क्अ इइइ।११६।२३-११७।१२ रो इव्।५२९-५३० निष्ठायाम् यञि दीर्घत्वे प्रतिषेधः । निष्ठायाम् यञि दीर्घत्वे प्रतिषेधः वक्तव्यः । दत्ताभ्याम् , गुप्ताभ्याम् । न वा बहिरङ्गलक्षणत्वात् । न वा वक्तव्यम् । किम् कारणम् । बहिरङ्गलक्षणत्वात् । बहिरङ्गः अत्र दीर्घः , अन्तरङ्गः स्वरः । असिद्धम् बहिरङ्गम् अन्तरङ्गे । अन्तरेण प्रतिषेधम् अन्तरेण च एताम् परिभाषाम् सिद्धम् । कथम् । न एवम् विज्ञायते न चेत् आकारान्ता निष्ठा इति । कथम् तर्हि । न चेत् आकारात् परा निष्ठा इति । यदि एवम् निर्देशः च एव न उपपद्यते । न हि एषा आकारात् परा पञ्चमी युक्ता । इह च प्राप्नोति । आप्तः , राद्धः इति । एवम् तर्हि न चेत् अवर्णात् परा निष्ठा इति । भवेत् निर्देशः उपपन्नः । इह तु प्राप्नोति । आप्तः , राद्धः इति । इह च न प्राप्नोति । यतः , रतः । एवम् तर्हि विहितविशेषणम् अकारग्रहणम् । न चेत् अकारारान्तात् विहिता निष्ठा इति । एवम् अपि दत्तः , अत्र न प्राप्नोति इह च प्राप्नोति । आप्तः , राद्धः इति । एवम् तर्हि कार्यिविशेषणम् अकारग्रहणम् । न चेत् आकारारः कार्यी भवति । एवम् अपि अद्य अष्टः , कदा अष्टः , अत्र न प्राप्नोति । तस्मात् सुष्ठु उच्यते निष्ठायाम् यञि दीर्घत्वे प्रतिषेधः , न वा बहिरङ्गलक्षणत्वात् इति ।
KA III.116.23-117.12 Ro IV.529-530 niṣṭhāyām yañi dīrghatve pratiṣedhaḥ . niṣṭhāyām yañi dīrghatve pratiṣedhaḥ vaktavyaḥ . dattābhyām , guptābhyām . na vā bahiraṅgalakṣaṇatvāt . na vā vaktavyam . kim kāraṇam . bahiraṅgalakṣaṇatvāt . bahiraṅgaḥ atra dīrghaḥ , antaraṅgaḥ svaraḥ . asiddham bahiraṅgam antaraṅge . antareṇa pratiṣedham antareṇa ca etām paribhāṣām siddham . katham . na evam vijñāyate na cet ākārāntā niṣṭhā iti . katham tarhi . na cet ākārāt parā niṣṭhā iti . yadi evam nirdeśaḥ ca eva na upapadyate . na hi eṣā ākārāt parā pañcamī yuktā . iha ca prāpnoti . āptaḥ , rāddhaḥ iti . evam tarhi na cet avarṇāt parā niṣṭhā iti . bhavet nirdeśaḥ upapannaḥ . iha tu prāpnoti . āptaḥ , rāddhaḥ iti . iha ca na prāpnoti . yataḥ , rataḥ . evam tarhi vihitaviśeṣaṇam akāragrahaṇam . na cet akārārāntāt vihitā niṣṭhā iti . evam api dattaḥ , atra na prāpnoti iha ca prāpnoti . āptaḥ , rāddhaḥ iti . evam tarhi kāryiviśeṣaṇam akāragrahaṇam . na cet ākārāraḥ kāryī bhavati . evam api adya aṣṭaḥ , kadā aṣṭaḥ , atra na prāpnoti . tasmāt suṣṭhu ucyate niṣṭhāyām yañi dīrghatve pratiṣedhaḥ , na vā bahiraṅgalakṣaṇatvāt iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.