Library·Patanjali: Vyakaranamahabhasya·6·6.1·6.1.125

Patanjali: Vyakaranamahabhasya 6.1.125

क्अ इइइ।८७।२४-८८।११ रो इव्।४६४-४६५ नित्यग्रहणम् किमर्थम् । विभाषा मा भूत् इति । म एतत् अस्ति प्रयोजनम् । पूर्वस्मिन् एव योगे विभाषाग्रहणम् निवृत्तम् । इदम् तर्हि प्रयोजनम् । प्लुतप्रगृह्याणम् अचि प्रकृतिभावः एव यथा स्यात् । यत् अन्यत् प्राप्नोति तत् मा भूत् इति । किम् च अन्यत् प्राप्नोति । शाकलम् । सिन्नित्यसमासयोः शाकलप्रतिषेधम् वक्ष्यति । सः न वक्तव्यः भवति । अथ अज्ग्रहणम् किमर्थम् । अचि प्रकृतिभावः यथा स्यात् । प्लुतप्रगृह्येषु अज्ग्रहणम् अनर्थकम् अधिकारात् सिद्धम् । प्लुतप्रगृह्येषु अज्ग्रहणम् अनर्थकम् । किम् कारणम् । अधिकारात् एव सिद्धम् । अचि इति प्रकृतम् अनुवर्तते । क्व प्रकृतम् । इकः यण् अचि इति । तत् तु तस्मिन् प्रकृतिभावार्थम् । तत् तु द्वितीयम् अज्ग्रहणम् कर्तव्यम् प्रकृतिभावार्थम् । तस्मिन् अचि पूर्वस्य प्रकृतिभावः यथा स्यात् । इह मा भूत् । जानु उ अस्य रुजति । जानू अस्य रुजति । जान्व् अस्य रुजति इति ।

KA III.87.24-88.11 Ro IV.464-465 nityagrahaṇam kimartham . vibhāṣā mā bhūt iti . ma etat asti prayojanam . pūrvasmin eva yoge vibhāṣāgrahaṇam nivṛttam . idam tarhi prayojanam . plutapragṛhyāṇam aci prakṛtibhāvaḥ eva yathā syāt . yat anyat prāpnoti tat mā bhūt iti . kim ca anyat prāpnoti . śākalam . sinnityasamāsayoḥ śākalapratiṣedham vakṣyati . saḥ na vaktavyaḥ bhavati . atha ajgrahaṇam kimartham . aci prakṛtibhāvaḥ yathā syāt . plutapragṛhyeṣu ajgrahaṇam anarthakam adhikārāt siddham . plutapragṛhyeṣu ajgrahaṇam anarthakam . kim kāraṇam . adhikārāt eva siddham . aci iti prakṛtam anuvartate . kva prakṛtam . ikaḥ yaṇ aci iti . tat tu tasmin prakṛtibhāvārtham . tat tu dvitīyam ajgrahaṇam kartavyam prakṛtibhāvārtham . tasmin aci pūrvasya prakṛtibhāvaḥ yathā syāt . iha mā bhūt . jānu u asya rujati . jānū asya rujati . jānv asya rujati iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।८७।१२-२३ रो इव्।४६५-४६६ अथ किमर्थम् प्लुतस्य प्रकृतिभावः उच्यते । स्वरसन्धिः मा भूत् इति । उच्यमाने अपि एतस्मिन् स्वर्सन्धिः प्राप्नोति । प्लुते कृते न भविष्यति । असिद्धः प्लुतः । तस्य असिद्धत्वात् प्राप्नोति । प्लुतप्रकृतिभाववचनम् तु ज्ञापकम् एकादेशात् प्लुतः विप्रतिषेधेन इति । यत् अयम् प्लुतः प्रकृत्या इति प्रकृतिभावम् शास्ति तत् ज्ञापयति आचार्यः एकादेशात् प्लुतः भवति विप्रतिषेधेन इति । एकादेशात् प्लुतः विप्रतिषेधेन इति चेत् शालेन्द्रे अतिप्रसङ्गः । एकादेशात् प्लुतः विप्रतिषेधेन इति चेत् शालेन्द्रे अतिप्रसङ्गः भवति । शालायाम् इन्द्रः शालेन्द्रः । न वा बहिरङ्गलक्षणत्वात् । न वा अतिप्रसङ्गः । किम् कारणम् । बहिरङ्गलक्षणत्वात् । बहिरङ्गः प्लुतः । अन्तरङ्गः एकादेशः । असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

KA III.87.12-23 Ro IV.465-466 atha kimartham plutasya prakṛtibhāvaḥ ucyate . svarasandhiḥ mā bhūt iti . ucyamāne api etasmin svarsandhiḥ prāpnoti . plute kṛte na bhaviṣyati . asiddhaḥ plutaḥ . tasya asiddhatvāt prāpnoti . plutaprakṛtibhāvavacanam tu jñāpakam ekādeśāt plutaḥ vipratiṣedhena iti . yat ayam plutaḥ prakṛtyā iti prakṛtibhāvam śāsti tat jñāpayati ācāryaḥ ekādeśāt plutaḥ bhavati vipratiṣedhena iti . ekādeśāt plutaḥ vipratiṣedhena iti cet śālendre atiprasaṅgaḥ . ekādeśāt plutaḥ vipratiṣedhena iti cet śālendre atiprasaṅgaḥ bhavati . śālāyām indraḥ śālendraḥ . na vā bahiraṅgalakṣaṇatvāt . na vā atiprasaṅgaḥ . kim kāraṇam . bahiraṅgalakṣaṇatvāt . bahiraṅgaḥ plutaḥ . antaraṅgaḥ ekādeśaḥ . asiddham bahiraṅgam antaraṅge .

Sanskrit only: no published translation is held for this verse.