क्अ इइइ।२५।२३-२७।३ रो इव्।३३४-३३६ अभ्याससम्प्रसारणम् हलादिशेषात् विप्रतिषेधेन । अभ्याससम्प्रसारणम् हलादिशेषात् भवति [भवति हलादिशेषात् : र्] विप्रतिषेधेन । अभ्याससम्प्रसारणस्य अवकाशः : इयाज, उवाप । हलादिशेषस्य अवकाशः : बिभिदतुः , बिभिदुः । इह उभयम् प्राप्नोति विव्याध , विव्यधिथ । अभ्याससम्प्रसारणम् भवति पूर्वविप्रतिषेधेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । न वा सम्प्रसारणाश्रयबलीयस्त्वात् अन्यत्र अपि । न वा वक्तव्यः । किम् कारणम् । सम्प्रसारणाश्रयबलीयस्त्वात् अन्यत्र अपि । सम्प्रसारणम् सम्प्रसारणाश्रयम् च बलीयः भवति इति वक्तव्यम् । अन्यत्र अपि न अवश्यम् इह एव वक्तव्यम् । किम् प्रयोजनम् । प्रयोजनम् रमाल्लोपेयिअङ्यणः । रम् । भृष्टः, भृष्टवान् । सम्प्रसारणम् च प्राप्नोति रम्भावः च । परत्वात् रम्भावः स्यात् । सम्प्रसारणम् बलीयः भवति इति वक्तव्यम् सम्प्रसारणम् यथा स्यात् । रम् । आल्लोपः । जुहुवतुः , जुहुवुः । सम्प्रसारणम् च प्राप्नोति आल्लोपः च । परत्वात् आल्लोपः स्यात् । सम्प्रसारणम् बलीयः भवति इति वक्तव्यम् सम्प्रसारणम् यथा स्यात् । सम्प्रसारणे कृते पूर्वत्वम् च प्राप्नोति आल्लोपः च । परत्वात् आल्लोपः स्यात् । सम्प्रसारणाश्रयम् बलीयः भवति इति वक्तव्यम् पूर्वत्वम् यथा स्यात् । इयङ् । शुशुवतुः , शुशुवुः । सम्प्रसारणम् च प्राप्नोति इयङादेशः च । परत्वात् इयङादेशः स्यात् । सम्प्रसारणम् बलीयः भवति इति वक्तव्यम् सम्प्रसारणम् यथा स्यात् । यण् । सम्प्रसारणे कृते पूर्वत्वम् च प्राप्नोति यणादेशः च । परत्वात् यणादेशः स्यात् । सम्प्रसारणाश्रयम् बलीयः भवति इति वक्तव्यम् पूर्वत्वम् यथा स्यात् । इयङ् । न एतानि सन्ति प्रयोजनानि । यत् तावत् उच्यते रम् इति इदम् इह सम्प्रधार्यम् : रम्भावः क्रियताम् सम्प्रसारणम् इति । किम् अत्र कर्तव्यम् । परत्वात् रम्भावः । नित्यम् सम्प्रसारणम् । कृते अपि रम्भाबे प्राप्नोति अकृते अपि । रम्भावः अपि नित्यः । कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि । कथम् । यः असौ ऋकारे रेफः तस्य च उपधायाः च प्राप्नोति । अनित्यः रम्भावः । न हि कृते सम्प्रसारणे प्राप्नोति । किम् कारणम् । उपदेशे इति वर्तते । तत् च अवश्यम् उपदेशग्रहणम् अनुवर्त्यम् बरीभृज्यते इति एवमर्थम् । आल्लोपेयङ्यणः इति । नित्यम् सम्प्रसारणम् । अन्तरङ्गम् पूर्वत्वम् । तत् एतत् अनन्यार्थम् सम्प्रसारणाश्रयम् बलीयः भवति इति वक्तव्यम् पूर्वविप्रतिषेधः वा वक्तव्यः । उभयम् न वक्तव्यम् । उक्तम् अत्र उभयेषाङ्ग्रहणस्य प्रयोजनम् उभयेषाम् अभ्यासस्य सम्प्रसारणम् एव यथा स्यात् । यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।
KA III.25.23-27.3 Ro IV.334-336 abhyāsasamprasāraṇam halādiśeṣāt vipratiṣedhena . abhyāsasamprasāraṇam halādiśeṣāt bhavati [bhavati halādiśeṣāt : R] vipratiṣedhena . abhyāsasamprasāraṇasya avakāśaḥ : iyāja, uvāpa . halādiśeṣasya avakāśaḥ : bibhidatuḥ , bibhiduḥ . iha ubhayam prāpnoti vivyādha , vivyadhitha . abhyāsasamprasāraṇam bhavati pūrvavipratiṣedhena . saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . na vā samprasāraṇāśrayabalīyastvāt anyatra api . na vā vaktavyaḥ . kim kāraṇam . samprasāraṇāśrayabalīyastvāt anyatra api . samprasāraṇam samprasāraṇāśrayam ca balīyaḥ bhavati iti vaktavyam . anyatra api na avaśyam iha eva vaktavyam . kim prayojanam . prayojanam ramāllopeyiaṅyaṇaḥ . ram . bhṛṣṭaḥ, bhṛṣṭavān . samprasāraṇam ca prāpnoti rambhāvaḥ ca . paratvāt rambhāvaḥ syāt . samprasāraṇam balīyaḥ bhavati iti vaktavyam samprasāraṇam yathā syāt . ram . āllopaḥ . juhuvatuḥ , juhuvuḥ . samprasāraṇam ca prāpnoti āllopaḥ ca . paratvāt āllopaḥ syāt . samprasāraṇam balīyaḥ bhavati iti vaktavyam samprasāraṇam yathā syāt . samprasāraṇe kṛte pūrvatvam ca prāpnoti āllopaḥ ca . paratvāt āllopaḥ syāt . samprasāraṇāśrayam balīyaḥ bhavati iti vaktavyam pūrvatvam yathā syāt . iyaṅ . śuśuvatuḥ , śuśuvuḥ . samprasāraṇam ca prāpnoti iyaṅādeśaḥ ca . paratvāt iyaṅādeśaḥ syāt . samprasāraṇam balīyaḥ bhavati iti vaktavyam samprasāraṇam yathā syāt . yaṇ . samprasāraṇe kṛte pūrvatvam ca prāpnoti yaṇādeśaḥ ca . paratvāt yaṇādeśaḥ syāt . samprasāraṇāśrayam balīyaḥ bhavati iti vaktavyam pūrvatvam yathā syāt . iyaṅ . na etāni santi prayojanāni . yat tāvat ucyate ram iti idam iha sampradhāryam : rambhāvaḥ kriyatām samprasāraṇam iti . kim atra kartavyam . paratvāt rambhāvaḥ . nityam samprasāraṇam . kṛte api rambhābe prāpnoti akṛte api . rambhāvaḥ api nityaḥ . kṛte api samprasāraṇe prāpnoti akṛte api . katham . yaḥ asau ṛkāre rephaḥ tasya ca upadhāyāḥ ca prāpnoti . anityaḥ rambhāvaḥ . na hi kṛte samprasāraṇe prāpnoti . kim kāraṇam . upadeśe iti vartate . tat ca avaśyam upadeśagrahaṇam anuvartyam barībhṛjyate iti evamartham . āllopeyaṅyaṇaḥ iti . nityam samprasāraṇam . antaraṅgam pūrvatvam . tat etat ananyārtham samprasāraṇāśrayam balīyaḥ bhavati iti vaktavyam pūrvavipratiṣedhaḥ vā vaktavyaḥ . ubhayam na vaktavyam . uktam atra ubhayeṣāṅgrahaṇasya prayojanam ubhayeṣām abhyāsasya samprasāraṇam eva yathā syāt . yat anyat prāpnoti tat mā bhūt iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.