क्अ इइइ।१०२।३-२० रो इव्।४९५-४९७ किम् पुनः अनुदात्तस्य अन्तः उदात्तः भवति आहोस्वित् आदिः । कः च अत्र विशेषः । अन्तः इति चेत् श्नम्क्सयुष्मदस्मदिदङ्किंलोपेषु स्वरः । अन्तः इति चेत् श्नम्क्सयुष्मदस्मदिदङ्किंलोपेषु स्वरः न सिध्यति । श्नम् । विन्दते , खिन्दते । श्नम् । क्स । मा हि धुक्षाताम् । मा हि धुक्षाथाम् । क्स । युष्मदस्मद् । युष्मभ्यम् , अस्मभ्यम् । इदङ्किंलोपः । इयान् , कियान् । अस्तु तर्हि आदिः । आदिः इति चेत् इन्धीत द्वयम् इति अन्तः । आदिः इति चेत् इन्धीत द्वयम् इति अन्तोदात्तत्वम् न सिध्यति । इन्धीत । द्वयम् , त्रयम् । आदौ सिद्धम् । अस्तु तर्हि आदिः उदात्तः भवति इति । ननु च उक्तम् आदिः इति चेत् इन्धीत द्वयम् इति अन्तः इति । विदीन्धिखिदिभ्यः च लसार्वधातुकानुदात्तप्रतिषेधात् लिङि सिद्धम् । विदीन्धिखिदिभ्यः च लसार्वधातुकानुदात्तत्वम् लिङि न इति वक्तव्यम् । लिङ्ग्रहणेन न अर्थः । अविशेषेण इखिदिभ्यः च लसार्वधातुकानुदात्तप्रतिषेधात् लिङि सिद्धम् । विदीन्धिखिदिभ्यः च लसार्वधातुकानुदात्तत्वम् न इति एव । इदम् अपि सिद्धम् भवति । विन्दते , खिन्दते । अयचि कथम् । अयचि चित्करणात् । अयचि चित्करणसामर्थ्यात् अन्तोदात्तत्वम् भविष्यति ।
KA III.102.3-20 Ro IV.495-497 kim punaḥ anudāttasya antaḥ udāttaḥ bhavati āhosvit ādiḥ . kaḥ ca atra viśeṣaḥ . antaḥ iti cet śnamksayuṣmadasmadidaṅkiṃlopeṣu svaraḥ . antaḥ iti cet śnamksayuṣmadasmadidaṅkiṃlopeṣu svaraḥ na sidhyati . śnam . vindate , khindate . śnam . ksa . mā hi dhukṣātām . mā hi dhukṣāthām . ksa . yuṣmadasmad . yuṣmabhyam , asmabhyam . idaṅkiṃlopaḥ . iyān , kiyān . astu tarhi ādiḥ . ādiḥ iti cet indhīta dvayam iti antaḥ . ādiḥ iti cet indhīta dvayam iti antodāttatvam na sidhyati . indhīta . dvayam , trayam . ādau siddham . astu tarhi ādiḥ udāttaḥ bhavati iti . nanu ca uktam ādiḥ iti cet indhīta dvayam iti antaḥ iti . vidīndhikhidibhyaḥ ca lasārvadhātukānudāttapratiṣedhāt liṅi siddham . vidīndhikhidibhyaḥ ca lasārvadhātukānudāttatvam liṅi na iti vaktavyam . liṅgrahaṇena na arthaḥ . aviśeṣeṇa ikhidibhyaḥ ca lasārvadhātukānudāttapratiṣedhāt liṅi siddham . vidīndhikhidibhyaḥ ca lasārvadhātukānudāttatvam na iti eva . idam api siddham bhavati . vindate , khindate . ayaci katham . ayaci citkaraṇāt . ayaci citkaraṇasāmarthyāt antodāttatvam bhaviṣyati .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.