क्अ इइइ।६४।९-६५।६ रो इव्।४१३-४१४ न अभ्यासादीनाम् ह्रस्वत्वे । अभ्यासादीनाम् ह्रस्वत्वे न अन्तादिवत् भवति इति वक्तव्यम् । के पुनः अभ्यासादयः । अभ्यासोहाम्बार्थनदीनपुंसकोपसर्जनह्रस्वत्वानि । अभ्यासह्रस्वत्वम् । उपेयाज , उपोवाप । ऊहेः ह्रस्ववम् । उपोह्यते , प्रोह्यते , परोह्यते । अम्बार्थनदीनपुंसकोपसर्जनह्रस्वत्वानि । अम्ब अत्र , अक्क अत्र । कुमारि इदम् , किशोरि इदम् । आराशस्त्रि इदम् , धानाशष्कुलि इदम् । निष्कौशाम्बि इदम् , निर्वाराणसि इदम् । अभ्यासोहाम्बार्थनदीनपुंसकोपसर्जनग्रहणेन ग्रहणात् ह्रस्वत्वम् प्राप्नोति । न वा बहिरङ्गलक्षणत्वात् । न वा एतत् वक्तव्यम् । किम् कारणम् । बहिरङ्गलक्षणत्वात् । अन्तरङ्गम् ह्रस्वत्वम् । बहिरङ्गाः एते विधयः । असिद्धम् बहिरङ्गम् अन्तरङ्गे । वर्णाश्रयविधौ च । वर्णाश्रयविधौ च न अन्तादिवत् भवति इति वक्तव्यम् । किम् प्रयोजनम् । प्रयोजनम् खट्वाभिः जुहाव अस्यै अश्वः इति । इह खट्वाभिः , मालाभिः , अतः भिसः ऐस् भवति इति ऐस्भावः प्राप्नोति । न एषः दोषः । तपरकरणसामर्थ्यात् न भविष्यति । अस्ति अन्यत् तपरकरणे प्रयोजनम् । किम् । कीलालपाभिः , शुभंयाभिः । जुहाव । आतः औ णलः इति औत्वम् प्राप्नोति । अस्यै अश्वः इति । एङः पदान्तात् अति इति पूर्वत्वम् प्राप्नोति । न वा अताद्रूप्यातिदेशात् । न वा वक्तव्यम् । किम् कारणम् । अताद्रूप्यातिदेशात् । न इह ताद्रूप्यम् अतिदिश्यते । रूपाश्रयाः वै एते विधयः अताद्रूप्यात् न भविष्यन्ति ।
KA III.64.9-65.6 Ro IV.413-414 na abhyāsādīnām hrasvatve . abhyāsādīnām hrasvatve na antādivat bhavati iti vaktavyam . ke punaḥ abhyāsādayaḥ . abhyāsohāmbārthanadīnapuṃsakopasarjanahrasvatvāni . abhyāsahrasvatvam . upeyāja , upovāpa . ūheḥ hrasvavam . upohyate , prohyate , parohyate . ambārthanadīnapuṃsakopasarjanahrasvatvāni . amba atra , akka atra . kumāri idam , kiśori idam . ārāśastri idam , dhānāśaṣkuli idam . niṣkauśāmbi idam , nirvārāṇasi idam . abhyāsohāmbārthanadīnapuṃsakopasarjanagrahaṇena grahaṇāt hrasvatvam prāpnoti . na vā bahiraṅgalakṣaṇatvāt . na vā etat vaktavyam . kim kāraṇam . bahiraṅgalakṣaṇatvāt . antaraṅgam hrasvatvam . bahiraṅgāḥ ete vidhayaḥ . asiddham bahiraṅgam antaraṅge . varṇāśrayavidhau ca . varṇāśrayavidhau ca na antādivat bhavati iti vaktavyam . kim prayojanam . prayojanam khaṭvābhiḥ juhāva asyai aśvaḥ iti . iha khaṭvābhiḥ , mālābhiḥ , ataḥ bhisaḥ ais bhavati iti aisbhāvaḥ prāpnoti . na eṣaḥ doṣaḥ . taparakaraṇasāmarthyāt na bhaviṣyati . asti anyat taparakaraṇe prayojanam . kim . kīlālapābhiḥ , śubhaṃyābhiḥ . juhāva . ātaḥ au ṇalaḥ iti autvam prāpnoti . asyai aśvaḥ iti . eṅaḥ padāntāt ati iti pūrvatvam prāpnoti . na vā atādrūpyātideśāt . na vā vaktavyam . kim kāraṇam . atādrūpyātideśāt . na iha tādrūpyam atidiśyate . rūpāśrayāḥ vai ete vidhayaḥ atādrūpyāt na bhaviṣyanti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.