क्अ इइइ।६३।८-६४।८ रो इव्।४११-४१२ अथ आदिवत्त्वे कानि प्रयोजनानि । आदिवत्त्वे प्रयोजनम् प्रगृह्यसञ्ज्ञायाम् । आदिवत्त्वे प्रगृह्यसञ्ज्ञायाम् प्रयोजनम् । अग्नी इति , वायू इति । द्विवचनाद्विवचनयोः एकादेशः द्विवचनस्य आदिवत् भवति यथा शक्येत कर्तुम् ईदूदेत् द्विवचनम् प्रगृह्यम् इति । क्व तर्हि स्यात् । यत्र एकादेशः न भवति । त्रपुणी इति , जतुनी इति । सुप्तिङाब्विधिषु । सुप्तिङाब्विधिषु प्रयोजनम् । सुप् । वृक्षे तिष्ठति । प्लक्षे तिष्ठति । सुबसुपोः एकादेशः सुपः आदिवत् भवति यथा शक्येत कर्तुम् सुबन्तम् पदम् इति । क्व तर्हि स्यात् । यत्र एकादेशः न भवति । वृक्षः तिष्ठति । प्लक्षः तिष्थति । सुप् । तिङ् । पचे, यजे इति । तिङतिङोः एकादेशः तिङः आदिवत् भवति यथा शक्येत कर्तुम् तिङन्तम् पदम् इति । क्व तर्हि स्यात् । यत्र एकादेशः न भवति । पचति , यजति । तिङ् । आप् । खट्वा , माला । अबनापोः एकादेशः आपः आदिवत् भवति यथा शक्येत कर्तुम् आबन्तात् सोः लोपः भवति इति । क्व तर्हि स्यात् । यत्र एकादेशः न भवति । क्रुञ्चा , उष्णिहा , देवदिशा । आङ्ग्रहणे पदविधौ । आङ्ग्रहणे पदविधौ प्रयोजनम् । अद्य आहते । कदा आहते । आङनाङोः एकादेशः आङः आदिवत् भवति यथा शक्येत कर्तुम् आङः यमहनः इति आत्मनेपदम् भवति इति । क्व तर्हि स्यात् । यत्र एकादेशः न भवति । आहते । आटः च वृद्धिविधौ । आटः च वृद्धिविधौ प्रयोजनम् । अद्य ऐहिष्ट । कदा ऐहिष्ट । आटः अद्यशब्दस्य च एकादेशः आटः आदिवत् भवति यथा शक्येत कर्तुम् आटः च अचि वृद्धिः भवति इति । क्व तर्हि स्यात् । यत्र एकादेशः न । ऐहिष्ट , ऐक्षिष्ट । कृदन्तप्रातिपदिकत्वे च । कृदन्तप्रातिपदिकत्वे च प्रयोजनम् । धारयः , पारयः । कृदकृतोः एकादेशः कृतः आदिवत् भवति यथा शक्येत कर्तुम् कृदन्तम् प्रातिपदिकम् इति । क्व तर्हि स्यात् । यत्र एकादेशः न । कारकः , हारकः ।
KA III.63.8-64.8 Ro IV.411-412 atha ādivattve kāni prayojanāni . ādivattve prayojanam pragṛhyasañjñāyām . ādivattve pragṛhyasañjñāyām prayojanam . agnī iti , vāyū iti . dvivacanādvivacanayoḥ ekādeśaḥ dvivacanasya ādivat bhavati yathā śakyeta kartum īdūdet dvivacanam pragṛhyam iti . kva tarhi syāt . yatra ekādeśaḥ na bhavati . trapuṇī iti , jatunī iti . suptiṅābvidhiṣu . suptiṅābvidhiṣu prayojanam . sup . vṛkṣe tiṣṭhati . plakṣe tiṣṭhati . subasupoḥ ekādeśaḥ supaḥ ādivat bhavati yathā śakyeta kartum subantam padam iti . kva tarhi syāt . yatra ekādeśaḥ na bhavati . vṛkṣaḥ tiṣṭhati . plakṣaḥ tiṣthati . sup . tiṅ . pace, yaje iti . tiṅatiṅoḥ ekādeśaḥ tiṅaḥ ādivat bhavati yathā śakyeta kartum tiṅantam padam iti . kva tarhi syāt . yatra ekādeśaḥ na bhavati . pacati , yajati . tiṅ . āp . khaṭvā , mālā . abanāpoḥ ekādeśaḥ āpaḥ ādivat bhavati yathā śakyeta kartum ābantāt soḥ lopaḥ bhavati iti . kva tarhi syāt . yatra ekādeśaḥ na bhavati . kruñcā , uṣṇihā , devadiśā . āṅgrahaṇe padavidhau . āṅgrahaṇe padavidhau prayojanam . adya āhate . kadā āhate . āṅanāṅoḥ ekādeśaḥ āṅaḥ ādivat bhavati yathā śakyeta kartum āṅaḥ yamahanaḥ iti ātmanepadam bhavati iti . kva tarhi syāt . yatra ekādeśaḥ na bhavati . āhate . āṭaḥ ca vṛddhividhau . āṭaḥ ca vṛddhividhau prayojanam . adya aihiṣṭa . kadā aihiṣṭa . āṭaḥ adyaśabdasya ca ekādeśaḥ āṭaḥ ādivat bhavati yathā śakyeta kartum āṭaḥ ca aci vṛddhiḥ bhavati iti . kva tarhi syāt . yatra ekādeśaḥ na . aihiṣṭa , aikṣiṣṭa . kṛdantaprātipadikatve ca . kṛdantaprātipadikatve ca prayojanam . dhārayaḥ , pārayaḥ . kṛdakṛtoḥ ekādeśaḥ kṛtaḥ ādivat bhavati yathā śakyeta kartum kṛdantam prātipadikam iti . kva tarhi syāt . yatra ekādeśaḥ na . kārakaḥ , hārakaḥ .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.