Library·Patanjali: Vyakaranamahabhasya·6·6.1·6.1.89

Patanjali: Vyakaranamahabhasya 6.1.89

क्अ इइइ।६८।१६-६९।६ रो इव्।४२१-४२२ किम् इदम् एत्येधत्योः रूपग्रहणम् आहोस्वित् धातुग्रहणम् । किम् च अतः । यदि रूपग्रहणम् सिद्धम् उपैति , प्रैति । उपैषि , प्रैषि इति न सिध्यति । अथ धातुग्रहणम् सिद्धम् एतत् भवति । किम् तर्हि इति । इणि इकारादौ वृद्धिप्रतिषेधः । इणि इकारादौ वृद्धेः प्रतिषेधः वक्तव्यः । उपेतः प्रेतः इति । योगविभागात् सिद्धम् । योगविभागः करिष्यते । वृद्धिः एचि । ततः एत्येधत्योः । एत्येधत्योः च एचि वृद्धिः भवति । तत ऊठि । ऊठि च वृद्धिः भवति । एवम् अपि आ इतः एतः । उपेतः , प्रेतः इति अत्र अपि प्राप्नोति । आङि पररऊपम् अत्र बाधकम् भविष्यति । न अप्राप्ते पररूपम् इयम् वृद्धिः आरभ्यते । सा यथा एङि पररूपम् बाधते एवम् आङि पररूपम् बाधेत । न बाधते । किम् कारणम् । येन न अप्राप्ते तस्य बाधनम् भवति । न च अप्राप्ते एङि पररूपम् इयम् वृद्धिः आरभ्यते । आङि पररूपे पुनः प्राप्ते च अप्राप्ते च । अथवा पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति इयम् वृद्धिः एङि पररूपम् बाधिष्यते न आङि पररूपम् ।

KA III.68.16-69.6 Ro IV.421-422 kim idam etyedhatyoḥ rūpagrahaṇam āhosvit dhātugrahaṇam . kim ca ataḥ . yadi rūpagrahaṇam siddham upaiti , praiti . upaiṣi , praiṣi iti na sidhyati . atha dhātugrahaṇam siddham etat bhavati . kim tarhi iti . iṇi ikārādau vṛddhipratiṣedhaḥ . iṇi ikārādau vṛddheḥ pratiṣedhaḥ vaktavyaḥ . upetaḥ pretaḥ iti . yogavibhāgāt siddham . yogavibhāgaḥ kariṣyate . vṛddhiḥ eci . tataḥ etyedhatyoḥ . etyedhatyoḥ ca eci vṛddhiḥ bhavati . tata ūṭhi . ūṭhi ca vṛddhiḥ bhavati . evam api ā itaḥ etaḥ . upetaḥ , pretaḥ iti atra api prāpnoti . āṅi pararaūpam atra bādhakam bhaviṣyati . na aprāpte pararūpam iyam vṛddhiḥ ārabhyate . sā yathā eṅi pararūpam bādhate evam āṅi pararūpam bādheta . na bādhate . kim kāraṇam . yena na aprāpte tasya bādhanam bhavati . na ca aprāpte eṅi pararūpam iyam vṛddhiḥ ārabhyate . āṅi pararūpe punaḥ prāpte ca aprāpte ca . athavā purastāt apavādāḥ anantarān vidhīn bādhante iti iyam vṛddhiḥ eṅi pararūpam bādhiṣyate na āṅi pararūpam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।६९।७-२१ रो इव्।४२२-४२३ अक्षात् ऊहिन्याम् । अक्षात् ऊहिन्याम् वृद्धिः वक्तव्या । अक्षौहिणी । प्रात् ऊहोढोढ्येषैष्येषु । प्रात् ऊह, ऊढ, ऊढि, एष, एष्य इति एतेषु वृद्धिः वक्तव्या । प्रौहः , प्रौढः , प्रुढिः , प्रैषः , प्रैष्यः । स्वात् ईरेरिणोः । स्वात् ईर , ईरिन् इति एतयोः वृद्धिः वक्तव्या । स्वैरः , स्वैरी । ईरिन्ग्रहणम् शक्यम् अकर्तुम् । कथम् स्वरी इति । इनिना एतत् मत्वर्थीयेन सिद्धम् । स्वैरः अस्य अस्ति इति स्वैरी । ऋते च तृतीयासमासे । ऋते च तृतीयासमासे वृद्धिः वक्तव्या । सुखार्तः , दुःखार्तः । ऋते इति किम् । सुखेतः , दुःखेतः । तृतीयाग्रहणम् किम् । परमर्तः । समासे इति किम् । सुखेनर्तः । प्रवत्सतरकम्बल्वसनानाम् च ऋणे । प्रवत्सतरकम्बल्वसनानाम् च ऋणे वृद्धिः वक्तव्या । प्रार्णम् , वत्सतराणम् , वसनार्णम् । ऋणदशाभ्याम् च ।ऋणदशाभ्याम् च वृद्धिः वक्तव्या । ऋणार्णम् , दशार्णम् ।

KA III.69.7-21 Ro IV.422-423 akṣāt ūhinyām . akṣāt ūhinyām vṛddhiḥ vaktavyā . akṣauhiṇī . prāt ūhoḍhoḍhyeṣaiṣyeṣu . prāt ūha, ūḍha, ūḍhi, eṣa, eṣya iti eteṣu vṛddhiḥ vaktavyā . prauhaḥ , prauḍhaḥ , pruḍhiḥ , praiṣaḥ , praiṣyaḥ . svāt īreriṇoḥ . svāt īra , īrin iti etayoḥ vṛddhiḥ vaktavyā . svairaḥ , svairī . īringrahaṇam śakyam akartum . katham svarī iti . ininā etat matvarthīyena siddham . svairaḥ asya asti iti svairī . ṛte ca tṛtīyāsamāse . ṛte ca tṛtīyāsamāse vṛddhiḥ vaktavyā . sukhārtaḥ , duḥkhārtaḥ . ṛte iti kim . sukhetaḥ , duḥkhetaḥ . tṛtīyāgrahaṇam kim . paramartaḥ . samāse iti kim . sukhenartaḥ . pravatsatarakambalvasanānām ca ṛṇe . pravatsatarakambalvasanānām ca ṛṇe vṛddhiḥ vaktavyā . prārṇam , vatsatarāṇam , vasanārṇam . ṛṇadaśābhyām ca .ṛṇadaśābhyām ca vṛddhiḥ vaktavyā . ṛṇārṇam , daśārṇam .

Sanskrit only: no published translation is held for this verse.