क्अ इइइ।४४।८-४५।२ रो इव्।३७४-३७५ वलोपाप्रसिद्धिः ऊड्भाववचनात् । वलोपस्य अप्रसिद्धिः । आस्रेमाणम् , जीरदानुः इति । किम् कारणम् । ऊड्भाववचनात् । च्छ्वोः शूट् अनुनासिके च इति ऊठ् प्राप्नोति । अतिप्रसङ्गः व्रश्चादिषु । व्रश्चादिषु च अतिप्रसङ्गः भवति । इह अपि प्राप्नोति । व्रश्चनः , व्रीहिः , व्रणः इति । उपदेशसामर्थ्यात् सिद्धम् । उपदेशसामर्थ्यात् व्रश्चादिषु लोपः न भविष्यति । उपदेशसामर्थ्यात् सिद्धम् इति चेत् सम्प्रसारणहलादिशेषेषु सामर्थ्यम् । उपदेशसामर्थ्यात् सिद्धम् इति चेत् अस्ति अन्यत् उपदेशवचने प्रयोजनम् । सम्प्रसारणहलादिशेषेषु कृतेषु वकारस्य श्रवणम् यथा स्यात् । (र्: वृक्णः ) वृक्णवान् , (र् वृश्चति ) विव्रश्चिषति इति । न वा बहिरङ्गलक्षणत्वात् । न वा एतत् प्रयोजनम् अस्ति । किम् कारणम् । बहिरङ्गलक्षणत्वात् । बहिरङ्गाः सम्प्रसारणहलादिशेषाः । अन्तरङ्गः लोपः । असिद्धम् बहिरङ्गम् अन्तरङ्गे । अनारम्भः वा । अनारम्भः वा पुनः वलोपस्य न्याय्यः । कथम् आस्रेमाणम् , जीरदानुः इति । आस्रेमाणम् जीरदानुः इति वर्णलोपात् । आस्रेमाणम् , जीरदानुः इति छान्दसात् वर्णलोपात् सिद्धम् । यथा संस्फानः गयस्फानः । तत् यथा संस्फयनः , संस्फानः , गयस्फानः, गयस्फानः इति ।
KA III.44.8-45.2 Ro IV.374-375 valopāprasiddhiḥ ūḍbhāvavacanāt . valopasya aprasiddhiḥ . āsremāṇam , jīradānuḥ iti . kim kāraṇam . ūḍbhāvavacanāt . cchvoḥ śūṭ anunāsike ca iti ūṭh prāpnoti . atiprasaṅgaḥ vraścādiṣu . vraścādiṣu ca atiprasaṅgaḥ bhavati . iha api prāpnoti . vraścanaḥ , vrīhiḥ , vraṇaḥ iti . upadeśasāmarthyāt siddham . upadeśasāmarthyāt vraścādiṣu lopaḥ na bhaviṣyati . upadeśasāmarthyāt siddham iti cet samprasāraṇahalādiśeṣeṣu sāmarthyam . upadeśasāmarthyāt siddham iti cet asti anyat upadeśavacane prayojanam . samprasāraṇahalādiśeṣeṣu kṛteṣu vakārasya śravaṇam yathā syāt . (R: vṛkṇaḥ ) vṛkṇavān , (R vṛścati ) vivraściṣati iti . na vā bahiraṅgalakṣaṇatvāt . na vā etat prayojanam asti . kim kāraṇam . bahiraṅgalakṣaṇatvāt . bahiraṅgāḥ samprasāraṇahalādiśeṣāḥ . antaraṅgaḥ lopaḥ . asiddham bahiraṅgam antaraṅge . anārambhaḥ vā . anārambhaḥ vā punaḥ valopasya nyāyyaḥ . katham āsremāṇam , jīradānuḥ iti . āsremāṇam jīradānuḥ iti varṇalopāt . āsremāṇam , jīradānuḥ iti chāndasāt varṇalopāt siddham . yathā saṃsphānaḥ gayasphānaḥ . tat yathā saṃsphayanaḥ , saṃsphānaḥ , gayasphānaḥ, gayasphānaḥ iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.