क्अ इइ।४१९।८-४२०।१७ रो इव्।२२२-२२६ ईषदसमाप्तौक्रियाप्रधानत्वात् लिङ्गवचनानुपपत्तिः । ईषदसमाप्तौ क्रियाप्रधानत्वात् लिङ्गवचनयोः अनुपपत्तिः । पटुकल्पः । पटुकल्पौ । पटुकल्पाः इति । एकः अयम् अर्थः ईषदसमाप्तिः नाम । तस्य एकत्वात् एकवचनम् प्राप्नोति । प्रकृत्यर्थविशेषणत्वाद् सिद्धम् । सिद्धम् एतत् । कथम् । न अयम् प्रत्ययार्थः । किम् तर्हि प्रकृत्यर्थविशेषणम् एतत् । ईषदसमाप्तौ यत् प्रातिपदिकम् वर्तते तस्मात् कल्पबादयः भवन्ति । कस्मिन् अर्थे । स्वार्थे इति । स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते । प्रकृत्यर्थे चेत् लिङ्गवचनानुपपत्तिः । प्रकृत्यर्थे चेत् लिङ्गवचनयोः अनुपपत्तिः । गुडकल्पा द्राक्षा । तैलकल्पा प्रसन्ना । पयस्कल्पा यवागूः इति । सिद्धम् तु तत्सम्बन्धे उत्तरपदार्थे प्रत्ययवचनात् । सिद्धम् एतत् । कथम् । तत्सम्बन्धे ईषदसमाप्तिसम्बन्धे उत्तरपदार्थे प्रत्ययः भवति इति वक्तव्यम् । सिध्यति । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् ईषदसमाप्तौक्रियाप्रधानत्वात् लिङ्गवचनानुपपत्तिः इति । परिहृतम् एतत् प्रकृत्यर्थविशेषणत्वाद् सिद्धम् इति । ननु च उक्तम् प्रकृत्यर्थे चेत् लिङ्गवचनानुपपत्तिः इति । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति स्वार्थिकाः अतिवर्तन्ते अपि लिङ्गवचनानि इति यत् अयम् णचः स्त्रियाम् अञ् इति स्त्रीग्रहणम् करोति । यदि एतत् ज्ञाप्यते बहुगुडः द्राक्षा । बहुतैलम् प्रसन्ना । बहुपयः यवागूः इति अत्र अपि प्राप्नोति । न अपि अतिवर्तन्ते । किम् पुनः इह उदाहरणम् । पटुकल्पः । मृदुकल्पः इति । न एतत् अस्ति । निर्ज्ञातस्य अर्थस्य समाप्तिः वा भवति विसमाप्तिः वा गुणः च अनिर्ज्ञातः । इदम् तर्हि । गुडकल्पा द्राक्षा । तैलकल्पा प्रसन्ना । पयस्कल्पा यवागूः इति । द्रव्यम् अपि अनिर्ज्ञातम् । इदम् तर्हि । कृतकल्पम् । भुक्तकल्पम् । पीतकल्पम् इति । क्तान्तात् प्रत्ययविधानानुपपत्तिः क्तस्य भूतकाललक्षणत्वात् कल्पादीनाम् च असमाप्तिवचनात् । क्तान्तात् प्रत्ययविधानेः अनुपपत्तिः । किम् कारणम् । क्तस्य भूतकाललक्षणत्वात् । भूतकाललक्षणः क्तः । कल्पादीनाम् च असमाप्तिवचनात् । विसमाप्तिवचनाः च कल्पादयः । न च अस्ति सम्भवः यत् भूतकालः च स्यात् असमाप्तिः च इति । सिद्धम् तु आशंसायाम् भूतवद्वचनात् । सिद्धम् एतत् । कथम् । आशंसायाम् भूतवत् च इति एवम् अत्र क्तः भविष्यति । इदम् च अपि उदाहरणम् पटुकल्पः । मृदुकल्पः इति । ननु च उक्तम् निर्ज्ञातस्य अर्थस्य समाप्तिः वा भवति विसमाप्तिः वा गुणः च अनिर्ज्ञातः इति । लोकतः व्यवहारम् दृष्ट्वा गुणस्य निर्ज्ञानम् । तत् यथा पटुः अयम् ब्राह्मणः इति उच्यते यः लघुना उपायेन अथान् साधयति । पटुकल्पः अयम् इति उच्यति यः न तथा साधयति । इदम् च अपि उदाहरणम् गुडकल्पा द्राक्षा । तैलकल्पा प्रसन्ना । पयस्कल्पा यवागूः इति । ननु च उक्तम् द्रव्यम् अपि अनिर्ज्ञातम् इति । लोकतः द्रव्यम् अपि निर्ज्ञातम् ।
KA II.419.8-420.17 Ro IV.222-226 īṣadasamāptaukriyāpradhānatvāt liṅgavacanānupapattiḥ . īṣadasamāptau kriyāpradhānatvāt liṅgavacanayoḥ anupapattiḥ . paṭukalpaḥ . paṭukalpau . paṭukalpāḥ iti . ekaḥ ayam arthaḥ īṣadasamāptiḥ nāma . tasya ekatvāt ekavacanam prāpnoti . prakṛtyarthaviśeṣaṇatvād siddham . siddham etat . katham . na ayam pratyayārthaḥ . kim tarhi prakṛtyarthaviśeṣaṇam etat . īṣadasamāptau yat prātipadikam vartate tasmāt kalpabādayaḥ bhavanti . kasmin arthe . svārthe iti . svārthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante . prakṛtyarthe cet liṅgavacanānupapattiḥ . prakṛtyarthe cet liṅgavacanayoḥ anupapattiḥ . guḍakalpā drākṣā . tailakalpā prasannā . payaskalpā yavāgūḥ iti . siddham tu tatsambandhe uttarapadārthe pratyayavacanāt . siddham etat . katham . tatsambandhe īṣadasamāptisambandhe uttarapadārthe pratyayaḥ bhavati iti vaktavyam . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam īṣadasamāptaukriyāpradhānatvāt liṅgavacanānupapattiḥ iti . parihṛtam etat prakṛtyarthaviśeṣaṇatvād siddham iti . nanu ca uktam prakṛtyarthe cet liṅgavacanānupapattiḥ iti . na eṣaḥ doṣaḥ . ācāryapravṛttiḥ jñāpayati svārthikāḥ ativartante api liṅgavacanāni iti yat ayam ṇacaḥ striyām añ iti strīgrahaṇam karoti . yadi etat jñāpyate bahuguḍaḥ drākṣā . bahutailam prasannā . bahupayaḥ yavāgūḥ iti atra api prāpnoti . na api ativartante . kim punaḥ iha udāharaṇam . paṭukalpaḥ . mṛdukalpaḥ iti . na etat asti . nirjñātasya arthasya samāptiḥ vā bhavati visamāptiḥ vā guṇaḥ ca anirjñātaḥ . idam tarhi . guḍakalpā drākṣā . tailakalpā prasannā . payaskalpā yavāgūḥ iti . dravyam api anirjñātam . idam tarhi . kṛtakalpam . bhuktakalpam . pītakalpam iti . ktāntāt pratyayavidhānānupapattiḥ ktasya bhūtakālalakṣaṇatvāt kalpādīnām ca asamāptivacanāt . ktāntāt pratyayavidhāneḥ anupapattiḥ . kim kāraṇam . ktasya bhūtakālalakṣaṇatvāt . bhūtakālalakṣaṇaḥ ktaḥ . kalpādīnām ca asamāptivacanāt . visamāptivacanāḥ ca kalpādayaḥ . na ca asti sambhavaḥ yat bhūtakālaḥ ca syāt asamāptiḥ ca iti . siddham tu āśaṃsāyām bhūtavadvacanāt . siddham etat . katham . āśaṃsāyām bhūtavat ca iti evam atra ktaḥ bhaviṣyati . idam ca api udāharaṇam paṭukalpaḥ . mṛdukalpaḥ iti . nanu ca uktam nirjñātasya arthasya samāptiḥ vā bhavati visamāptiḥ vā guṇaḥ ca anirjñātaḥ iti . lokataḥ vyavahāram dṛṣṭvā guṇasya nirjñānam . tat yathā paṭuḥ ayam brāhmaṇaḥ iti ucyate yaḥ laghunā upāyena athān sādhayati . paṭukalpaḥ ayam iti ucyati yaḥ na tathā sādhayati . idam ca api udāharaṇam guḍakalpā drākṣā . tailakalpā prasannā . payaskalpā yavāgūḥ iti . nanu ca uktam dravyam api anirjñātam iti . lokataḥ dravyam api nirjñātam .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.