क्अ इइइ,२४६।६-१९ रो व्,२१।२-१५ अशः एकादिष्टात् स्मायादीनाम् उपसङ्ख्यानम् अशः एकादिष्टात् स्मायादीनाम् उपसङ्ख्यानम् कर्तव्यम् । अथ उ अत्र अस्मै । अथ उ अत्र अस्मात् । अथ उ अत्र अस्मिन् इति । एकादेशे कृते अतः इति स्मायादयः न प्राप्नुवन्ति । किम् पुनः कारणम् एकादेशः तावत् भवति न पुनः स्मायादयः । न परत्वात् स्मायादिभिः भवितव्यम् । न भवितव्यम् । किम् कारणम् । नित्यत्वात् एकादेशः । नित्यः एकादेशः । कृतेषु अपि स्मायादिषु प्राप्नोति अकृतेषु अपि । नित्यत्वात् एकादेशे कृते अतः इति स्मायादयः न प्राप्नुवन्ति । किम् उच्यते अशः इति न इह अपि कर्तव्यम् । अत्र अस्मै । अत्र अस्मात् । अत्र अस्मिन् इति । एकादेशे कृते अतः इति स्मायादयः न प्राप्नुवन्ति । आनुपूर्व्या सिद्धम् एतत् । न अत्र अकृतेषु स्मायादिषु हलादिः विभक्तिः अस्ति हलादौ चेत् रूपलोपः न च अकृतए इद्रूपलोपे एकादेशः प्राप्नोति । तत् आनुपूर्या सिद्धम् । तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् । न वा बहिरङ्गलक्षणत्वात् । न वा कर्तव्यम् । किम् कारणम् । बहिरङ्गलक्षणत्वात् । बहिरङ्गलक्षणः एकादेशः । अन्तरङ्गाः स्मायादयः । असिद्धम् बहिरङ्गम् अन्तरङ्गे ।
KA III,246.6-19 Ro V,21.2-15 aśaḥ ekādiṣṭāt smāyādīnām upasaṅkhyānam aśaḥ ekādiṣṭāt smāyādīnām upasaṅkhyānam kartavyam . atha u atra asmai . atha u atra asmāt . atha u atra asmin iti . ekādeśe kṛte ataḥ iti smāyādayaḥ na prāpnuvanti . kim punaḥ kāraṇam ekādeśaḥ tāvat bhavati na punaḥ smāyādayaḥ . na paratvāt smāyādibhiḥ bhavitavyam . na bhavitavyam . kim kāraṇam . nityatvāt ekādeśaḥ . nityaḥ ekādeśaḥ . kṛteṣu api smāyādiṣu prāpnoti akṛteṣu api . nityatvāt ekādeśe kṛte ataḥ iti smāyādayaḥ na prāpnuvanti . kim ucyate aśaḥ iti na iha api kartavyam . atra asmai . atra asmāt . atra asmin iti . ekādeśe kṛte ataḥ iti smāyādayaḥ na prāpnuvanti . ānupūrvyā siddham etat . na atra akṛteṣu smāyādiṣu halādiḥ vibhaktiḥ asti halādau cet rūpalopaḥ na ca akṛtae idrūpalope ekādeśaḥ prāpnoti . tat ānupūryā siddham . tat tarhi upasaṅkhyānam kartavyam . na vā bahiraṅgalakṣaṇatvāt . na vā kartavyam . kim kāraṇam . bahiraṅgalakṣaṇatvāt . bahiraṅgalakṣaṇaḥ ekādeśaḥ . antaraṅgāḥ smāyādayaḥ . asiddham bahiraṅgam antaraṅge .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.