क्अ इइइ,२६९।१०-१४ रो व्,७४।१०-७५।४ इह कस्मात् न भवति । अदती , घ्नती , लुनती , पुनती । लोपे कृते अवर्णाभावात् । किम् तर्हि अस्मिन् योगे उदाहरणम् । याती , यान्ती । अत्र अपि एकादेशे कृते व्यपवर्गाभावात् न प्राप्नोति । अन्तादिवद्भावेन व्यपवर्गः । उभयतः आश्रये न अन्तादिवत् । न उभयतः आश्रयः करिष्यते । न एवम् विज्ञायते अवर्णान्तात् शतुः नुम् भवति इति । कथम् तर्हि । अवर्णात् नुम् भवति तत् चेत् अवर्णम् शतुः अनन्तरम् इति ।
KA III,269.10-14 Ro V,74.10-75.4 iha kasmāt na bhavati . adatī , ghnatī , lunatī , punatī . lope kṛte avarṇābhāvāt . kim tarhi asmin yoge udāharaṇam . yātī , yāntī . atra api ekādeśe kṛte vyapavargābhāvāt na prāpnoti . antādivadbhāvena vyapavargaḥ . ubhayataḥ āśraye na antādivat . na ubhayataḥ āśrayaḥ kariṣyate . na evam vijñāyate avarṇāntāt śatuḥ num bhavati iti . katham tarhi . avarṇāt num bhavati tat cet avarṇam śatuḥ anantaram iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.