क्अ इइइ,३०४।२-१५ रो व्,१५७।२-१५९।३ अष्टन्जनादिपथिमथ्यात्वेषु आन्तरतम्यात् अनुनासिकप्रसङ्गः । अष्टन्जनादिपथिमथ्यात्वेषु आन्तरतम्यात् अनुनासिकः प्राप्नोति । अष्टाभिः , अष्टाभ्यः , जातः , जातवान् , पन्थाः , मन्थाः । सिद्धम् अनण्त्वात् । सिद्धम् एतत् । कथम् । अनण्त्वात् । कथम् अनण्त्वम् । अण्सवर्णान् गृह्णाति इति उच्यते न च अकारः अण् । उच्चारणसामर्थ्यात् वा । अथ वा शुद्धोच्चारणसामर्थ्यात् न भविष्यति । न एतौ स्तः परिहारौ । यत् तावत् उच्यते अनण्त्वात् इति न ब्रूमः अण्सवर्णान् गृह्णाति इति । कथम् तर्हि तपरः तत्कालस्य इति । यत् अपि उच्यते उच्चारणसामर्थ्यात् वा इति अस्ति अन्यत् उच्चारणे प्रयोजनम् । किम् । उत्तरार्थम् । रायः हलि इति । एवम् तर्हि न इमौ पृथक्परिहारौ । एकपरिहरः अयम् । सिद्धम् अनण्त्वात् उच्चारणसामर्थ्यात् वा इति । इह तावत् अष्टाभिः , अष्टाभ्यः इति अनण्त्वात् सिद्धम् । जातः , जातवान् , पन्थाः , मन्थाः उच्चारण्सामर्थ्यात् सिद्धम् । यदि एवम् पृथक्परिहारयोः अपि न दोषः । यः यत्र परिहारः सः तत्र भविष्यति ।
KA III,304.2-15 Ro V,157.2-159.3 aṣṭanjanādipathimathyātveṣu āntaratamyāt anunāsikaprasaṅgaḥ . aṣṭanjanādipathimathyātveṣu āntaratamyāt anunāsikaḥ prāpnoti . aṣṭābhiḥ , aṣṭābhyaḥ , jātaḥ , jātavān , panthāḥ , manthāḥ . siddham anaṇtvāt . siddham etat . katham . anaṇtvāt . katham anaṇtvam . aṇsavarṇān gṛhṇāti iti ucyate na ca akāraḥ aṇ . uccāraṇasāmarthyāt vā . atha vā śuddhoccāraṇasāmarthyāt na bhaviṣyati . na etau staḥ parihārau . yat tāvat ucyate anaṇtvāt iti na brūmaḥ aṇsavarṇān gṛhṇāti iti . katham tarhi taparaḥ tatkālasya iti . yat api ucyate uccāraṇasāmarthyāt vā iti asti anyat uccāraṇe prayojanam . kim . uttarārtham . rāyaḥ hali iti . evam tarhi na imau pṛthakparihārau . ekapariharaḥ ayam . siddham anaṇtvāt uccāraṇasāmarthyāt vā iti . iha tāvat aṣṭābhiḥ , aṣṭābhyaḥ iti anaṇtvāt siddham . jātaḥ , jātavān , panthāḥ , manthāḥ uccāraṇsāmarthyāt siddham . yadi evam pṛthakparihārayoḥ api na doṣaḥ . yaḥ yatra parihāraḥ saḥ tatra bhaviṣyati .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.