क्अ इइइ,२६५।१८-२६७।१२ रो व्,६६-६९ अज्ग्रहणम् किमर्थम् । इकः अचि व्यञ्जने मा भूत् । इकः अचि इति उच्यते व्यञ्जनादौ मा भूत् । त्रपुभ्याम् , त्रपुभिः । अस्तु लोपः । अस्तु अत्र नुम् । नलोपः प्रातिपदिकान्तस्य इति नलोपः भविष्यति । स्वरः कथम् पञ्चत्रपुभ्याम् , पञ्चत्रपुभ्यः । इगन्ते द्विगौ इति एषः स्वरः न प्राप्नोति । स्वरः वै श्रूयमाणे अपि । श्रूयमाणे अपि नुमि स्वरः भवति । पञ्चत्रपुणा , पञ्चत्रपुणः इति । लुप्ते किम् न भविष्यति । लुप्ते इदानीम् किम् न भविष्यति । किम् पुनः कारणम् श्रूयमाने अपि नुमि स्वरः भवति । सङ्घातभक्तः असौ न उत्सहते अवयवस्य इगन्तताम् विहन्तुम् इति कृत्वा ततः श्रूयमाणे अपि नुमि स्वरः भवति । इदम् तर्हि । अतिराभ्याम् , अतिराभिः । नुमि कृते रायः हलि इति आत्वम् न प्राप्नोति । इदम् इह सम्प्रधार्यम् । नुम् क्रियताम् आत्वम् इति किम् अत्र कर्तव्यम् । परत्वात् आत्वम् । इह तर्हि प्रियतिसृभ्याम् प्रियतिसृभिः नुमि कृते तिसृभावः न प्राप्नोति । इदम् इह सम्प्रधार्यम् । नुम् क्रियताम् तिसृभावः इति किम् अत्र कर्तव्यम् । परत्वात् तिसृभावः । अथ इदानीम् तिसृभावे कृते पुनःप्रसङ्गात् नुम् कस्मात् न भवति । सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति । अतः उत्तरम् पठति । इकः अचि विभक्तौ अज्ग्रहणम् नुम्नुटोः विप्रतिषेधार्थम् । इकः अचि विभक्तौ अज्ग्रहणम् क्रियते नुमः नुट् विप्रतिषेधेन यथा स्यात् । त्रपूणाम् , जतूनाम् । अक्रियमाणे हि अज्ग्रहणे नित्यनिमित्तः नुम् । कृते अपि नुटि प्राप्नोति अकृते अपि । नित्यनिमित्तत्वात् नुमि कृते नुटः अभावः स्यात् । एतत् अपि न अस्ति प्रयोजनम् । क्रियमाणे अपि वा अज्ग्रहणे अवश्यम् अत्र नुडर्थः यत्नः कर्तव्यः । पूर्वविप्रतिषेधः वक्तव्यः । इदम् तर्हि प्रयोजनम् नुटि कृते नुम् मा भूत् इति । किम् च स्यात् । त्रपूणाम् , जतूनाम् । इतरथा हि नुमः नित्यनिमित्तत्वात् नुडभावः । नामि इति दीर्घत्वम् न स्यात् । मा भूत् एवम् । नोपधायाः इति एवम् भविष्यति । इह तर्हि शुचीनाम् इन्हन्पूषार्यम्णाम् शौ सौ च इति अस्मात् नियमात् न प्राप्नोति दीर्घत्वम् । अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् न भविष्यति । न एषा परिभाषा इह शक्या विज्ञातुम् । इह हि दोषः स्यात् । वाग्मि इति । एवम् तर्हि लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति । उत्तरार्थम् च । उत्तरार्थम् तर्हि अज्ग्रहणम् कर्तव्यम् । अस्थिदधिसक्थ्यक्ष्णाम् अनङ् उदात्तः अजादौ यथा स्यात् । इह मा भूत् । अस्थिभ्याम् , अस्थिभिः इति । यदि उत्तरार्थम् स्यात् तत्र एव अयम् अज्ग्रहणम् कुर्वीत । इह क्रियमाणे यदि किम् चित् प्रयोजनम् अस्ति तत् उच्यताम् । इह अपि क्रियमाणे प्रयोजनम् अस्ति । किम् । अजादौ यथा स्यात् । इह मा भूत् । त्रपु , जतु । एतत् अपि न अस्ति प्रयोजनम् । विभक्तौ इति उच्यते न च अत्र विभक्तिम् पश्यामः । प्रत्ययलक्षणेन । न लुमता अङ्गस्य इति प्रत्ययलक्षणस्य प्रतिषेधः । एवम् तर्हि सिद्धे सति यत् अज्ग्रहणम् करोति तत् ज्ञापयति आचार्यः भवति इह कः चित् अन्यः अपि प्रकारः प्रत्ययलक्षणम् नाम इति । किम् एतस्य ज्ञापने प्रयोजनम् । हे त्रपु , हे त्रपो । अत्र गुणः सिद्धः भवति इति । इकः अचि व्यञ्जने मा भूत् अस्तु लोपः स्वरः कथम् । स्वरः वै श्रूयमाणे अपि लुप्ते किम् न भविष्यति । रायात्वम् तिसृभावः च व्यवधानात् नुमा अपि नुट् वाच्यः उत्तरार्थम् तु इह किम् चित् त्रपः इति ।
KA III,265.18-267.12 Ro V,66-69 ajgrahaṇam kimartham . ikaḥ aci vyañjane mā bhūt . ikaḥ aci iti ucyate vyañjanādau mā bhūt . trapubhyām , trapubhiḥ . astu lopaḥ . astu atra num . nalopaḥ prātipadikāntasya iti nalopaḥ bhaviṣyati . svaraḥ katham pañcatrapubhyām , pañcatrapubhyaḥ . igante dvigau iti eṣaḥ svaraḥ na prāpnoti . svaraḥ vai śrūyamāṇe api . śrūyamāṇe api numi svaraḥ bhavati . pañcatrapuṇā , pañcatrapuṇaḥ iti . lupte kim na bhaviṣyati . lupte idānīm kim na bhaviṣyati . kim punaḥ kāraṇam śrūyamāne api numi svaraḥ bhavati . saṅghātabhaktaḥ asau na utsahate avayavasya igantatām vihantum iti kṛtvā tataḥ śrūyamāṇe api numi svaraḥ bhavati . idam tarhi . atirābhyām , atirābhiḥ . numi kṛte rāyaḥ hali iti ātvam na prāpnoti . idam iha sampradhāryam . num kriyatām ātvam iti kim atra kartavyam . paratvāt ātvam . iha tarhi priyatisṛbhyām priyatisṛbhiḥ numi kṛte tisṛbhāvaḥ na prāpnoti . idam iha sampradhāryam . num kriyatām tisṛbhāvaḥ iti kim atra kartavyam . paratvāt tisṛbhāvaḥ . atha idānīm tisṛbhāve kṛte punaḥprasaṅgāt num kasmāt na bhavati . sakṛdgatau vipratiṣedhe yat bādhitam tat bādhitam eva iti . ataḥ uttaram paṭhati . ikaḥ aci vibhaktau ajgrahaṇam numnuṭoḥ vipratiṣedhārtham . ikaḥ aci vibhaktau ajgrahaṇam kriyate numaḥ nuṭ vipratiṣedhena yathā syāt . trapūṇām , jatūnām . akriyamāṇe hi ajgrahaṇe nityanimittaḥ num . kṛte api nuṭi prāpnoti akṛte api . nityanimittatvāt numi kṛte nuṭaḥ abhāvaḥ syāt . etat api na asti prayojanam . kriyamāṇe api vā ajgrahaṇe avaśyam atra nuḍarthaḥ yatnaḥ kartavyaḥ . pūrvavipratiṣedhaḥ vaktavyaḥ . idam tarhi prayojanam nuṭi kṛte num mā bhūt iti . kim ca syāt . trapūṇām , jatūnām . itarathā hi numaḥ nityanimittatvāt nuḍabhāvaḥ . nāmi iti dīrghatvam na syāt . mā bhūt evam . nopadhāyāḥ iti evam bhaviṣyati . iha tarhi śucīnām inhanpūṣāryamṇām śau sau ca iti asmāt niyamāt na prāpnoti dīrghatvam . arthavadgrahaṇe na anarthakasya iti evam na bhaviṣyati . na eṣā paribhāṣā iha śakyā vijñātum . iha hi doṣaḥ syāt . vāgmi iti . evam tarhi lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti . uttarārtham ca . uttarārtham tarhi ajgrahaṇam kartavyam . asthidadhisakthyakṣṇām anaṅ udāttaḥ ajādau yathā syāt . iha mā bhūt . asthibhyām , asthibhiḥ iti . yadi uttarārtham syāt tatra eva ayam ajgrahaṇam kurvīta . iha kriyamāṇe yadi kim cit prayojanam asti tat ucyatām . iha api kriyamāṇe prayojanam asti . kim . ajādau yathā syāt . iha mā bhūt . trapu , jatu . etat api na asti prayojanam . vibhaktau iti ucyate na ca atra vibhaktim paśyāmaḥ . pratyayalakṣaṇena . na lumatā aṅgasya iti pratyayalakṣaṇasya pratiṣedhaḥ . evam tarhi siddhe sati yat ajgrahaṇam karoti tat jñāpayati ācāryaḥ bhavati iha kaḥ cit anyaḥ api prakāraḥ pratyayalakṣaṇam nāma iti . kim etasya jñāpane prayojanam . he trapu , he trapo . atra guṇaḥ siddhaḥ bhavati iti . ikaḥ aci vyañjane mā bhūt astu lopaḥ svaraḥ katham . svaraḥ vai śrūyamāṇe api lupte kim na bhaviṣyati . rāyātvam tisṛbhāvaḥ ca vyavadhānāt numā api nuṭ vācyaḥ uttarārtham tu iha kim cit trapaḥ iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.