क्अ इइइ।४३।२०-४४।७ रो इव्।३७२-३७४ व्योः लोपे क्वौ उपसङ्ख्यानम् । व्योः लोपे क्वौ उपसङ्ख्यानम् कर्तव्यम् इह अपि यथा स्यात् । कण्डूयतेः अप्रत्ययः कण्डूः इति । किम् पुनः कारणम् न सिध्यति । वलि इति उच्यते न च अत्र वलादिम् पश्यामः । ननु च अयम् क्विप् एव वलादिः भवति । क्विब्लोपे कृते वलाद्यभावात् न प्राप्नोति । इदम् इह सम्प्रधार्यम् । क्विब्लोपः क्रियताम् यलोपः इति । किम् अत्र कर्तव्यम् । परत्वात् क्विब्लोपः नित्यत्वात् च । नित्यः खलु अपि क्विब्लोपः । कृते अपि यलोपे प्राप्नोति अकृते अपि प्राप्नोति । नित्यत्वात् परत्वात् च क्विब्लोपः । क्विब्लोपे कृते वलाद्यभावात् यलोपः न प्राप्नोति । एवम् तर्हि प्रत्ययलक्षणेन भविष्यति । वर्णाश्रये न अस्ति प्रत्ययलक्षणम् । यदि वा कानि चित् वर्णाश्रयाणि प्रत्ययलक्षणेन भवन्ति तथा इदम् अपि भविष्यति । अथ वा एवम् वक्ष्यामि । लोपः व्योः वलि । ततः वेः । व्यन्तयोः च व्योः लोपः भवति । ततः अपृक्तस्य । अपृक्तस्य च लोपः भवति । वेः इति एव ।
KA III.43.20-44.7 Ro IV.372-374 vyoḥ lope kvau upasaṅkhyānam . vyoḥ lope kvau upasaṅkhyānam kartavyam iha api yathā syāt . kaṇḍūyateḥ apratyayaḥ kaṇḍūḥ iti . kim punaḥ kāraṇam na sidhyati . vali iti ucyate na ca atra valādim paśyāmaḥ . nanu ca ayam kvip eva valādiḥ bhavati . kviblope kṛte valādyabhāvāt na prāpnoti . idam iha sampradhāryam . kviblopaḥ kriyatām yalopaḥ iti . kim atra kartavyam . paratvāt kviblopaḥ nityatvāt ca . nityaḥ khalu api kviblopaḥ . kṛte api yalope prāpnoti akṛte api prāpnoti . nityatvāt paratvāt ca kviblopaḥ . kviblope kṛte valādyabhāvāt yalopaḥ na prāpnoti . evam tarhi pratyayalakṣaṇena bhaviṣyati . varṇāśraye na asti pratyayalakṣaṇam . yadi vā kāni cit varṇāśrayāṇi pratyayalakṣaṇena bhavanti tathā idam api bhaviṣyati . atha vā evam vakṣyāmi . lopaḥ vyoḥ vali . tataḥ veḥ . vyantayoḥ ca vyoḥ lopaḥ bhavati . tataḥ apṛktasya . apṛktasya ca lopaḥ bhavati . veḥ iti eva .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.