Library·Patanjali: Vyakaranamahabhasya·6·6.1·6.1.86

Patanjali: Vyakaranamahabhasya 6.1.86

क्अ इइइ।६५।८-६६।७ रो इव्।४१४-४१५ किमर्थम् इदम् उच्यते । षत्वतुकोः असिद्धवचनम् आदेशलक्षणप्रतिषेधाऋथम् उत्सर्गलक्षणभावार्थम् च । षत्वतुकोः असिद्धत्वम् उच्यते आदेशलक्षणप्रतिषेधाऋथम् उत्सर्गलक्षणभावार्थम् च । आदेशलक्षणप्रतिषेधाऋथम् तावत् । कोसिञ्चत् । योसिञ्चत् । एकादेशे कृते इणः इति षत्वम् प्राप्नोति । असिद्धत्वात् न भवति । उत्सर्गलक्षणभावार्थम् च । अधीत्य , प्रेत्य । एकादेशे कृते ह्रस्वस्य इति तुक् न प्राप्नोति । असिद्धत्वात् भवति । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । तत्र उत्सर्गलक्षणाप्रसिद्धिः उत्सर्गाभावात् । तत्र उत्सर्गलक्षणस्य कार्यस्य अप्रसिद्धिः । अधीत्य , प्रेत्य इति । किम् कारणम् । उत्सर्गाभावात् । ह्रस्वस्य इति उच्यते न च अत्र ह्रस्वम् पश्यामः । ननु च अत्र अपि असिद्धवचनात् सिद्धम् । असिद्धवचनात् सिद्धम् इति चेत् न अन्यस्य असिद्धवचनात् अन्यस्य भावः । असिद्धवचनात् सिद्धम् इति चेत् तत् न । किम् कारणम् । अन्यस्य असिद्धवचनात् अन्यस्य भावः । न हि अन्यस्य असिद्धवचनात् अन्यस्य प्रादुर्भावः भवति । न हि देवदत्तस्य हन्तरि हते देवदत्तस्य प्रादुर्भावः भवति । तस्मात् स्थानिवद्वचनम् असिद्धत्वम् च । तस्मात् स्थानिवद्भावः वक्तव्यः असिद्धत्वम् च । अधीत्य , प्रेत्य इति स्थानिवद्भावः । कोसिञ्चत् , योसिञ्चत् इति अत्र असिद्धत्वम् । स्थानिवद्वचनानर्थक्यम् शास्त्रासिद्धत्वात् । स्थानिवद्वचनम् अनर्थकम् । किम् कारणम् । शास्त्रासिद्धत्वात् । न अनेन कार्यासिद्धत्वम् क्रियते । किम् तर्हि । शास्त्रासिद्धत्वम् अनेन क्रियते । एकादेशशास्त्रम् तुक्शास्त्रे असिद्धम् भवति इति ।

KA III.65.8-66.7 Ro IV.414-415 kimartham idam ucyate . ṣatvatukoḥ asiddhavacanam ādeśalakṣaṇapratiṣedhāṛtham utsargalakṣaṇabhāvārtham ca . ṣatvatukoḥ asiddhatvam ucyate ādeśalakṣaṇapratiṣedhāṛtham utsargalakṣaṇabhāvārtham ca . ādeśalakṣaṇapratiṣedhāṛtham tāvat . kosiñcat . yosiñcat . ekādeśe kṛte iṇaḥ iti ṣatvam prāpnoti . asiddhatvāt na bhavati . utsargalakṣaṇabhāvārtham ca . adhītya , pretya . ekādeśe kṛte hrasvasya iti tuk na prāpnoti . asiddhatvāt bhavati . asti prayojanam etat . kim tarhi iti . tatra utsargalakṣaṇāprasiddhiḥ utsargābhāvāt . tatra utsargalakṣaṇasya kāryasya aprasiddhiḥ . adhītya , pretya iti . kim kāraṇam . utsargābhāvāt . hrasvasya iti ucyate na ca atra hrasvam paśyāmaḥ . nanu ca atra api asiddhavacanāt siddham . asiddhavacanāt siddham iti cet na anyasya asiddhavacanāt anyasya bhāvaḥ . asiddhavacanāt siddham iti cet tat na . kim kāraṇam . anyasya asiddhavacanāt anyasya bhāvaḥ . na hi anyasya asiddhavacanāt anyasya prādurbhāvaḥ bhavati . na hi devadattasya hantari hate devadattasya prādurbhāvaḥ bhavati . tasmāt sthānivadvacanam asiddhatvam ca . tasmāt sthānivadbhāvaḥ vaktavyaḥ asiddhatvam ca . adhītya , pretya iti sthānivadbhāvaḥ . kosiñcat , yosiñcat iti atra asiddhatvam . sthānivadvacanānarthakyam śāstrāsiddhatvāt . sthānivadvacanam anarthakam . kim kāraṇam . śāstrāsiddhatvāt . na anena kāryāsiddhatvam kriyate . kim tarhi . śāstrāsiddhatvam anena kriyate . ekādeśaśāstram tukśāstre asiddham bhavati iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।६६।८-२३ रो इव्।४१६-४१८ सम्प्रसारणङीट्सु सिद्धः । सम्प्रसारणङीट्सु सिद्धः एकादेशः इति वक्तव्यम् । शकहूषु , परिवीषु । सम्प्रसारण । ङि । वृक्षे च्छत्रम् , वृक्षे छत्रम् । ङि । इट् । अपचे च्छत्रम् , अपचे छत्रम् । सम्प्रसारणङीट्सु सिद्धः पदान्तपदाद्योः एकादेशस्य असिद्धवचनात् । सम्प्रसारणङीट्सु सिद्धः एकादेशः । कुतः । पदान्तपदाद्योः एकादेशस्य असिद्धवचनात् । पदान्तपदाद्योः एकादेशः असिद्धः भवति इति उच्यते न च एषः पदान्तपदाद्योः एकादेशः । यदि पदान्तपदाद्योः एकादेशः असिद्धः सुसस्याः ओषधीः कृधि , सुपिप्पलाः ओषधीः कृधि , अत्र षत्वम् प्राप्नोति । तुग्विधिम् प्रति पदान्तपदाद्योः एकादेशः असिद्धः । षत्वम् प्रति एकादेशमात्रम् असिद्धम् भवति । यदि षत्वम् प्रति एकादेशमात्रम् असिद्धम् शकहूषु , परिवीषु , अत्र षत्वम् न प्राप्नोति । अस्तु तर्हि अविशेषेण । कथम् सुसस्याः ओषधीः कृधि , सुपिप्पलाः ओषधीः कृधि इति । न एषः दोषः । भ्रातुष्पुत्रग्रहणम् ज्ञापकम् एकादेशनिमित्तात् षत्वप्रतिषेधस्य । यत् अयम् कस्कादिषु भ्रातुष्पुत्रग्रहणम् करोति तत् ज्ञापयति आचार्यः न एकादेशनिमित्तात् षत्वम् भवति इति । यदि एतत् ज्ञाप्यते शकहूषु , परिवीषु इति अत्र षत्वम् न प्राप्नोति । तुल्यजातीयकस्य ज्ञापकम् । किम् च तुल्ज्यजातीयम् । यः कुप्वोः । यदि एवम् वेञः अप्रत्यये परतः उः इति प्राप्नोति उत् इति च इष्यते । यथालक्षणम् अप्रयुक्ते । अथ वा न एवम् विज्ञायते । पूर्वस्य च पदादेः परस्य च पदान्तस्य इति । कथम् तर्हि । परस्य च पदादेः पूर्वस्य च पदान्तस्य इति ।

KA III.66.8-23 Ro IV.416-418 samprasāraṇaṅīṭsu siddhaḥ . samprasāraṇaṅīṭsu siddhaḥ ekādeśaḥ iti vaktavyam . śakahūṣu , parivīṣu . samprasāraṇa . ṅi . vṛkṣe cchatram , vṛkṣe chatram . ṅi . iṭ . apace cchatram , apace chatram . samprasāraṇaṅīṭsu siddhaḥ padāntapadādyoḥ ekādeśasya asiddhavacanāt . samprasāraṇaṅīṭsu siddhaḥ ekādeśaḥ . kutaḥ . padāntapadādyoḥ ekādeśasya asiddhavacanāt . padāntapadādyoḥ ekādeśaḥ asiddhaḥ bhavati iti ucyate na ca eṣaḥ padāntapadādyoḥ ekādeśaḥ . yadi padāntapadādyoḥ ekādeśaḥ asiddhaḥ susasyāḥ oṣadhīḥ kṛdhi , supippalāḥ oṣadhīḥ kṛdhi , atra ṣatvam prāpnoti . tugvidhim prati padāntapadādyoḥ ekādeśaḥ asiddhaḥ . ṣatvam prati ekādeśamātram asiddham bhavati . yadi ṣatvam prati ekādeśamātram asiddham śakahūṣu , parivīṣu , atra ṣatvam na prāpnoti . astu tarhi aviśeṣeṇa . katham susasyāḥ oṣadhīḥ kṛdhi , supippalāḥ oṣadhīḥ kṛdhi iti . na eṣaḥ doṣaḥ . bhrātuṣputragrahaṇam jñāpakam ekādeśanimittāt ṣatvapratiṣedhasya . yat ayam kaskādiṣu bhrātuṣputragrahaṇam karoti tat jñāpayati ācāryaḥ na ekādeśanimittāt ṣatvam bhavati iti . yadi etat jñāpyate śakahūṣu , parivīṣu iti atra ṣatvam na prāpnoti . tulyajātīyakasya jñāpakam . kim ca tuljyajātīyam . yaḥ kupvoḥ . yadi evam veñaḥ apratyaye parataḥ uḥ iti prāpnoti ut iti ca iṣyate . yathālakṣaṇam aprayukte . atha vā na evam vijñāyate . pūrvasya ca padādeḥ parasya ca padāntasya iti . katham tarhi . parasya ca padādeḥ pūrvasya ca padāntasya iti .

Sanskrit only: no published translation is held for this verse.