क्अ इइइ।५८।१८-५९।८ रो इव्।४०२-४०३ अथ पूर्वग्रहणम् किमर्थम् । पूर्वपरग्रहणम् परस्य आदेशप्रतिषेधार्थम् । पूर्वपरग्रहणम् क्रियते परस्य आदेशप्रतिषेधार्थम् । परस्य आदेशः मा भूत् । आत् गुणः इति । कथम् च प्राप्नोति । पञ्चमीनिर्दिष्टात् हि परस्य । पञ्चमीनिर्दिष्टात् हि परस्य कार्यम् उच्यते । तत् यथा द्व्यन्तरुपसर्गेभ्यः अपः ईत् इति । षष्ठीनिर्दिष्टार्थम् तु । षष्ठीनिर्दिष्टार्थम् च पूर्वपरग्रहणम् क्रियते । षष्ठीनिर्देशः यथा पकल्पेत । अनिर्दिष्टे हि षष्ठ्यर्थाप्रसिद्धिः । अक्रियमाणे हि पूर्वपरग्रहणे षष्ठ्यर्थस्य अप्रसिद्धिः स्यात् । कस्य । स्थानेयोगत्वस्य । न एषः दोषः । आत् इति एषा पञ्चमी अचि इति सप्तम्याः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति । तथा च अचि इति एषा सप्तमी आत् इति पञ्चम्याः षष्ठीम् प्रकल्पयिष्यति तस्मिन् इति निर्दिष्टे पूर्वस्य इति । एवम् तर्हि सिद्धे सति यत् पूर्वग्रहणम् करोति तत् ज्ञापयति आचार्यः न उभे युगपत् प्रकल्पिके भवतः इति । किम् एतस्य ज्ञापने प्रयोजनम् । यत् उक्तम् : सप्तमीपञ्चम्योः च भावात् उभयत्र षष्ठीप्रकॢप्तिः तत्र उभयकार्यप्रसङ्गः इति । सः न दोषः भवति ।
KA III.58.18-59.8 Ro IV.402-403 atha pūrvagrahaṇam kimartham . pūrvaparagrahaṇam parasya ādeśapratiṣedhārtham . pūrvaparagrahaṇam kriyate parasya ādeśapratiṣedhārtham . parasya ādeśaḥ mā bhūt . āt guṇaḥ iti . katham ca prāpnoti . pañcamīnirdiṣṭāt hi parasya . pañcamīnirdiṣṭāt hi parasya kāryam ucyate . tat yathā dvyantarupasargebhyaḥ apaḥ īt iti . ṣaṣṭhīnirdiṣṭārtham tu . ṣaṣṭhīnirdiṣṭārtham ca pūrvaparagrahaṇam kriyate . ṣaṣṭhīnirdeśaḥ yathā pakalpeta . anirdiṣṭe hi ṣaṣṭhyarthāprasiddhiḥ . akriyamāṇe hi pūrvaparagrahaṇe ṣaṣṭhyarthasya aprasiddhiḥ syāt . kasya . sthāneyogatvasya . na eṣaḥ doṣaḥ . āt iti eṣā pañcamī aci iti saptamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti . tathā ca aci iti eṣā saptamī āt iti pañcamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmin iti nirdiṣṭe pūrvasya iti . evam tarhi siddhe sati yat pūrvagrahaṇam karoti tat jñāpayati ācāryaḥ na ubhe yugapat prakalpike bhavataḥ iti . kim etasya jñāpane prayojanam . yat uktam : saptamīpañcamyoḥ ca bhāvāt ubhayatra ṣaṣṭhīprakḷptiḥ tatra ubhayakāryaprasaṅgaḥ iti . saḥ na doṣaḥ bhavati .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.