रयोजनम् । अस्तियुक्तात् यथा स्यात् । अनन्तरादियुक्तात् मा भूत् इति । गावः अस्य अनन्तराः । गावः अस्य समीपे इति । अथ क्रियमाणे अपि अस्त्रिग्रहणे इह कस्मात् न भवति । गावः अस्य सन्ति अनन्तराः । गावः अस्य सन्ति समीपे इति । असामर्थ्यात् । कथम् असामर्थ्यम् । सापेक्षम् असर्मर्थम् भवति इति । यथा एव तर्हि क्रियमाणे अस्त्रिग्रहणे असामर्थ्यात् अनन्तरादिषु न भवन्ति एवम् अक्रियमाणे अपि न भविष्यति । अस्ति अत्र विशेषः । क्रियमाणे अस्त्रिग्रहणे न अन्तरेण तृतीयस्य पदस्य प्रयोगम् अन्तरादयः अर्थाः गम्यन्ते । अक्रियमाणे पुनः अस्त्रिग्रहणे अन्तरेण अपि तृतीयस्य पदस्य प्रयोगम् अन्तरादयः अर्थाः गम्यन्ते ।

KA II.391.2-23 Ro IV.147-153 kimartham imau arthau ubhau nirdiśyete : asya asmin iti na yat yasya bhavati tasmin api tat bhavati yat ca yasmin bhavati tat tasya api bhavati . na etayoḥ āvaśyakaḥ samāveśaḥ . bhavanti hi devadattasya gāvaḥ na ca tāḥ tasmin ādhṛtāḥ bhavanti . bhavanti ca parvate vṛkṣāḥ na ca te tasya bhavanti . atha astigrahaṇam kimartham . sattāyām arthe pratyayaḥ yathā syāt . na etat asti prayojanam . na sattām padārthaḥ vyabhicarati . idam tarhi prayojanam : sampratisattāyām yathā syāt , bhūtabhaviṣyatsattāyām mā bhūt : gāvaḥ asya āsan . gāvaḥ asya bhavitāraḥ iti . na tarhi idānīm idam bhavati : gomān āsīt . gomān bhavitā iti . bhavati na tu etasmin vākye . yadi etasmin vākye syāt yathā iha asteḥ prayogaḥ na bhavati gomān yavamān iti evam iha api na syāt : gomān āsīt . gomān bhavitā iti . sati api asteḥ prayoge yathā iha bahuvacanam śrūyate gāvaḥ asya āsan gāvaḥ asya bhavitāraḥ evam iha api syāt . gomān āsīt . gomān bhavitā iti . kā tarhi iyam vācoyuktiḥ . gomān āsīt . gomān bhavitā iti . eṣā eṣā vācoyuktiḥ . na eṣā gavām sattā kathyate . kim tarhi . gomatsattā eṣā kathyate . asti atra vartamānakālaḥ astiḥ . katham tarhi bhūtabhaviṣyatsattā gamyate . dhātusambandhe pratyayāḥ iti . idam tarhi prayojanam . astiyuktāt yathā syāt . anantarādiyuktāt mā bhūt iti . gāvaḥ asya anantarāḥ . gāvaḥ asya samīpe iti . atha kriyamāṇe api astrigrahaṇe iha kasmāt na bhavati . gāvaḥ asya santi anantarāḥ . gāvaḥ asya santi samīpe iti . asāmarthyāt . katham asāmarthyam . sāpekṣam asarmartham bhavati iti . yathā eva tarhi kriyamāṇe astrigrahaṇe asāmarthyāt anantarādiṣu na bhavanti evam akriyamāṇe api na bhaviṣyati . asti atra viśeṣaḥ . kriyamāṇe astrigrahaṇe na antareṇa tṛtīyasya padasya prayogam antarādayaḥ arthāḥ gamyante . akriyamāṇe punaḥ astrigrahaṇe antareṇa api tṛtīyasya padasya prayogam antarādayaḥ arthāḥ gamyante .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।३९१।२४-३९२।१९ रो इव्।१५३-१५६ अथ इह कस्मात् न भवति । चित्रगुः । शबलगुः इति । बहुव्रीह्युक्तत्वात् मत्वर्थस्य । अथ इह कस्मात् न भवति । चित्राः गावः अस्य सन्ति इति । कुतः कस्मात् न भवति । किम् अवयवात् आहोस्वित् समुदायात् । अवयवात् कस्मात् न भवति । असामर्थ्यात् । कथम् असामर्थ्यम् । सापेक्षम् असर्मर्थम् भवति इति । समुदायात् तर्हि कस्मात् न भवति । अप्रातिपदिकत्वात् । ननु च भोः आकृतौ शास्त्राणि प्रवर्तन्ते । तत् यथा सुप् सुपा इति वर्तमाने अन्यस्य च अन्यस्य च समासः भवति । सत्यम् एवम् एतत् । आकृतिः तु प्रत्येकम् परिसमाप्यते । यावति एतत् परिसमाप्यते ङ्याप्प्रातिपदिकात् इति तावतः उत्पत्त्या भवितव्यम् । अवयवे च एतत् परिसमाप्यते न समुदाये । अथ इह कस्मात् न भवति । पञ्च गावः अस्य सन्ति पञ्चगुः । दशगुः इति । प्रत्येकम् असामर्थ्यात् समुदायात् अप्रातिपदिकत्वात् समासात् समासेन उक्तत्वात् । न एतत् सारम् । उक्ते अपि हि प्रत्ययार्थे उत्पद्यते द्विगोः तद्धितः । तत् यथा द्वैमातुरः पाञ्चनापितिः इति । न एषः द्विगुः । कः तर्हि । बहुव्रीहिः । अपवादत्वात् द्विगुः प्राप्नोति । अन्तरङ्गत्वात् बहुव्रीहिः भविष्यति । का अन्तरङ्गता । अन्यपदार्थे बहुव्रीहिः वर्तते विशिष्टे अन्यपदार्थे तद्धितार्थे द्विगुः । तस्मिन् च अस्य तद्धिते अस्तिग्रहणम् क्रियते । यदि तर्हि अतिप्रसङ्गाः सन्ति बहुव्रीहौ अपि अस्तिग्रहणम् कर्तव्यम् अस्तियुक्तात् यथा स्यात् अनन्तरादियुक्तात् मा भूत् इति । अथ न सन्ति तद्धितविधौ अपि न अर्थः अस्तिग्रहणेन । सत्यम् एवम् एतत् । क्रियते तु इदानीम् तद्धितविधौ अस्तिग्रहणम् । तत् वै क्रियमाणम् अपि प्रत्ययविध्यर्थम् न उपाध्यर्थम् । अस्तिमान् इति मतुप् यथा स्यात् । किम् च कारणम् न स्यात् । अप्रातिपदिकत्वात् । न एषः दोषः । अव्ययम् एषः अस्तिशब्दः । न एष अस्तेः लट् । कथम् अव्ययत्वम् । विभक्तिस्वरप्रतिरूपकाः च निपाताः भवन्ति इति निपातसञ्ज्ञा । निपातः अव्ययम् इति अव्ययसञ्ज्ञा । एवम् अपि न सिध्यति । किम् कारणम् । अस्तिसामानाधिकरण्ये मतुप् विधीयते । न च अस्तेः अस्तिना सामानाधिकरण्यम् । तत् एतत् क्रियमाणम् अपि प्रत्ययविध्यर्थम् न उपाध्यर्थम् । तस्मात् द्विगोः तद्धितस्य प्रतिषेधः वक्तव्यः यदि तत् न अस्ति सर्वत्र मत्वर्थे प्रतिषेधः इति । सति हि तस्मिन् तेन एव सिद्धम् ।

KA II.391.24-392.19 Ro IV.153-156 atha iha kasmāt na bhavati . citraguḥ . śabalaguḥ iti . bahuvrīhyuktatvāt matvarthasya . atha iha kasmāt na bhavati . citrāḥ gāvaḥ asya santi iti . kutaḥ kasmāt na bhavati . kim avayavāt āhosvit samudāyāt . avayavāt kasmāt na bhavati . asāmarthyāt . katham asāmarthyam . sāpekṣam asarmartham bhavati iti . samudāyāt tarhi kasmāt na bhavati . aprātipadikatvāt . nanu ca bhoḥ ākṛtau śāstrāṇi pravartante . tat yathā sup supā iti vartamāne anyasya ca anyasya ca samāsaḥ bhavati . satyam evam etat . ākṛtiḥ tu pratyekam parisamāpyate . yāvati etat parisamāpyate ṅyāpprātipadikāt iti tāvataḥ utpattyā bhavitavyam . avayave ca etat parisamāpyate na samudāye . atha iha kasmāt na bhavati . pañca gāvaḥ asya santi pañcaguḥ . daśaguḥ iti . pratyekam asāmarthyāt samudāyāt aprātipadikatvāt samāsāt samāsena uktatvāt . na etat sāram . ukte api hi pratyayārthe utpadyate dvigoḥ taddhitaḥ . tat yathā dvaimāturaḥ pāñcanāpitiḥ iti . na eṣaḥ dviguḥ . kaḥ tarhi . bahuvrīhiḥ . apavādatvāt dviguḥ prāpnoti . antaraṅgatvāt bahuvrīhiḥ bhaviṣyati . kā antaraṅgatā . anyapadārthe bahuvrīhiḥ vartate viśiṣṭe anyapadārthe taddhitārthe dviguḥ . tasmin ca asya taddhite astigrahaṇam kriyate . yadi tarhi atiprasaṅgāḥ santi bahuvrīhau api astigrahaṇam kartavyam astiyuktāt yathā syāt anantarādiyuktāt mā bhūt iti . atha na santi taddhitavidhau api na arthaḥ astigrahaṇena . satyam evam etat . kriyate tu idānīm taddhitavidhau astigrahaṇam . tat vai kriyamāṇam api pratyayavidhyartham na upādhyartham . astimān iti matup yathā syāt . kim ca kāraṇam na syāt . aprātipadikatvāt . na eṣaḥ doṣaḥ . avyayam eṣaḥ astiśabdaḥ . na eṣa asteḥ laṭ . katham avyayatvam . vibhaktisvarapratirūpakāḥ ca nipātāḥ bhavanti iti nipātasañjñā . nipātaḥ avyayam iti avyayasañjñā . evam api na sidhyati . kim kāraṇam . astisāmānādhikaraṇye matup vidhīyate . na ca asteḥ astinā sāmānādhikaraṇyam . tat etat kriyamāṇam api pratyayavidhyartham na upādhyartham . tasmāt dvigoḥ taddhitasya pratiṣedhaḥ vaktavyaḥ yadi tat na asti sarvatra matvarthe pratiṣedhaḥ iti . sati hi tasmin tena eva siddham .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।३९२।२०-३९३।१० रो इव्।१५६-१५९ अथ मत्वर्थीयात् मत्वर्थीयेन भवितव्यम् । न भवितव्यम् । किम् कारणम् । अर्थगत्यर्थः शब्दप्रयोगः । अर्थम् सम्प्रत्याययिष्यामि इति शब्दः प्रयुज्यते । तत्र एकेन उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् । किम् कारणम् । उक्तार्थानाम् अप्रयोगः इति । न तर्हि इदानीम् इदम् भवति : दण्डिमती शाला । हस्तिमती उपपत्यका इति । भवति । अर्थान्तरे वृत्तात् अर्थान्तरे वृत्तिः । षष्ठ्यर्थे वा वृत्तम् सप्तम्यर्थे वर्तते सप्तम्यर्थे वा वृत्तम् षष्ठ्यर्थे वर्तते । अथ मत्वन्तात् मतुपा भवितव्यम् : गोमन्तः अस्य सन्ति । यवमन्तः अस्य सन्ति इति । न भवितव्यम् । किम् काऋअणम् । यस्य गोमन्तः सन्ति गावः अपि तस्य सन्ति । तत्र उक्तः गोभिः अभिसम्बन्धे प्रत्ययः इति कृत्वा तद्धितः न भविष्यति । न तर्हि इदानीम् इदम् भवति : दण्डिमती शाला । हस्तिमती उपपत्यका इति । भवति । अर्थान्तरे वृत्तात् अर्थान्तरे वृत्तिः । षष्ठ्यर्थे वा वृत्तम् सप्तम्यर्थे वर्तते सप्तम्यर्थे वा वृत्तम् षष्ठ्यर्थे वर्तते । इह अपि सप्तम्यर्थे वा वृत्तम् षष्ठ्यर्थे वर्तते षष्ठ्यर्थे वा वृत्तम् सप्तम्यर्थे वर्तते । अन्यथाजातीयकः खलु अपि गोभिः अभिसम्बन्धे प्रत्ययः अन्यथाजातीयकः तद्वता । येन एव खलु अपि हेतुना एतत् वाक्यम् भवति गोमन्तः अस्य सन्ति , यवमन्तः अस्य सन्ति इति तेन एव हेतुना वृत्तिः अपि प्राप्नोति । तस्मात् मत्वर्थीयात् मतुबादेः प्रतिषेधः वक्तव्यः । तम् च अपि ब्रुवता समान्वृत्तौ सरूपः इति वक्तव्यम् । भवति हि दण्डिमती शाला हस्तिमती उपपत्यका इति । शैषिकात् मतुबर्थीयात् शैषिकः मतुबर्थीयः सरूपः प्रत्ययः न इष्टः । सनन्तात् न सन् इष्यते ।

KA II.392.20-393.10 Ro IV.156-159 atha matvarthīyāt matvarthīyena bhavitavyam . na bhavitavyam . kim kāraṇam . arthagatyarthaḥ śabdaprayogaḥ . artham sampratyāyayiṣyāmi iti śabdaḥ prayujyate . tatra ekena uktatvāt tasya arthasya dvitīyasya prayogeṇa na bhavitavyam . kim kāraṇam . uktārthānām aprayogaḥ iti . na tarhi idānīm idam bhavati : daṇḍimatī śālā . hastimatī upapatyakā iti . bhavati . arthāntare vṛttāt arthāntare vṛttiḥ . ṣaṣṭhyarthe vā vṛttam saptamyarthe vartate saptamyarthe vā vṛttam ṣaṣṭhyarthe vartate . atha matvantāt matupā bhavitavyam : gomantaḥ asya santi . yavamantaḥ asya santi iti . na bhavitavyam . kim kāṛaṇam . yasya gomantaḥ santi gāvaḥ api tasya santi . tatra uktaḥ gobhiḥ abhisambandhe pratyayaḥ iti kṛtvā taddhitaḥ na bhaviṣyati . na tarhi idānīm idam bhavati : daṇḍimatī śālā . hastimatī upapatyakā iti . bhavati . arthāntare vṛttāt arthāntare vṛttiḥ . ṣaṣṭhyarthe vā vṛttam saptamyarthe vartate saptamyarthe vā vṛttam ṣaṣṭhyarthe vartate . iha api saptamyarthe vā vṛttam ṣaṣṭhyarthe vartate ṣaṣṭhyarthe vā vṛttam saptamyarthe vartate . anyathājātīyakaḥ khalu api gobhiḥ abhisambandhe pratyayaḥ anyathājātīyakaḥ tadvatā . yena eva khalu api hetunā etat vākyam bhavati gomantaḥ asya santi , yavamantaḥ asya santi iti tena eva hetunā vṛttiḥ api prāpnoti . tasmāt matvarthīyāt matubādeḥ pratiṣedhaḥ vaktavyaḥ . tam ca api bruvatā samānvṛttau sarūpaḥ iti vaktavyam . bhavati hi daṇḍimatī śālā hastimatī upapatyakā iti . śaiṣikāt matubarthīyāt śaiṣikaḥ matubarthīyaḥ sarūpaḥ pratyayaḥ na iṣṭaḥ . sanantāt na san iṣyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।३९३।११-३९४।६ रो इव्।१५९-१६१ किम् पुनः इमे मतुप्प्रभृतयः सन्मात्रे भवन्ति । एवम् भवितुम् अर्हति । मतुप्प्रभृतयः सन्मात्रे चेत् अतिप्रसङ्गः । मतुप्प्रभृतयः सन्मात्रे चेत् अतिप्रसङ्गः भवति । इह अपि प्राप्नोति । व्रीहिः अस्य । यवः अस्य इति । तस्मात् भूमादिग्रहणम् कर्तव्यम् । के पुनः भूमादयः । भूमनिन्दाप्रशंसासु नित्ययोगे अतिशायने संसर्गे अस्तिविवक्षायाम् भवन्ति मतुबादयः । भूम्नि : गोमान् यवमान् । निन्दायाम् : ककुदावर्ती सङ्खादकी । प्रशंसयाम् : रूपवान् वर्णवान् । नित्ययोगे : क्षीरिणः वृक्षाः , कण्टकिनः वृक्षाः इति । अतिशायने : उदरिणी कन्या । संसर्गे : दण्डी छत्री । तत् तर्हि भूमादिग्रहणम् कर्तव्यम् । न कर्तव्यम् । कस्मात् न भवति । व्रीहिः अस्य । यवः अस्य इति । उक्तम् वा। किम् उक्तम् । अनभिधानात् इति । इतिकरणः खलु अपि क्रियते । ततः चेत् विवक्षा । भूमादियुक्तस्य एव च विवक्षा । गोमान् यवमान् । भूमादियुक्तस्य एव सत्ता कथ्यते । न हि कस्य चित् यवः न अस्ति । सङ्खादकी ककुदावर्तिनी । निन्दाउक्तस्य एव सत्ता कथ्यते । न हि कः चित् न सङ्खादकी । रूपवान् वर्णवान् । प्रशंसायुक्तस्य एव सत्ता कथ्यते । न हि कस्य चित् रूपम् न अस्ति । क्षीरिणः वृक्षाः । कण्टकिनः वृक्षाः इति । नित्ययुक्तस्य एव सत्ता कथ्यते । न हि कस्य चित् क्षिरम् न अस्ति । उदरिणी कन्या इति । अतिशायनयुक्तस्य एव सत्ता कथ्यते । न हि कस्य चित् उदरम् न अस्ति । दण्डी छत्री । संसर्गयुक्तस्य एव सत्ता कथ्यते । न हि कस्य चित् दण्डः न अस्ति । यावतीभिः खलु अपि गोभिः वाहदोहप्रसवाः कल्पन्ते तावतीषु सत्ता कथ्यते । कस्य चित् तिसृभिः कल्पन्ते कस्य चित् शतेन अपि न प्रकल्पन्ते । सन्मात्रे च ऋषिदर्शनात् । सन्मात्रे च पुनः ऋषिः दर्शयति मतुपम् । यवमतीभिः अद्भिः यूपम् प्रोक्षति इति ।

KA II.393.11-394.6 Ro IV.159-161 kim punaḥ ime matupprabhṛtayaḥ sanmātre bhavanti . evam bhavitum arhati . matupprabhṛtayaḥ sanmātre cet atiprasaṅgaḥ . matupprabhṛtayaḥ sanmātre cet atiprasaṅgaḥ bhavati . iha api prāpnoti . vrīhiḥ asya . yavaḥ asya iti . tasmāt bhūmādigrahaṇam kartavyam . ke punaḥ bhūmādayaḥ . bhūmanindāpraśaṃsāsu nityayoge atiśāyane saṃsarge astivivakṣāyām bhavanti matubādayaḥ . bhūmni : gomān yavamān . nindāyām : kakudāvartī saṅkhādakī . praśaṃsayām : rūpavān varṇavān . nityayoge : kṣīriṇaḥ vṛkṣāḥ , kaṇṭakinaḥ vṛkṣāḥ iti . atiśāyane : udariṇī kanyā . saṃsarge : daṇḍī chatrī . tat tarhi bhūmādigrahaṇam kartavyam . na kartavyam . kasmāt na bhavati . vrīhiḥ asya . yavaḥ asya iti . uktam vā. kim uktam . anabhidhānāt iti . itikaraṇaḥ khalu api kriyate . tataḥ cet vivakṣā . bhūmādiyuktasya eva ca vivakṣā . gomān yavamān . bhūmādiyuktasya eva sattā kathyate . na hi kasya cit yavaḥ na asti . saṅkhādakī kakudāvartinī . nindāuktasya eva sattā kathyate . na hi kaḥ cit na saṅkhādakī . rūpavān varṇavān . praśaṃsāyuktasya eva sattā kathyate . na hi kasya cit rūpam na asti . kṣīriṇaḥ vṛkṣāḥ . kaṇṭakinaḥ vṛkṣāḥ iti . nityayuktasya eva sattā kathyate . na hi kasya cit kṣiram na asti . udariṇī kanyā iti . atiśāyanayuktasya eva sattā kathyate . na hi kasya cit udaram na asti . daṇḍī chatrī . saṃsargayuktasya eva sattā kathyate . na hi kasya cit daṇḍaḥ na asti . yāvatībhiḥ khalu api gobhiḥ vāhadohaprasavāḥ kalpante tāvatīṣu sattā kathyate . kasya cit tisṛbhiḥ kalpante kasya cit śatena api na prakalpante . sanmātre ca ṛṣidarśanāt . sanmātre ca punaḥ ṛṣiḥ darśayati matupam . yavamatībhiḥ adbhiḥ yūpam prokṣati iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।३९४।७-१५ रो इव्।१६१-१६२ गुणवचनेभ्यः मतुपः लुक् । गुणवचनेभ्यः मतुपः लुक् वक्तव्यः । शुक्लः कृष्णः इति । अव्यतिरेकात् सिद्धम् । न गुणः गुणिनम् व्यभिचरति इति । अव्यतिरेकात् सिद्धम् इति चेत् दृष्टः व्यतिरेकः । दृश्यते व्यतिरेकः । तत् यथ पटस्य शुक्लः इति । तथा च लिङ्गवचनसिद्धिः । एवम् च कृत्वा लिङ्गवचनानि सिद्धानि भवन्ति । शुक्लम् वस्त्रम् । शुक्ला शाटी । शुक्लः कम्बलः । शुक्लौ कम्बलौ । शुक्लाः कम्बलाः इति । यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति ।

KA II.394.7-15 Ro IV.161-162 guṇavacanebhyaḥ matupaḥ luk . guṇavacanebhyaḥ matupaḥ luk vaktavyaḥ . śuklaḥ kṛṣṇaḥ iti . avyatirekāt siddham . na guṇaḥ guṇinam vyabhicarati iti . avyatirekāt siddham iti cet dṛṣṭaḥ vyatirekaḥ . dṛśyate vyatirekaḥ . tat yatha paṭasya śuklaḥ iti . tathā ca liṅgavacanasiddhiḥ . evam ca kṛtvā liṅgavacanāni siddhāni bhavanti . śuklam vastram . śuklā śāṭī . śuklaḥ kambalaḥ . śuklau kambalau . śuklāḥ kambalāḥ iti . yat asau dravyam śritaḥ bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api bhavati .

Sanskrit only: no published translation is held for this verse.