क्अ इइइ,२५०।७-२५०।१८ रो व्,२९।७-३०।८ इतरात् छन्दसि प्रतिषेधः एकतरात् सर्वत्र । इतरात् छन्दसि प्रतिषेधः एकतरात् सर्वत्र इति वक्तव्यम् । एकतरम् तिष्ठति , एकतरम् पश्य । नपुंसकादेशेभ्यः युष्मदस्मदोः विभक्त्यादेशाः विप्रतिषेधेन । नपुंसकादेशेभ्यः युष्मदस्मदोः विभक्त्यादेशाः भवन्ति विप्रतिषेधेन । नपुंसकादेशानाम् अवकाशः । त्रपु , त्रपुणी , त्रपूणि । युष्मदस्मदोः विभक्त्यादेशानाम् अवकाशः । त्वम् ब्राह्मणः , अहम् ब्राह्मणः , युवाम् ब्राह्मणौ , आवाम् ब्राह्मणौ , यूयाम् ब्राह्मणाः वयम् ब्राह्मणाः । इह उभयम् प्राप्नोति । त्वम् ब्राह्मणकुलम् , अहम् ब्राह्मणकुलम् , युवाम् ब्राह्मणकुले , आवाम् ब्राह्मणकुले , यूयम् ब्राह्मणकुलानि , वयम् ब्राह्मणकुलानि । युष्मदस्मदोः विभक्त्यादेशाः भवन्ति विप्रतिषेधेन । अथ इदानीम् युष्मदस्मदोः विभक्त्यादेशेषु कृतेषु पुनःप्रसङ्गात् शिशीलुग्नुम्विधयः कस्मात् न भवन्ति । सकृद्गतौ विप्रतिषेधेन यत् बाधितम् तत् बाधितम् एव इति ।
KA III,250.7-250.18 Ro V,29.7-30.8 itarāt chandasi pratiṣedhaḥ ekatarāt sarvatra . itarāt chandasi pratiṣedhaḥ ekatarāt sarvatra iti vaktavyam . ekataram tiṣṭhati , ekataram paśya . napuṃsakādeśebhyaḥ yuṣmadasmadoḥ vibhaktyādeśāḥ vipratiṣedhena . napuṃsakādeśebhyaḥ yuṣmadasmadoḥ vibhaktyādeśāḥ bhavanti vipratiṣedhena . napuṃsakādeśānām avakāśaḥ . trapu , trapuṇī , trapūṇi . yuṣmadasmadoḥ vibhaktyādeśānām avakāśaḥ . tvam brāhmaṇaḥ , aham brāhmaṇaḥ , yuvām brāhmaṇau , āvām brāhmaṇau , yūyām brāhmaṇāḥ vayam brāhmaṇāḥ . iha ubhayam prāpnoti . tvam brāhmaṇakulam , aham brāhmaṇakulam , yuvām brāhmaṇakule , āvām brāhmaṇakule , yūyam brāhmaṇakulāni , vayam brāhmaṇakulāni . yuṣmadasmadoḥ vibhaktyādeśāḥ bhavanti vipratiṣedhena . atha idānīm yuṣmadasmadoḥ vibhaktyādeśeṣu kṛteṣu punaḥprasaṅgāt śiśīlugnumvidhayaḥ kasmāt na bhavanti . sakṛdgatau vipratiṣedhena yat bādhitam tat bādhitam eva iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.