क्अ इइइ,२४४।७-१२ रो व्,१७।११-१७ इदम् बहुलम् छन्दसि इति द्विः क्रियते । एकम् शक्यम् अकर्तुम् । कथम् । यदि तावत् पूर्वम् क्रियते परम् न करिष्यते । अतः भिसः ऐस् इति अत्र बहुलम् छन्दसि इति एतत् अनुवर्तिष्यते । अथ परम् क्रियते पूर्वम् न करिष्यते । बहुलम् छन्दसि इति अत्र रुट् अपि अनुवर्तिष्यते । अपरः आह : उभे बहुलग्रहणे एकम् छन्दोग्रहणम् शक्यम् अकर्तुम् । कथम् । इदम् अस्ति । वेत्तेः विभाषा । ततः छन्दसि । छन्दसि च विभाषा । ततः अतः भिसः ऐस् भवति । छन्दसि विभाषा इति ।
KA III,244.7-12 Ro V,17.11-17 idam bahulam chandasi iti dviḥ kriyate . ekam śakyam akartum . katham . yadi tāvat pūrvam kriyate param na kariṣyate . ataḥ bhisaḥ ais iti atra bahulam chandasi iti etat anuvartiṣyate . atha param kriyate pūrvam na kariṣyate . bahulam chandasi iti atra ruṭ api anuvartiṣyate . aparaḥ āha : ubhe bahulagrahaṇe ekam chandograhaṇam śakyam akartum . katham . idam asti . vetteḥ vibhāṣā . tataḥ chandasi . chandasi ca vibhāṣā . tataḥ ataḥ bhisaḥ ais bhavati . chandasi vibhāṣā iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.