क्अ इइइ।१२८।१६-१२९।२ रो इव्।५५५-५५६ कृद्ग्रहणम् किमर्थम् । यथा तकारादिग्रह्णम् कृद्विशेषणम् विज्ञायेत । तकारादौ निति कृति इति । अथ अक्रियमाणे कृद्ग्रहणे कस्य तकारादिग्रह्णम् विशेषणम् स्यात् । उत्तरपदविशेषणम् । तत्र कः दोषः । इह एव स्यात् प्रतरिता प्रतरितुम् । इह न स्यात् प्रकर्ता प्रकर्तुम् । तादौ निति कृद्ग्रहणानर्थक्यम् । तादौ निति कृद्ग्रहणम् अनर्थकम् । क्रियमाणे अपि कृद्ग्रहणे अनिष्टम् शक्यम् विज्ञातुम् । तकारादौ उत्तरपदे निति कृति इति । अक्रियमाणे च इष्टम् । नित् यः तकारादिः तदन्ते उत्तरपदे इति । यावता क्रियमाणे अपि अनिष्टम् विज्ञायते अक्रियमाणे च इष्टम् अक्रियमाणे एव इष्टम् विज्ञास्यामः । कृदुपदेशे वा ताद्यर्थम् इडर्थम् ।कृदुपदेशे तर्हि ताद्यर्थम् इडर्थम् कृद्ग्रहणम् कर्तव्यम् । कृदुपदेशे यः तकारादिः इति एवम् यथा विज्ञायेत । किम् प्रयोजनम् । इडर्थम् । इडादौ अपि सिद्धम् भवति । प्रलविता प्रलवितुम् ।
KA III.128.16-129.2 Ro IV.555-556 kṛdgrahaṇam kimartham . yathā takārādigrahṇam kṛdviśeṣaṇam vijñāyeta . takārādau niti kṛti iti . atha akriyamāṇe kṛdgrahaṇe kasya takārādigrahṇam viśeṣaṇam syāt . uttarapadaviśeṣaṇam . tatra kaḥ doṣaḥ . iha eva syāt prataritā prataritum . iha na syāt prakartā prakartum . tādau niti kṛdgrahaṇānarthakyam . tādau niti kṛdgrahaṇam anarthakam . kriyamāṇe api kṛdgrahaṇe aniṣṭam śakyam vijñātum . takārādau uttarapade niti kṛti iti . akriyamāṇe ca iṣṭam . nit yaḥ takārādiḥ tadante uttarapade iti . yāvatā kriyamāṇe api aniṣṭam vijñāyate akriyamāṇe ca iṣṭam akriyamāṇe eva iṣṭam vijñāsyāmaḥ . kṛdupadeśe vā tādyartham iḍartham .kṛdupadeśe tarhi tādyartham iḍartham kṛdgrahaṇam kartavyam . kṛdupadeśe yaḥ takārādiḥ iti evam yathā vijñāyeta . kim prayojanam . iḍartham . iḍādau api siddham bhavati . pralavitā pralavitum .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.