क्अ इइइ।३४।६-३५।१९ रो इव्।३५१-३५५ कथम् इदम् विज्ञायते : एच् यः उपदेशे इति आहोस्वित् एजन्तन्तम् यत् उपदेशे इति । किम् च अतः । यदि विज्ञायते : एच् यः उपदेशे इति ढौकिता त्रौकिता इति अत्र अपि प्राप्नोति । अथ विज्ञायते : एजन्तन्तम् यत् उपदेशे इति न दोषः भवति । ननु च एजन्तन्तम् यत् उपदेशे इति अपि विज्ञायमाने अत्र अपि प्राप्नोति । एतत् अपि व्यपदेशिवद्भावेन एजन्तम् भवति उपदेशे । अर्थवता व्यपदेशिवद्भावः । ननु च एच् यः उपदेशे इति अपि विज्ञायमाने न दोषः भवति । अशिति इति उच्यते न च अत्र अशितम् पश्यामः । ननु च ककारः एव अत्र अशित् । न ककारे भवितव्यम् । किम् कारणम् । नञिवयुक्तम् अन्यसदृशाधिकरणे । तथा हि अर्थगतिः । नञ्युक्तम् इवयुक्तम् च अन्यस्मिन् तत्सदृशे कार्यम् विज्ञायते । तथा हि अर्थः गम्यते । तत् यथा लोके : अब्राह्मणम् आनय इति उक्ते ब्राह्मणसदृशम् आनयति । न असौ लोष्टम् आनीय कृती भवति । एवम् इह अपि अशिति इति शित्प्रतिषेधात् अन्यस्मिन् अशिति शित्सदृशे कार्यम् विज्ञास्यते । किम् च अन्यत् शित्सदृशम् । प्रत्ययः । इह तर्हि : ग्लै : ग्लानीयम् , म्लै : म्लानीयम् , वेञ् : वानीयम् , शो : निशामीयम् : परत्वात् आयादयः प्राप्नुवन्ति । ननु च एजन्तन्तम् यत् उपदेशे इति अपि विज्ञायमाने परत्वात् आयादयः प्राप्नुवन्ति । सन्तु । आयादिषु कृतेषु स्थानिवद्भावात् एज्ग्रहणेन ग्रहणात् पुनः आत्त्वम् भविष्यति । ननु च एच् यः उपदेशे इति अपि विज्ञायमाने परत्वात् आयादिषु कृतेषु स्थानिवद्भावात् एज्ग्रहणेन ग्रहणात् आत्त्वम् भविष्यति । न भविष्यति । अनल्विधौ स्थानिवद्भावः अल्विधिः च अयम् । एवम् तर्हि एजन्तन्तम् यत् उपदेशे इति अपि विज्ञायमाने हूतः , हूतवान् इति अत्र अपि प्राप्नोति । भवतु एव अत्र आत्त्वम् । श्रवणम् कस्मात् न भवति । पूर्वत्वम् अस्य भविष्यति । न सिध्यति । इदम् इह सम्प्रधार्यम् : आत्त्वम् क्रियताम् पूर्वत्वम् इति । किम् अत्र कर्तव्यम् । परत्वात् पूर्वत्वम् । एवम् तर्हि इदम् इह सम्प्रधार्यम् । आत्त्वम् क्रियताम् सम्प्रसारणम् इति । किम् अत्र कर्तव्यम् । परत्वात् आत्त्वम् । नित्यम् सम्प्रसारणम् । कृते अपि आत्त्वे प्राप्नोति अकृते अपि । आत्त्वम् अपि नित्यम् । कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि । अनित्यम् आत्त्वम् । न हि कृते सम्प्रसारणे प्राप्नोति । किम् कारणम् । अन्तरङ्गम् पूर्वत्वम् । तेन बाध्यते । यस्य लक्षणन्तरेण निमित्तम् विहन्यते न तत् अनित्यम् । न च सम्प्रसारणम् एव आत्त्वस्य निमित्तम् हन्ति । अवश्यम् लक्षणान्तरम् पूर्वत्वम् प्रतीक्ष्यम् । उभयोः नित्ययोः परत्वात् आत्त्वे कृते सम्प्रसारणम् सम्प्रसारणपूर्वत्वम् । कार्यकृतत्वात् पुनः आत्त्वम् न भविष्यति । अथ अपि कथम् चित् आत्त्वम् अनित्यम् स्यात् एवम् अपि न दोषः । उपदेशग्रहणम् न करिष्यते । यदि न क्रियते चेता स्तोता इति अत्र अपि प्राप्नोति । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति न परनिमित्तकस्य आत्त्वम् भवति इति यत् अयम् क्रीङ्जीणाम् णौ आत्त्वम् शास्ति । न एतत् अस्ति ज्ञापकम् । नियमार्थम् एतत् स्यात् । क्रीङ्जीणाम् णौ एव इति । यत् तर्हि मीनातिमिनोतिदीङाम् ल्यपि च इति अत्र एज्ग्रहणम् अनुवर्तयति । इह तर्हि ग्लै ग्लानीयम् , म्लै म्लानीयम् , वेञ् वानीयम् , शो निशामीयम् परत्वात् आयादयः प्राप्नुवन्ति । अत्र अपि आचार्यप्रवृत्तिः ज्ञापयति न आयादयः आत्त्वम् बाधन्ते इति यत् अयम् अशिति इति प्रतिषेधम् शास्ति । यदि हि बाधेरन् शिति अपि बाधेरन् । अथ वा पुनः अस्तु एच् यः उपदेशे इति । ननु च उक्तम् ग्लै ग्लानीयम् , म्लै म्लानीयम् , वेञ् वानीयम् , शो निशामीयम् परत्वात् आयादयः प्राप्नुवन्ति इति । अत्र अपि शित्प्रतिषेधः ज्ञापकः न आयादयः आत्त्वम् बाधन्ते इति । आत्त्वे एशि उपसङ्ख्यानम् । आत्त्वे एशि उपसङ्ख्यानम् कर्तव्यम् । जग्ले मम्ले । अशिति इति प्रतिषेधः प्राप्नोति । न एषः दोषः । न एवम् विज्ञायते
KA III.34.6-35.19 Ro IV.351-355 katham idam vijñāyate : ec yaḥ upadeśe iti āhosvit ejantantam yat upadeśe iti . kim ca ataḥ . yadi vijñāyate : ec yaḥ upadeśe iti ḍhaukitā traukitā iti atra api prāpnoti . atha vijñāyate : ejantantam yat upadeśe iti na doṣaḥ bhavati . nanu ca ejantantam yat upadeśe iti api vijñāyamāne atra api prāpnoti . etat api vyapadeśivadbhāvena ejantam bhavati upadeśe . arthavatā vyapadeśivadbhāvaḥ . nanu ca ec yaḥ upadeśe iti api vijñāyamāne na doṣaḥ bhavati . aśiti iti ucyate na ca atra aśitam paśyāmaḥ . nanu ca kakāraḥ eva atra aśit . na kakāre bhavitavyam . kim kāraṇam . nañivayuktam anyasadṛśādhikaraṇe . tathā hi arthagatiḥ . nañyuktam ivayuktam ca anyasmin tatsadṛśe kāryam vijñāyate . tathā hi arthaḥ gamyate . tat yathā loke : abrāhmaṇam ānaya iti ukte brāhmaṇasadṛśam ānayati . na asau loṣṭam ānīya kṛtī bhavati . evam iha api aśiti iti śitpratiṣedhāt anyasmin aśiti śitsadṛśe kāryam vijñāsyate . kim ca anyat śitsadṛśam . pratyayaḥ . iha tarhi : glai : glānīyam , mlai : mlānīyam , veñ : vānīyam , śo : niśāmīyam : paratvāt āyādayaḥ prāpnuvanti . nanu ca ejantantam yat upadeśe iti api vijñāyamāne paratvāt āyādayaḥ prāpnuvanti . santu . āyādiṣu kṛteṣu sthānivadbhāvāt ejgrahaṇena grahaṇāt punaḥ āttvam bhaviṣyati . nanu ca ec yaḥ upadeśe iti api vijñāyamāne paratvāt āyādiṣu kṛteṣu sthānivadbhāvāt ejgrahaṇena grahaṇāt āttvam bhaviṣyati . na bhaviṣyati . analvidhau sthānivadbhāvaḥ alvidhiḥ ca ayam . evam tarhi ejantantam yat upadeśe iti api vijñāyamāne hūtaḥ , hūtavān iti atra api prāpnoti . bhavatu eva atra āttvam . śravaṇam kasmāt na bhavati . pūrvatvam asya bhaviṣyati . na sidhyati . idam iha sampradhāryam : āttvam kriyatām pūrvatvam iti . kim atra kartavyam . paratvāt pūrvatvam . evam tarhi idam iha sampradhāryam . āttvam kriyatām samprasāraṇam iti . kim atra kartavyam . paratvāt āttvam . nityam samprasāraṇam . kṛte api āttve prāpnoti akṛte api . āttvam api nityam . kṛte api samprasāraṇe prāpnoti akṛte api . anityam āttvam . na hi kṛte samprasāraṇe prāpnoti . kim kāraṇam . antaraṅgam pūrvatvam . tena bādhyate . yasya lakṣaṇantareṇa nimittam vihanyate na tat anityam . na ca samprasāraṇam eva āttvasya nimittam hanti . avaśyam lakṣaṇāntaram pūrvatvam pratīkṣyam . ubhayoḥ nityayoḥ paratvāt āttve kṛte samprasāraṇam samprasāraṇapūrvatvam . kāryakṛtatvāt punaḥ āttvam na bhaviṣyati . atha api katham cit āttvam anityam syāt evam api na doṣaḥ . upadeśagrahaṇam na kariṣyate . yadi na kriyate cetā stotā iti atra api prāpnoti . na eṣaḥ doṣaḥ . ācāryapravṛttiḥ jñāpayati na paranimittakasya āttvam bhavati iti yat ayam krīṅjīṇām ṇau āttvam śāsti . na etat asti jñāpakam . niyamārtham etat syāt . krīṅjīṇām ṇau eva iti . yat tarhi mīnātiminotidīṅām lyapi ca iti atra ejgrahaṇam anuvartayati . iha tarhi glai glānīyam , mlai mlānīyam , veñ vānīyam , śo niśāmīyam paratvāt āyādayaḥ prāpnuvanti . atra api ācāryapravṛttiḥ jñāpayati na āyādayaḥ āttvam bādhante iti yat ayam aśiti iti pratiṣedham śāsti . yadi hi bādheran śiti api bādheran . atha vā punaḥ astu ec yaḥ upadeśe iti . nanu ca uktam glai glānīyam , mlai mlānīyam , veñ vānīyam , śo niśāmīyam paratvāt āyādayaḥ prāpnuvanti iti . atra api śitpratiṣedhaḥ jñāpakaḥ na āyādayaḥ āttvam bādhante iti . āttve eśi upasaṅkhyānam . āttve eśi upasaṅkhyānam kartavyam . jagle mamle . aśiti iti pratiṣedhaḥ prāpnoti . na eṣaḥ doṣaḥ . na evam vijñāyate
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.