क्अ इइइ,२६१।१९-२६२।३ रो व्,५७।२-५८।६ शे तृम्पादीनाम् । शे तृम्पादीनाम् उपसङ्ख्यानम् कर्तव्यम् । तृम्पति , तृम्फति । किमर्थम् इदम् । न नुमनुषक्ताः एव एते पठ्यन्ते । लुप्तनकारत्वात् । लुप्यते अत्र नकारः अनिदिताम् हलः उपधायाः क्ङिति इति । यदि पुनः इमे इदितः पठ्येरन् । न एवम् शक्यम् । इह हि लोपः न स्यात् । तृपितः , दृपितः इति । यदि पुनः इमे मुचादिषु पठ्येरन् । न दोषः स्यात् । अथ वा न एवम् विज्ञायते इदितः नुम् धातोः इति । कथम् तर्हि । इदितः नुम् । ततः धातोः इति ।
KA III,261.19-262.3 Ro V,57.2-58.6 śe tṛmpādīnām . śe tṛmpādīnām upasaṅkhyānam kartavyam . tṛmpati , tṛmphati . kimartham idam . na numanuṣaktāḥ eva ete paṭhyante . luptanakāratvāt . lupyate atra nakāraḥ aniditām halaḥ upadhāyāḥ kṅiti iti . yadi punaḥ ime iditaḥ paṭhyeran . na evam śakyam . iha hi lopaḥ na syāt . tṛpitaḥ , dṛpitaḥ iti . yadi punaḥ ime mucādiṣu paṭhyeran . na doṣaḥ syāt . atha vā na evam vijñāyate iditaḥ num dhātoḥ iti . katham tarhi . iditaḥ num . tataḥ dhātoḥ iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.