क्अ इइइ।९।२-७ रो इव्।३०२ पूर्वः अभ्यासः इति उच्यते । कस्य पूर्वः अभ्याससञ्ज्ञः भवति । द्वे इति वर्तते । द्वयोः इति वक्तव्यम् । सः तर्हि तथा निर्देशः कर्तव्यः । न कर्तव्यः । अर्थात् विभक्तिविपरिणामः भविष्यति । तत् यथा । उच्चानि देवदत्तस्य गृहाणि । आमन्त्रयस्व एनम् । देवदत्तम् इति गम्यते । देवदत्तस्य गावः अश्वाः हिरण्यम् इति । आढ्यः वैधवेयः । देवदत्तः इति गम्यते । पुरस्तात् षष्ठीनिर्दिष्टम् सत् अर्थात् द्वितीयानिर्दिष्टम् प्रथमानिर्दिष्टम् च भवति । एवम् इह अपि पुरस्तात् प्रथमानिर्दिष्टम् सत् अर्थात् षष्ठीनिर्दिष्टम् भविष्यति ।
KA III.9.2-7 Ro IV.302 pūrvaḥ abhyāsaḥ iti ucyate . kasya pūrvaḥ abhyāsasañjñaḥ bhavati . dve iti vartate . dvayoḥ iti vaktavyam . saḥ tarhi tathā nirdeśaḥ kartavyaḥ . na kartavyaḥ . arthāt vibhaktivipariṇāmaḥ bhaviṣyati . tat yathā . uccāni devadattasya gṛhāṇi . āmantrayasva enam . devadattam iti gamyate . devadattasya gāvaḥ aśvāḥ hiraṇyam iti . āḍhyaḥ vaidhaveyaḥ . devadattaḥ iti gamyate . purastāt ṣaṣṭhīnirdiṣṭam sat arthāt dvitīyānirdiṣṭam prathamānirdiṣṭam ca bhavati . evam iha api purastāt prathamānirdiṣṭam sat arthāt ṣaṣṭhīnirdiṣṭam bhaviṣyati .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.