क्अ इइइ।३५।२०-३७।५ रो इव्।३५५-३५८ किम् पुनः अयम् पर्युदासः : यत् अन्यत् शितः इति आहोस्वित् प्रसज्य अयम् प्रतिषेधः : शिति न इति । कः च अत्र विशेषः । अशिति एकादेशे प्रतिषेधः आदिवत्त्वात् । अशिति एकादेशे प्रतिषेधः वक्तव्यः : ग्लायन्ति म्लयन्ति । किम् कारणम् । आदिवत्त्वात् । शिदशितोः एकादेशः आदिवत् स्यात् । अस्ति अन्यत् शितः इति कृत्वा आत्त्वम् प्राप्नोति । प्रत्ययविधिः । प्रत्ययविधिः च न सिध्यति । सुग्लः सुम्लः । आकारान्तलक्षणः प्रत्ययविधिः न प्राप्नोति । अनिष्टस्य प्रत्ययस्य श्रवणम् प्रसज्येत । अभ्यासरूपम् च । अभ्यासरूपम् च न सिध्यति : जग्ले मम्ले । इवर्णाभ्यासता प्राप्नोति । अयवायावाम् प्रतिषेधः च । अयवायावाम् च प्रतिषेधः वक्तव्यः : ग्लै : ग्लानीयम् , म्लै : म्लानीयम् , वेञ् : वानीयम् , शो : निशामीयम् : परत्वात् आयादयः प्राप्नुवन्ति । अस्तु तर्हि प्रसज्य प्रतिषेधः शिति न इति । शिति प्रतिषेधे श्लुलुकोः उपसङ्ख्यानम् ररीध्वम् त्राध्वम् शिशीते । शिति प्रतिषेधे श्लुलुकोः उपसङ्ख्यानम् कर्तव्यम् । दिवः नः वृष्टिम् मरुतः ररीध्वम् । लुक् । त्राध्वम् नः देवा निजुरः वृकस्य । शिशीते शृङ्गे रक्षसे विनिक्षे । न एषः दोषः । इह तावत् दिवः नः वृष्टिम् मरुतः ररीध्वम् इति । न एतत् रै इति अस्य रूपम् । कस्य तर्हि । रातेः दानकर्मणः । शिशीते शृङ्गे इति न एतत् श्यतेः रूपम् । कस्य तर्हि । शीङः । श्यत्यर्थः वै गम्यते । कः पुनः श्यतेः अर्थः । श्यतिः निशाने वर्तते । शीङ् अपि श्यत्यर्थे वर्तते । कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते । बह्वर्थाः अपि धातवः भवन्ति इति । तत् यथा । वपिः प्रकिरणे दृष्टः छेदने च अपि वर्तते । केशान् वपति इति । ईडिः स्तुदिचोदनायाच्ञासु दृष्टः ईरणे च अपि वर्तते । अग्निः वै इतः वृष्टिम् ईट्टे । मरुतः अमुतः च्यावयन्ति । करोतिः अयम् अभूतप्रादुर्भावे दृष्टः निर्मलीकरणे च अपि वर्तते । पृष्ठम् कुरु । पादौ कुरु । उन्मृदान इति गम्यते । निक्षेपणे च अपि दृश्यते । कटे कुरु । घटे कुरु । अश्मानम् इतः कुरु । स्थापय इति गम्यते । सर्वेषाम् एव परिहारः । शिति इति उच्यते न च अत्र शितम् पश्यामः । प्रत्ययलक्षणेन । न लुमता तस्मिन् इति प्रत्ययलक्षणप्रतिषेधः । त्राध्वम् इति लुङि एषः व्यत्ययेन भविष्यति । अथ वा पुनः अस्तु पर्युदासः । ननु च उक्तम् अशिति एकादेशे प्रतिषेधः आदिवत्त्वात् इति । न एषः दोषः । एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् । यत् अपि प्रत्ययविधिः इति । आचार्यप्रवृत्तिः ज्ञापयति भवति एजन्तेभ्यः आकारान्तलक्षणः प्रत्ययविधिः इति यत् अयम् ह्वावामः च इति अणम् कबाधनार्थम् शास्ति । यत् अपि अभ्यासरूपम् इति : प्रत्याख्यायते सः योगः । अथ अपि क्रियते एवम् अपि न दोषः । कथम् । लिटि इति अनुवर्तते । द्विलकारकः च अयम् निर्देशः : लिटि लकारादौ इति । एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् आत्त्वे एशि उपसङ्ख्यानम् इति । यत् अपि उक्तम् अयवायावाम् प्रतिषेधः च इति । शिति प्रतिषेधः ज्ञापकः न अयादयः आत्त्वम् बाधन्ते इति ।
KA III.35.20-37.5 Ro IV.355-358 kim punaḥ ayam paryudāsaḥ : yat anyat śitaḥ iti āhosvit prasajya ayam pratiṣedhaḥ : śiti na iti . kaḥ ca atra viśeṣaḥ . aśiti ekādeśe pratiṣedhaḥ ādivattvāt . aśiti ekādeśe pratiṣedhaḥ vaktavyaḥ : glāyanti mlayanti . kim kāraṇam . ādivattvāt . śidaśitoḥ ekādeśaḥ ādivat syāt . asti anyat śitaḥ iti kṛtvā āttvam prāpnoti . pratyayavidhiḥ . pratyayavidhiḥ ca na sidhyati . suglaḥ sumlaḥ . ākārāntalakṣaṇaḥ pratyayavidhiḥ na prāpnoti . aniṣṭasya pratyayasya śravaṇam prasajyeta . abhyāsarūpam ca . abhyāsarūpam ca na sidhyati : jagle mamle . ivarṇābhyāsatā prāpnoti . ayavāyāvām pratiṣedhaḥ ca . ayavāyāvām ca pratiṣedhaḥ vaktavyaḥ : glai : glānīyam , mlai : mlānīyam , veñ : vānīyam , śo : niśāmīyam : paratvāt āyādayaḥ prāpnuvanti . astu tarhi prasajya pratiṣedhaḥ śiti na iti . śiti pratiṣedhe ślulukoḥ upasaṅkhyānam rarīdhvam trādhvam śiśīte . śiti pratiṣedhe ślulukoḥ upasaṅkhyānam kartavyam . divaḥ naḥ vṛṣṭim marutaḥ rarīdhvam . luk . trādhvam naḥ devā nijuraḥ vṛkasya . śiśīte śṛṅge rakṣase vinikṣe . na eṣaḥ doṣaḥ . iha tāvat divaḥ naḥ vṛṣṭim marutaḥ rarīdhvam iti . na etat rai iti asya rūpam . kasya tarhi . rāteḥ dānakarmaṇaḥ . śiśīte śṛṅge iti na etat śyateḥ rūpam . kasya tarhi . śīṅaḥ . śyatyarthaḥ vai gamyate . kaḥ punaḥ śyateḥ arthaḥ . śyatiḥ niśāne vartate . śīṅ api śyatyarthe vartate . katham punaḥ anyaḥ nāma anyasya arthe vartate . bahvarthāḥ api dhātavaḥ bhavanti iti . tat yathā . vapiḥ prakiraṇe dṛṣṭaḥ chedane ca api vartate . keśān vapati iti . īḍiḥ studicodanāyācñāsu dṛṣṭaḥ īraṇe ca api vartate . agniḥ vai itaḥ vṛṣṭim īṭṭe . marutaḥ amutaḥ cyāvayanti . karotiḥ ayam abhūtaprādurbhāve dṛṣṭaḥ nirmalīkaraṇe ca api vartate . pṛṣṭham kuru . pādau kuru . unmṛdāna iti gamyate . nikṣepaṇe ca api dṛśyate . kaṭe kuru . ghaṭe kuru . aśmānam itaḥ kuru . sthāpaya iti gamyate . sarveṣām eva parihāraḥ . śiti iti ucyate na ca atra śitam paśyāmaḥ . pratyayalakṣaṇena . na lumatā tasmin iti pratyayalakṣaṇapratiṣedhaḥ . trādhvam iti luṅi eṣaḥ vyatyayena bhaviṣyati . atha vā punaḥ astu paryudāsaḥ . nanu ca uktam aśiti ekādeśe pratiṣedhaḥ ādivattvāt iti . na eṣaḥ doṣaḥ . ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam . yat api pratyayavidhiḥ iti . ācāryapravṛttiḥ jñāpayati bhavati ejantebhyaḥ ākārāntalakṣaṇaḥ pratyayavidhiḥ iti yat ayam hvāvāmaḥ ca iti aṇam kabādhanārtham śāsti . yat api abhyāsarūpam iti : pratyākhyāyate saḥ yogaḥ . atha api kriyate evam api na doṣaḥ . katham . liṭi iti anuvartate . dvilakārakaḥ ca ayam nirdeśaḥ : liṭi lakārādau iti . evam ca kṛtvā saḥ api adoṣaḥ bhavati yat uktam āttve eśi upasaṅkhyānam iti . yat api uktam ayavāyāvām pratiṣedhaḥ ca iti . śiti pratiṣedhaḥ jñāpakaḥ na ayādayaḥ āttvam bādhante iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.