क्अ इइइ,२४४।१४-२१ रो व्,१८।२-९ इह वृक्षैः प्लक्षैः इति परत्वात् एत्त्वम् प्राप्नोति । ऐस्भावः इदानीम् क्व भविष्यति । कृते एत्त्वे भौतपूर्व्यात् । कृते एत्त्वे भूतपूर्वमकारान्तम् इति ऐस् भविष्यति । ऐस् तु नित्यः तथा सति । एवम् सति नित्यः ऐस्भावः कृते अपि एत्त्वे प्राप्नोति अकृते अपि प्राप्नोति । नित्यत्वात् ऐस्त्वे कृते विहतनिमित्तत्वात् एत्त्वम् न भविष्यति । एत्त्वम् भिसि परत्वात् चेत् अतः ऐस् क्व भविष्यति । कृते एत्त्वे भौतपूर्व्यात् ऐस् तु नित्यः तथा सति ।
KA III,244.14-21 Ro V,18.2-9 iha vṛkṣaiḥ plakṣaiḥ iti paratvāt ettvam prāpnoti . aisbhāvaḥ idānīm kva bhaviṣyati . kṛte ettve bhautapūrvyāt . kṛte ettve bhūtapūrvamakārāntam iti ais bhaviṣyati . ais tu nityaḥ tathā sati . evam sati nityaḥ aisbhāvaḥ kṛte api ettve prāpnoti akṛte api prāpnoti . nityatvāt aistve kṛte vihatanimittatvāt ettvam na bhaviṣyati . ettvam bhisi paratvāt cet ataḥ ais kva bhaviṣyati . kṛte ettve bhautapūrvyāt ais tu nityaḥ tathā sati .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.