क्अ इइइ,२८२।१५-२८३।४ रो व्,१०५-१०७ अथ कृद्ग्रहणम् किमर्थम् । इह मा भूत् । बिभिदिव , बिभिदिम इति । न एतत् अस्ति प्रयोजनम् । कृसृभृवृस्तुद्रुश्रुस्रुवः लिटि इति एतस्मात् नियमात् अत्र इट् भविष्यति । न अत्र तेन परिप्रापणम् प्राप्नोति । किम् कारणम् । प्रकृतिलक्षणस्य प्रतिषेधस्य सः प्रत्यारम्भः प्रत्ययलक्षणः च अयम् प्रतिषेधः । उभयोः सः प्रत्यारम्भः । कथम् ज्ञायते । वृङ्वृञोः ग्रहणात् । कथम् कृत्वा ज्ञापकम् । इमौ वृङ्वृञौ उदात्तौ तयोः प्रकृतिलक्षणः प्रत्ययलक्षणः च । ततः किम् । तुल्यजातीये असति यथा एव प्रकृतिलक्षणस्य नियामकः भवति एवम् प्रत्ययलक्षणस्य अपि नियामकः भविष्यति । इदम् तर्हि प्रयोजनम् । इह मा भूत् । रुदिवः , रुदिमः । एतत् अपि न अस्ति प्रयोजनम् । उपरिष्टात् योगविभागः करिष्यते । आर्धधातुकस्य । यत् एतत् अनुक्रान्तम् एतत् आर्धधातुकस्य द्रष्टव्यम् । ततः इट् वलादेः इति । तत्र एतावत् द्रष्टव्यम् यदि किम् चित् तत्र अन्यत् अपि आर्धधातुकग्रहणस्य प्रयोजनम् अस्ति । अथ न किम् चित् इह वा कृद्ग्रहणम् क्रियेत तत्र वा आर्धधातुकग्रहणम् कः नु अत्र विशेषः । न इट् वरम् अनादौ कृति । वरम् अनादौ कृति इट्प्रतिषेधम् प्रयोजयति । ईशिता , ईशितुम् , ईश्वरः । व । र । दीपिता , दीपितुम् , दीप्रः । र । म । भसिता , भसितुम् , भस्म । म । न । यतिता , यतितुम् , यत्नः । अथ अन्ये ये वशादयः तत्र कथम् । उणादयः अव्युत्पन्नानि प्रातिपदिकानि ।
KA III,282.15-283.4 Ro V,105-107 atha kṛdgrahaṇam kimartham . iha mā bhūt . bibhidiva , bibhidima iti . na etat asti prayojanam . kṛsṛbhṛvṛstudruśrusruvaḥ liṭi iti etasmāt niyamāt atra iṭ bhaviṣyati . na atra tena pariprāpaṇam prāpnoti . kim kāraṇam . prakṛtilakṣaṇasya pratiṣedhasya saḥ pratyārambhaḥ pratyayalakṣaṇaḥ ca ayam pratiṣedhaḥ . ubhayoḥ saḥ pratyārambhaḥ . katham jñāyate . vṛṅvṛñoḥ grahaṇāt . katham kṛtvā jñāpakam . imau vṛṅvṛñau udāttau tayoḥ prakṛtilakṣaṇaḥ pratyayalakṣaṇaḥ ca . tataḥ kim . tulyajātīye asati yathā eva prakṛtilakṣaṇasya niyāmakaḥ bhavati evam pratyayalakṣaṇasya api niyāmakaḥ bhaviṣyati . idam tarhi prayojanam . iha mā bhūt . rudivaḥ , rudimaḥ . etat api na asti prayojanam . upariṣṭāt yogavibhāgaḥ kariṣyate . ārdhadhātukasya . yat etat anukrāntam etat ārdhadhātukasya draṣṭavyam . tataḥ iṭ valādeḥ iti . tatra etāvat draṣṭavyam yadi kim cit tatra anyat api ārdhadhātukagrahaṇasya prayojanam asti . atha na kim cit iha vā kṛdgrahaṇam kriyeta tatra vā ārdhadhātukagrahaṇam kaḥ nu atra viśeṣaḥ . na iṭ varam anādau kṛti . varam anādau kṛti iṭpratiṣedham prayojayati . īśitā , īśitum , īśvaraḥ . va . ra . dīpitā , dīpitum , dīpraḥ . ra . ma . bhasitā , bhasitum , bhasma . ma . na . yatitā , yatitum , yatnaḥ . atha anye ye vaśādayaḥ tatra katham . uṇādayaḥ avyutpannāni prātipadikāni .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.