क्अ इइइ।१७।१-११ रो इव्।३१८-३१९ द्विर्वचनप्रकरणे कृञादीनाम् के । द्विर्वचनप्रकरणे कृञादीनाम् के उपसङ्ख्यानम् कर्तव्यम् । चक्रम् । चिक्लिदम् । चक्नम् इति । कादिषु इति वक्तव्यम् इह अपि यथा स्यात् । बभ्रुः । ययुः इति । चरिचलिपतिवदीनाम् अचि आक् च अभ्यासस्य । चरिचलिपतिवदीनाम् अचि द्वे भवतः इति वक्तव्यम् आक् च अभ्यासस्य । चराचरः । चलाचलः । पतापतः । वदावदः । हन्तेः घः च । हन्तेः घः च वक्तव्यः । अचि द्वे भवतः आक् च अभ्यासस्य । घनाघनः । पाटेः णिलुक् च दीर्घः च अभ्यासस्य ऊक् च । पाटयतेः णिलुक् च वक्तव्यः । अचि द्वे भवतः इति वक्तव्यम् । दीर्घः च अभ्यासस्य ऊक् च आगमः । पाटुपटः ।
KA III.17.1-11 Ro IV.318-319 dvirvacanaprakaraṇe kṛñādīnām ke . dvirvacanaprakaraṇe kṛñādīnām ke upasaṅkhyānam kartavyam . cakram . ciklidam . caknam iti . kādiṣu iti vaktavyam iha api yathā syāt . babhruḥ . yayuḥ iti . caricalipativadīnām aci āk ca abhyāsasya . caricalipativadīnām aci dve bhavataḥ iti vaktavyam āk ca abhyāsasya . carācaraḥ . calācalaḥ . patāpataḥ . vadāvadaḥ . hanteḥ ghaḥ ca . hanteḥ ghaḥ ca vaktavyaḥ . aci dve bhavataḥ āk ca abhyāsasya . ghanāghanaḥ . pāṭeḥ ṇiluk ca dīrghaḥ ca abhyāsasya ūk ca . pāṭayateḥ ṇiluk ca vaktavyaḥ . aci dve bhavataḥ iti vaktavyam . dīrghaḥ ca abhyāsasya ūk ca āgamaḥ . pāṭupaṭaḥ .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.