क्अ इइइ।५६।२-५७।६ रो इव्।३९६-३९८ एकवचनम् किमर्थम् । एकवचनम् पृथक् आदेशप्रतिषेधार्थम् । एकवचनम् क्रियते एकः आदेशः यथा स्यात् । पृथक् आदेशः मा भूत् इति । न वा द्रव्यवत् कर्मचोदनायाम् द्वयोः एकस्य अभिनिर्वृत्तेः । न वा एतत् प्रयोजनम् अस्ति । किम् कारणम् । द्रव्यवत् कर्मचोदनायाम् द्वयोः एकस्य अभिनिर्वृत्तेः एकः आदेशः भविष्यति । तत् यथा द्रव्येषु कर्मचोदनायाम् द्वयोः एकस्य अभिनिर्वृत्तिः भवति । अनयोः पूलयोः कटम् कुरु । अनयोः मित्पिण्डयोः घटम् कुरु इति । न च उच्यते एकम् इति एकम् च असौ करोति । किम् पुनः कारणम् द्रव्येषु कर्मचोदनायाम् द्वयोः एकस्य अभिनिर्वृत्तिः भवति । तत् च एकवाक्यभावात् । एकवाक्यभावात् द्रव्येषु कर्मचोदनायाम् द्वयोः एकस्य अभिनिर्वृत्तिः भवति । आतः च एकवाक्यभावात् । व्याकरणे अपि हि अन्यत्र द्वयोः स्थानिनोः एकः आदेशः भवति । ज्वरत्वरस्रिव्यविमवाम् उपधायाः च । भ्रस्जः रोपधयोः रम् अन्यतरस्याम् इति । यत् तावत् उच्यते एकवाक्यभावात् इति तत् न । अर्थात् प्रकरणात् वा लोके द्वयोः एकस्य अभिनिर्वृत्तिः भवति । आतः च अर्थात् प्रकरणात् वा । व्याकरणे अपि हि अन्यत्र द्वयोः स्थानिनोः द्वौ आदेशौ भवतः । रदाभ्याम् निष्ठातः नः पूर्वस्य च दः । उभौ साभ्यासस्य इति । कथम् यत् तत् उक्तम् व्याकरणे अपि हि अन्यत्र द्वयोः स्थानिनोः एकः आदेशः भवति । ज्वरत्वरस्रिव्यविमवाम् उपधायाः च । भ्रस्जः रोपधयोः रम् अन्यतरस्याम् इति । इह तावत् ज्वरत्वरस्रिव्यविमवाम् उपधायाः च इति । स्ताम् द्वौ ऊठौ । न अस्ति दोषः । सवर्णदीर्घत्वेन सिद्धम् । इह भ्रस्जः रोपधयोः रम् अन्यतरस्याम् इति । वक्ष्यति हि एतत् । भ्रस्जः रोपधयोः लोपः आगमः रम् विधीयते इति । यत् उच्यते अर्थात् प्रकरणात् वा इति तत् न । किम् कारणम् । एकवाक्यभावात् एव लोके द्वयोः एकस्य अभिनिर्वृत्तिः भवति । आतः च एकवाक्यभावात् । अङ्ग हि भवान् ग्राम्यम् पांसुलपादम् अप्रकरणज्ञम् आगतम् ब्रवीतु अनयोः पूलयोः कटम् कुरु । अनयोः मित्पिण्डयोः घटम् कुरु इति । एकम् एव असौ करिष्यति । कथम् यत् उक्तम् व्याकरणे अपि हि अन्यत्र द्वयोः स्थानिनोः द्वौ आदेशौ भवतः । रदाभ्याम् निष्ठातः नः पूर्वस्य च दः । उभौ साभ्यासस्य इति । इह तावत् रदाभ्याम् निष्ठातः नः पूर्वस्य च दः इति द्वे वाक्ये । कथम् । योगविभागः करिष्यते । रदाभ्याम् निष्ठातः नः । ततः पूर्वस्य च दः इति । इह उभौ साभ्यासस्य इति उभौग्रहणसामर्थ्यात् द्वौ आदेशौ भविष्यतः ।
KA III.56.2-57.6 Ro IV.396-398 ekavacanam kimartham . ekavacanam pṛthak ādeśapratiṣedhārtham . ekavacanam kriyate ekaḥ ādeśaḥ yathā syāt . pṛthak ādeśaḥ mā bhūt iti . na vā dravyavat karmacodanāyām dvayoḥ ekasya abhinirvṛtteḥ . na vā etat prayojanam asti . kim kāraṇam . dravyavat karmacodanāyām dvayoḥ ekasya abhinirvṛtteḥ ekaḥ ādeśaḥ bhaviṣyati . tat yathā dravyeṣu karmacodanāyām dvayoḥ ekasya abhinirvṛttiḥ bhavati . anayoḥ pūlayoḥ kaṭam kuru . anayoḥ mitpiṇḍayoḥ ghaṭam kuru iti . na ca ucyate ekam iti ekam ca asau karoti . kim punaḥ kāraṇam dravyeṣu karmacodanāyām dvayoḥ ekasya abhinirvṛttiḥ bhavati . tat ca ekavākyabhāvāt . ekavākyabhāvāt dravyeṣu karmacodanāyām dvayoḥ ekasya abhinirvṛttiḥ bhavati . ātaḥ ca ekavākyabhāvāt . vyākaraṇe api hi anyatra dvayoḥ sthāninoḥ ekaḥ ādeśaḥ bhavati . jvaratvarasrivyavimavām upadhāyāḥ ca . bhrasjaḥ ropadhayoḥ ram anyatarasyām iti . yat tāvat ucyate ekavākyabhāvāt iti tat na . arthāt prakaraṇāt vā loke dvayoḥ ekasya abhinirvṛttiḥ bhavati . ātaḥ ca arthāt prakaraṇāt vā . vyākaraṇe api hi anyatra dvayoḥ sthāninoḥ dvau ādeśau bhavataḥ . radābhyām niṣṭhātaḥ naḥ pūrvasya ca daḥ . ubhau sābhyāsasya iti . katham yat tat uktam vyākaraṇe api hi anyatra dvayoḥ sthāninoḥ ekaḥ ādeśaḥ bhavati . jvaratvarasrivyavimavām upadhāyāḥ ca . bhrasjaḥ ropadhayoḥ ram anyatarasyām iti . iha tāvat jvaratvarasrivyavimavām upadhāyāḥ ca iti . stām dvau ūṭhau . na asti doṣaḥ . savarṇadīrghatvena siddham . iha bhrasjaḥ ropadhayoḥ ram anyatarasyām iti . vakṣyati hi etat . bhrasjaḥ ropadhayoḥ lopaḥ āgamaḥ ram vidhīyate iti . yat ucyate arthāt prakaraṇāt vā iti tat na . kim kāraṇam . ekavākyabhāvāt eva loke dvayoḥ ekasya abhinirvṛttiḥ bhavati . ātaḥ ca ekavākyabhāvāt . aṅga hi bhavān grāmyam pāṃsulapādam aprakaraṇajñam āgatam bravītu anayoḥ pūlayoḥ kaṭam kuru . anayoḥ mitpiṇḍayoḥ ghaṭam kuru iti . ekam eva asau kariṣyati . katham yat uktam vyākaraṇe api hi anyatra dvayoḥ sthāninoḥ dvau ādeśau bhavataḥ . radābhyām niṣṭhātaḥ naḥ pūrvasya ca daḥ . ubhau sābhyāsasya iti . iha tāvat radābhyām niṣṭhātaḥ naḥ pūrvasya ca daḥ iti dve vākye . katham . yogavibhāgaḥ kariṣyate . radābhyām niṣṭhātaḥ naḥ . tataḥ pūrvasya ca daḥ iti . iha ubhau sābhyāsasya iti ubhaugrahaṇasāmarthyāt dvau ādeśau bhaviṣyataḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइइ।५७।७-५८।१७ रो इव्।३९९-४०२ तत्र अवयवे शास्त्रार्थसम्प्रत्ययः यथा लोके टत्र अवयवे शास्त्रार्थसम्प्रत्ययः प्राप्नोति यथा लोके । तत् यथा लोके । वसन्ते ब्राह्मणः अग्नीन् आदधीत इति सकृत् आधाय कृतः शास्त्रार्थः इति कृत्वा पुनः प्रवृत्तिः न भवति । तथा गर्भाष्टमे ब्राह्मणः उपनेयः इति सकृत् उपनीय कृतः शास्त्रार्थः इति कृत्वा पुनः प्रवृत्तिः न भवति । तथा त्रिः हृदयङ्गमाभिः अद्भिः अशब्दाभिः उपस्पृशेत् इति सकृत् उपस्पृश्य कृतः शास्त्रार्थः इति कृत्वा पुनः प्रवृत्तिः न भवति । एवम् इह अपि खट्वेन्द्रे कृतः शास्त्रार्थः इति कृत्वा मालेन्द्रादिषु न स्यात् । सिद्धम् तु धर्मोपदेशने अनवयवविज्ञानात् यथा लौकिकवैदिकेषु । सिद्धम् एतत् । कथम् । धर्मोपदेशनम् इदम् शास्त्रम् । धर्मोपदेशने च अस्मिन् शास्त्रे अनवयवेन शास्त्रार्थः सम्प्रतीयते यथा लौकिकेषु वैदिकेषु च कृतान्तेषु । लोके तावत् : ब्राह्मणः न हन्तव्यः । सुरा न पेया इति । ब्राह्मणमात्रम् न हन्यते सुरामात्रम् च न पीयते । यदि च अवयवेन शास्त्रार्थसम्प्रत्ययः स्यात् एकम् च ब्राह्मणम् अहत्वा एकाम् च सुराम् अपीत्वा अन्यत्र कामचारः स्यात् । तथा पूर्ववयाः ब्राह्मणः प्रत्युत्थेयः इति पूर्ववयोमात्रम् प्रत्युत्थीयते । यदि अवयवेन शास्त्रार्थसम्प्रत्ययः स्यात् एकम् पूर्ववयसम् प्रत्युत्थाय अन्यत्र कामचारः स्यात् । तथा वेदे खलु अपि । वसन्ते ब्राह्मणः अग्निष्टोमादिभिः क्रतुभिः यजेत इति अग्न्याधाननिमित्तम् वसन्ते वसन्ते इज्यते । यदि अवयवेन शास्त्रार्थसम्प्रत्ययः स्यात् सकृत् इष्ट्वा पुनः इज्या न प्रवर्तेत । उभयथा इह लोके दृश्यते । अवयवेन अपि शास्त्रार्थसम्प्रत्ययः अनवयवेन अपि । कथम् पुनः इदम् उभयम् लभ्यम् । लभ्यम् इति आह । कथम् । इह तावत् वसन्ते ब्राह्मणः अग्नीन् आदधीत इति । अग्न्याधानम् यज्ञमुखप्र्तिपत्त्यर्थम् । सकृत् आधाय कृतः शास्त्रार्थः प्रतिपन्नम् यज्ञम् इति कृत्वा पुनः प्रवृत्तिः न भवति । अतः अत्र अवयवेन शास्त्रार्थः सम्प्रतीयते । तथा गर्भाष्टमे ब्राह्मणः उपनेयः इति । उपनयनम् संस्कारार्थम् । सकृत् च असौ उपनीतः संस्कृतः भवति । अतः अत्र अपि अवयवेन शास्त्रार्थः सम्प्रतीयते । तथा त्रिः हृदयङ्गमाभिः अद्भिः अशब्दाभिः उपस्पृशेत् इति । उपस्पर्शनम् शौचार्थम् । सकृत् च असौ उपस्पृश्य शुचिः भवति । अतः अत्र अपि अवयवेन शास्त्रार्थः सम्प्रतीयते । इह इदानीम् ब्राह्मणः न हन्तव्यः । सुरा न पेया इति । ब्राह्मणवधे सुरापाने च महान् दोषः उक्तः । सः ब्राह्मणवधमात्रे सुरापानमात्रे च प्रसक्तः । अतः अत्र अनवयवेन शास्त्रार्थः सम्प्रतीयते । तथा पूर्ववयाः ब्राह्मणः प्रत्युत्थेयः इति । पूर्ववयसः अप्रत्युत्थाने दोषः उक्तः प्रत्युत्थाने च गुणः । कथम् । ऊर्ध्वम् प्राणाः हि उत्क्रामन्ति यूनः स्थविरे आयति । प्रत्युत्थानाभाभिवादाभ्याम् पुनः तान् प्रतिपद्यते इति । सः च प्रूर्ववयोमात्रे प्रसक्तः । अतः अत्र अपि अनवयवेन शास्त्रार्थः सम्प्रतीयते । तथा वसन्ते ब्राह्मणः अग्निष्टोमादिभिः क्रतुभिः यजेत इति इज्यायाः किम् चित् प्रयोजनम् उक्तम् । किम् । स्वर्गे लोके अप्सरसः एनम् जायाः भूत्वा उपशेरते इति । तत् च द्वितीयस्याः तृतीयस्याः च इज्यायाः भवितुम् अर्हति । अतः अत्र अपि अनवयवेन शास्त्रार्थः सम्प्रतीयते । तथा शब्दस्य अपि ज्ञाने प्रयोगे प्रयोजनम् उक्तम् । किम् । एकः शब्दः सम्यक् ज्ञातः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके कामधुक् भवति इति । यदि एकः शब्दः सम्यक् ज्ञातः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके कामधुक् भवति किमर्थम् द्वितीयः तृतीयः च प्रयुज्यते । न वै कामानाम् तृप्तिः अस्ति ।
KA III.57.7-58.17 Ro IV.399-402 tatra avayave śāstrārthasampratyayaḥ yathā loke ṭatra avayave śāstrārthasampratyayaḥ prāpnoti yathā loke . tat yathā loke . vasante brāhmaṇaḥ agnīn ādadhīta iti sakṛt ādhāya kṛtaḥ śāstrārthaḥ iti kṛtvā punaḥ pravṛttiḥ na bhavati . tathā garbhāṣṭame brāhmaṇaḥ upaneyaḥ iti sakṛt upanīya kṛtaḥ śāstrārthaḥ iti kṛtvā punaḥ pravṛttiḥ na bhavati . tathā triḥ hṛdayaṅgamābhiḥ adbhiḥ aśabdābhiḥ upaspṛśet iti sakṛt upaspṛśya kṛtaḥ śāstrārthaḥ iti kṛtvā punaḥ pravṛttiḥ na bhavati . evam iha api khaṭvendre kṛtaḥ śāstrārthaḥ iti kṛtvā mālendrādiṣu na syāt . siddham tu dharmopadeśane anavayavavijñānāt yathā laukikavaidikeṣu . siddham etat . katham . dharmopadeśanam idam śāstram . dharmopadeśane ca asmin śāstre anavayavena śāstrārthaḥ sampratīyate yathā laukikeṣu vaidikeṣu ca kṛtānteṣu . loke tāvat : brāhmaṇaḥ na hantavyaḥ . surā na peyā iti . brāhmaṇamātram na hanyate surāmātram ca na pīyate . yadi ca avayavena śāstrārthasampratyayaḥ syāt ekam ca brāhmaṇam ahatvā ekām ca surām apītvā anyatra kāmacāraḥ syāt . tathā pūrvavayāḥ brāhmaṇaḥ pratyuttheyaḥ iti pūrvavayomātram pratyutthīyate . yadi avayavena śāstrārthasampratyayaḥ syāt ekam pūrvavayasam pratyutthāya anyatra kāmacāraḥ syāt . tathā vede khalu api . vasante brāhmaṇaḥ agniṣṭomādibhiḥ kratubhiḥ yajeta iti agnyādhānanimittam vasante vasante ijyate . yadi avayavena śāstrārthasampratyayaḥ syāt sakṛt iṣṭvā punaḥ ijyā na pravarteta . ubhayathā iha loke dṛśyate . avayavena api śāstrārthasampratyayaḥ anavayavena api . katham punaḥ idam ubhayam labhyam . labhyam iti āha . katham . iha tāvat vasante brāhmaṇaḥ agnīn ādadhīta iti . agnyādhānam yajñamukhaprtipattyartham . sakṛt ādhāya kṛtaḥ śāstrārthaḥ pratipannam yajñam iti kṛtvā punaḥ pravṛttiḥ na bhavati . ataḥ atra avayavena śāstrārthaḥ sampratīyate . tathā garbhāṣṭame brāhmaṇaḥ upaneyaḥ iti . upanayanam saṃskārārtham . sakṛt ca asau upanītaḥ saṃskṛtaḥ bhavati . ataḥ atra api avayavena śāstrārthaḥ sampratīyate . tathā triḥ hṛdayaṅgamābhiḥ adbhiḥ aśabdābhiḥ upaspṛśet iti . upasparśanam śaucārtham . sakṛt ca asau upaspṛśya śuciḥ bhavati . ataḥ atra api avayavena śāstrārthaḥ sampratīyate . iha idānīm brāhmaṇaḥ na hantavyaḥ . surā na peyā iti . brāhmaṇavadhe surāpāne ca mahān doṣaḥ uktaḥ . saḥ brāhmaṇavadhamātre surāpānamātre ca prasaktaḥ . ataḥ atra anavayavena śāstrārthaḥ sampratīyate . tathā pūrvavayāḥ brāhmaṇaḥ pratyuttheyaḥ iti . pūrvavayasaḥ apratyutthāne doṣaḥ uktaḥ pratyutthāne ca guṇaḥ . katham . ūrdhvam prāṇāḥ hi utkrāmanti yūnaḥ sthavire āyati . pratyutthānābhābhivādābhyām punaḥ tān pratipadyate iti . saḥ ca prūrvavayomātre prasaktaḥ . ataḥ atra api anavayavena śāstrārthaḥ sampratīyate . tathā vasante brāhmaṇaḥ agniṣṭomādibhiḥ kratubhiḥ yajeta iti ijyāyāḥ kim cit prayojanam uktam . kim . svarge loke apsarasaḥ enam jāyāḥ bhūtvā upaśerate iti . tat ca dvitīyasyāḥ tṛtīyasyāḥ ca ijyāyāḥ bhavitum arhati . ataḥ atra api anavayavena śāstrārthaḥ sampratīyate . tathā śabdasya api jñāne prayoge prayojanam uktam . kim . ekaḥ śabdaḥ samyak jñātaḥ śāstrānvitaḥ suprayuktaḥ svarge loke kāmadhuk bhavati iti . yadi ekaḥ śabdaḥ samyak jñātaḥ śāstrānvitaḥ suprayuktaḥ svarge loke kāmadhuk bhavati kimartham dvitīyaḥ tṛtīyaḥ ca prayujyate . na vai kāmānām tṛptiḥ asti .
Sanskrit only: no published translation is held for this verse.
क्अ इइइ।५८।१८-५९।८ रो इव्।४०२-४०३ अथ पूर्वग्रहणम् किमर्थम् । पूर्वपरग्रहणम् परस्य आदेशप्रतिषेधार्थम् । पूर्वपरग्रहणम् क्रियते परस्य आदेशप्रतिषेधार्थम् । परस्य आदेशः मा भूत् । आत् गुणः इति । कथम् च प्राप्नोति । पञ्चमीनिर्दिष्टात् हि परस्य । पञ्चमीनिर्दिष्टात् हि परस्य कार्यम् उच्यते । तत् यथा द्व्यन्तरुपसर्गेभ्यः अपः ईत् इति । षष्ठीनिर्दिष्टार्थम् तु । षष्ठीनिर्दिष्टार्थम् च पूर्वपरग्रहणम् क्रियते । षष्ठीनिर्देशः यथा पकल्पेत । अनिर्दिष्टे हि षष्ठ्यर्थाप्रसिद्धिः । अक्रियमाणे हि पूर्वपरग्रहणे षष्ठ्यर्थस्य अप्रसिद्धिः स्यात् । कस्य । स्थानेयोगत्वस्य । न एषः दोषः । आत् इति एषा पञ्चमी अचि इति सप्तम्याः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति । तथा च अचि इति एषा सप्तमी आत् इति पञ्चम्याः षष्ठीम् प्रकल्पयिष्यति तस्मिन् इति निर्दिष्टे पूर्वस्य इति । एवम् तर्हि सिद्धे सति यत् पूर्वग्रहणम् करोति तत् ज्ञापयति आचार्यः न उभे युगपत् प्रकल्पिके भवतः इति । किम् एतस्य ज्ञापने प्रयोजनम् । यत् उक्तम् : सप्तमीपञ्चम्योः च भावात् उभयत्र षष्ठीप्रकॢप्तिः तत्र उभयकार्यप्रसङ्गः इति । सः न दोषः भवति ।
KA III.58.18-59.8 Ro IV.402-403 atha pūrvagrahaṇam kimartham . pūrvaparagrahaṇam parasya ādeśapratiṣedhārtham . pūrvaparagrahaṇam kriyate parasya ādeśapratiṣedhārtham . parasya ādeśaḥ mā bhūt . āt guṇaḥ iti . katham ca prāpnoti . pañcamīnirdiṣṭāt hi parasya . pañcamīnirdiṣṭāt hi parasya kāryam ucyate . tat yathā dvyantarupasargebhyaḥ apaḥ īt iti . ṣaṣṭhīnirdiṣṭārtham tu . ṣaṣṭhīnirdiṣṭārtham ca pūrvaparagrahaṇam kriyate . ṣaṣṭhīnirdeśaḥ yathā pakalpeta . anirdiṣṭe hi ṣaṣṭhyarthāprasiddhiḥ . akriyamāṇe hi pūrvaparagrahaṇe ṣaṣṭhyarthasya aprasiddhiḥ syāt . kasya . sthāneyogatvasya . na eṣaḥ doṣaḥ . āt iti eṣā pañcamī aci iti saptamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti . tathā ca aci iti eṣā saptamī āt iti pañcamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmin iti nirdiṣṭe pūrvasya iti . evam tarhi siddhe sati yat pūrvagrahaṇam karoti tat jñāpayati ācāryaḥ na ubhe yugapat prakalpike bhavataḥ iti . kim etasya jñāpane prayojanam . yat uktam : saptamīpañcamyoḥ ca bhāvāt ubhayatra ṣaṣṭhīprakḷptiḥ tatra ubhayakāryaprasaṅgaḥ iti . saḥ na doṣaḥ bhavati .
Sanskrit only: no published translation is held for this verse.