क्अ इइइ,२४८।२०-२४९।१८ रो व्,२६।२-२८।६ स्वमोः लुक् त्यदादिभ्यः च स्वमोः लुक् त्यदादिभ्यः च इति वक्तव्यम् । इह अपि यथा स्यात् । तत् ब्राह्मणकुलम् इति । कृते हि अत्वे न लुक् भवेत् । अत्वे कृते लुक् न प्राप्नोति । इदम् इह सम्प्रधार्यम् : अत्वम् क्रियताम् लुक् इति किम् अत्र कर्तव्यम् । परत्वात् अत्वम् । नित्यः लुक् । कृते अपि अत्वे प्राप्नोति अकृते अपि । अनित्यः लुक् न हि कृते अत्वे प्राप्नोति । अतः अम् इति अम्भावेन भवितव्यम् । तस्मात् त्यदादिभ्यः च इति वक्तव्यम् । इदम् विचार्यते : शिशीलुग्नुम्विधिषु नपुंसकग्रहणम् शब्दग्रहणम् वा स्यात् अर्थग्रहणम् वा इति । कः च अत्र विशेषः । शिशीलुग्नुम्विधिषु नपुंसकग्रहणम् शब्दग्रहणम् चेत् अन्यपदार्थे प्रतिषेधः । शिशीलुग्नुम्विधिषु नपुंसकग्रहणम् शब्दग्रहणम् चेत् अन्यपदार्थे प्रतिषेधः वक्तव्यः । बहुत्रपुः बहुत्रपू बहुत्रपवः इति । अस्तु तर्हि अर्थग्रहणम् । यदि अर्थग्रहणम् प्रियसक्थ्ना ब्राह्मणेन इति अनङ् न प्राप्नोति । अस्तु तर्हि शब्दग्रहणम् एव । ननु च उक्तम् शिशीलुग्नुम्बिधिषु नपुंसकग्रहणम् चेत् अन्यपदार्थे प्रतिषेधः इति । सिद्धम् तु प्रकृतार्थविशेषणत्वात् । सिद्धम् एतत् । कथम् । प्रकृतस्य अर्थः विशेष्यते । किम् च प्रकृतम् । अङ्गम् । अङ्गस्य शिशीलुग्नुमः भवन्ति नपुंसके वर्तमानस्य । कथम् प्रियसक्थ्ना ब्राह्मणेन । अस्थ्यादिषु शब्दग्रहणम् । अस्थ्यादिषु नपुंसकग्रहणम् शब्दग्रहणम् द्रष्टव्यम् । युक्तम् पुनः इदम् विचारयितुम् । ननु अनेन असन्दिग्धेन अर्थग्रहणेन भवितव्यम् न हि नपुंसकम् नाम शब्दः अस्ति । किम् तर्हि उच्यते अस्थ्यादिषु शब्दग्रहणम् इति । अत्र अपि अर्थग्रहणम् एव । अत्र एतावान् सन्देहः क्व प्रकृतस्य अर्थः विशेष्यते क्व गृह्यमाणस्य इति । शिशीलुग्नुम्विधिषु प्रकृतस्य अर्थः विशेष्यते अस्थ्यादिषु गृह्यमाणस्य ।
KA III,248.20-249.18 Ro V,26.2-28.6 svamoḥ luk tyadādibhyaḥ ca svamoḥ luk tyadādibhyaḥ ca iti vaktavyam . iha api yathā syāt . tat brāhmaṇakulam iti . kṛte hi atve na luk bhavet . atve kṛte luk na prāpnoti . idam iha sampradhāryam : atvam kriyatām luk iti kim atra kartavyam . paratvāt atvam . nityaḥ luk . kṛte api atve prāpnoti akṛte api . anityaḥ luk na hi kṛte atve prāpnoti . ataḥ am iti ambhāvena bhavitavyam . tasmāt tyadādibhyaḥ ca iti vaktavyam . idam vicāryate : śiśīlugnumvidhiṣu napuṃsakagrahaṇam śabdagrahaṇam vā syāt arthagrahaṇam vā iti . kaḥ ca atra viśeṣaḥ . śiśīlugnumvidhiṣu napuṃsakagrahaṇam śabdagrahaṇam cet anyapadārthe pratiṣedhaḥ . śiśīlugnumvidhiṣu napuṃsakagrahaṇam śabdagrahaṇam cet anyapadārthe pratiṣedhaḥ vaktavyaḥ . bahutrapuḥ bahutrapū bahutrapavaḥ iti . astu tarhi arthagrahaṇam . yadi arthagrahaṇam priyasakthnā brāhmaṇena iti anaṅ na prāpnoti . astu tarhi śabdagrahaṇam eva . nanu ca uktam śiśīlugnumbidhiṣu napuṃsakagrahaṇam cet anyapadārthe pratiṣedhaḥ iti . siddham tu prakṛtārthaviśeṣaṇatvāt . siddham etat . katham . prakṛtasya arthaḥ viśeṣyate . kim ca prakṛtam . aṅgam . aṅgasya śiśīlugnumaḥ bhavanti napuṃsake vartamānasya . katham priyasakthnā brāhmaṇena . asthyādiṣu śabdagrahaṇam . asthyādiṣu napuṃsakagrahaṇam śabdagrahaṇam draṣṭavyam . yuktam punaḥ idam vicārayitum . nanu anena asandigdhena arthagrahaṇena bhavitavyam na hi napuṃsakam nāma śabdaḥ asti . kim tarhi ucyate asthyādiṣu śabdagrahaṇam iti . atra api arthagrahaṇam eva . atra etāvān sandehaḥ kva prakṛtasya arthaḥ viśeṣyate kva gṛhyamāṇasya iti . śiśīlugnumvidhiṣu prakṛtasya arthaḥ viśeṣyate asthyādiṣu gṛhyamāṇasya .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.