क्अ इइ।४२६।२-१५ रो इव्।२३८-२४० वरुणादीनाम् च तृतीयात् सः च अकृतसन्धीनाम् । वरुणादीनाम् च तृतीयात् लोपः उच्यते । सः च अकृतसन्धीनाम् वक्तव्यः । सुपर्याशीर्दत्तः । सुपरिकः , सुपरियः , सुपरिलः । इह षडङ्गुलिः षडिकः इति अजादिलोपे कृते पदसञ्ज्ञा न प्राप्नोति । तत्र कः दोषः । जश्त्वम् न स्यात् । षडिके जश्त्वे उक्तम् । किम् उक्तम् । सिद्धम् अचः स्थानिवत्वात् इति । यदि एवम् वाचिकादिषु पदवृत्तप्रतिषेधः । वाचिकादिषु पदवृत्तस्य प्रतिषेधः वक्तव्यः । सिद्धम् एकाक्षरपूर्वपदानाम् उत्तरपदलोपवचनात् । सिद्धम् एतत् । कथम् । एकाक्षरपूर्वपदानाम् उत्तरपदस्य लोपः वक्तव्यः । इह अपि तर्हि प्राप्नोति । षडङ्गुलिः । षडिकः इति । षषः ठाजादिवचनात् सिद्धम् । षषः ठाजादिवचनात् सिद्धम् एतत् ।
KA II.426.2-15 Ro IV.238-240 varuṇādīnām ca tṛtīyāt saḥ ca akṛtasandhīnām . varuṇādīnām ca tṛtīyāt lopaḥ ucyate . saḥ ca akṛtasandhīnām vaktavyaḥ . suparyāśīrdattaḥ . suparikaḥ , supariyaḥ , suparilaḥ . iha ṣaḍaṅguliḥ ṣaḍikaḥ iti ajādilope kṛte padasañjñā na prāpnoti . tatra kaḥ doṣaḥ . jaśtvam na syāt . ṣaḍike jaśtve uktam . kim uktam . siddham acaḥ sthānivatvāt iti . yadi evam vācikādiṣu padavṛttapratiṣedhaḥ . vācikādiṣu padavṛttasya pratiṣedhaḥ vaktavyaḥ . siddham ekākṣarapūrvapadānām uttarapadalopavacanāt . siddham etat . katham . ekākṣarapūrvapadānām uttarapadasya lopaḥ vaktavyaḥ . iha api tarhi prāpnoti . ṣaḍaṅguliḥ . ṣaḍikaḥ iti . ṣaṣaḥ ṭhājādivacanāt siddham . ṣaṣaḥ ṭhājādivacanāt siddham etat .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.