क्अ इइ।४१५।१८-४१६।१५ रो इव्।२०९-२११ इह अस्य अपि सूक्ष्माणि वस्त्राणि अस्य अपि सूक्ष्माणि वस्त्राणि इति परत्वात् आतिशायिकः प्राप्नोति । अतिशायने बहुव्रीहौ उक्तम् । किम् उक्तम् । पूर्व्पदातिशये आतिशायिकात् बहुव्रीहिः सूक्ष्मवस्त्रतराद्यर्थः । उत्तरपदातिशये आतिशायिकः बहुव्रीहेः बह्वाढ्यतराद्यर्थः इति । इह त्रीणि शुक्लानि वस्त्राणि प्रकर्षापकर्षयुक्तानि । तत्र पूर्वम् अपेक्ष्य उत्तरे द्वे तरबन्ते । तत्र द्वयोः तरबन्तयोः एकस्मात् प्रकर्षयुक्तात् शुक्लतरशब्दात् उत्पत्तिः प्राप्नोति शुक्लशब्दात् एव च इष्यते । शुक्लतरस्य शुक्लभावात् प्रकृतेः प्रत्ययविज्ञानम् । शुक्लतरशब्दे शुक्लशब्दः अस्ति । तस्मात् उत्पत्तिः भविष्यति । न एतत् विवदामहे शुक्लतरशब्दे शुक्लशब्दः अस्ति न अस्ति इति । किम् तर्हि । शुक्लतरशब्दः अपि अस्ति । ततः उत्पत्तिः प्राप्नोति । तदन्तात् च स्वार्थे छन्दसि दर्शनम् श्रेष्ठमाय इति । तदन्तात् आतिशायिकान्तात् च स्वार्थे छन्दसि आतिशायिकः दृश्यते । देवो वः सवित प्रर्पयतु श्रेष्ठमाय कर्मणे । एवम् तर्हि मध्यमात् शुक्लशब्दात् पूर्वपरापेक्षात् उत्पत्तिः वक्तव्या । मध्यमः च शुक्लशब्दः पूर्वम् अपेक्ष्य प्रकृष्टः परम् अपेक्ष्य न्यूनः न च न्यूनः प्रवर्तते । अथ वा उत्पद्यताम् । लुक् भविष्यति । वाचकेन खलु अपि उत्पत्तव्यम् न च शुक्लतरशब्दात् उत्पद्यमानः वाचकः स्यात् । न खलु अपि बहूनाम् प्रकर्षे तरपा भवितव्यम् । केन तर्हि । तमपा । पूर्वेण स्पर्धमानः अयम् लभते सितः । परस्मिन् न्यूनताम् एति न च न्यूनः प्रवर्तते । अपेक्ष्य मध्यमः पूर्वम् आधिक्यम् लभते सितः । परस्मिन् न्यूनताम् एति यथा अमात्यः स्थिते नृपे । अस्तु वा अपि तरः तस्मात् । न अपशब्दः भविष्यति । वाचकः चेत् प्रयोक्तव्यः वाचकः चेत् प्रयुज्यताम् ।
KA II.415.18-416.15 Ro IV.209-211 iha asya api sūkṣmāṇi vastrāṇi asya api sūkṣmāṇi vastrāṇi iti paratvāt ātiśāyikaḥ prāpnoti . atiśāyane bahuvrīhau uktam . kim uktam . pūrvpadātiśaye ātiśāyikāt bahuvrīhiḥ sūkṣmavastratarādyarthaḥ . uttarapadātiśaye ātiśāyikaḥ bahuvrīheḥ bahvāḍhyatarādyarthaḥ iti . iha trīṇi śuklāni vastrāṇi prakarṣāpakarṣayuktāni . tatra pūrvam apekṣya uttare dve tarabante . tatra dvayoḥ tarabantayoḥ ekasmāt prakarṣayuktāt śuklataraśabdāt utpattiḥ prāpnoti śuklaśabdāt eva ca iṣyate . śuklatarasya śuklabhāvāt prakṛteḥ pratyayavijñānam . śuklataraśabde śuklaśabdaḥ asti . tasmāt utpattiḥ bhaviṣyati . na etat vivadāmahe śuklataraśabde śuklaśabdaḥ asti na asti iti . kim tarhi . śuklataraśabdaḥ api asti . tataḥ utpattiḥ prāpnoti . tadantāt ca svārthe chandasi darśanam śreṣṭhamāya iti . tadantāt ātiśāyikāntāt ca svārthe chandasi ātiśāyikaḥ dṛśyate . devo vaḥ savita prarpayatu śreṣṭhamāya karmaṇe . evam tarhi madhyamāt śuklaśabdāt pūrvaparāpekṣāt utpattiḥ vaktavyā . madhyamaḥ ca śuklaśabdaḥ pūrvam apekṣya prakṛṣṭaḥ param apekṣya nyūnaḥ na ca nyūnaḥ pravartate . atha vā utpadyatām . luk bhaviṣyati . vācakena khalu api utpattavyam na ca śuklataraśabdāt utpadyamānaḥ vācakaḥ syāt . na khalu api bahūnām prakarṣe tarapā bhavitavyam . kena tarhi . tamapā . pūrveṇa spardhamānaḥ ayam labhate sitaḥ . parasmin nyūnatām eti na ca nyūnaḥ pravartate . apekṣya madhyamaḥ pūrvam ādhikyam labhate sitaḥ . parasmin nyūnatām eti yathā amātyaḥ sthite nṛpe . astu vā api taraḥ tasmāt . na apaśabdaḥ bhaviṣyati . vācakaḥ cet prayoktavyaḥ vācakaḥ cet prayujyatām .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.