क्अ इइइ,३०५।५-१३ रो व्,१६०।५-१६२।२ परिग्रहणम् शक्यम् अकर्तुम् । मान्तस्य इति एव सिद्धम् । न सिध्यति । किम् कारणम् । अन्तशब्दस्य उभयार्थत्वात् । कथम् । अयम् अन्तशब्दः अस्ति एव सह तेन वर्तते । तत् यथा । मर्यादान्तम् देवदत्तस्य क्षेत्रम् । सह मर्यादया इति गम्यते । अस्ति प्राक् तस्मात् वर्तते । तत् यथा । नद्यन्तम् देवदत्तस्य क्षेत्रम् इति । प्राक् नद्याः इति गम्यते । तत् यः सह तेन वर्तते तस्य इदम् ग्रहणम् यथा विज्ञायेत । न एतत् अस्ति प्रयोजनम् । सर्वत्र एव अन्तशब्दः सह तेन वर्तते । अथ कथम् नद्यन्तम् देवदत्तस्य क्षेत्रम् इति । नद्याः क्षेत्रत्वे सम्भः न अस्ति इति कृत्वा प्राक् नद्याः इति गम्यते । अवधिद्योतनार्थम् तर्हि परिग्रहणम् कर्तव्यम् । मान्तस्य इति इयति उच्यमाने यत्र एव मान्ते युष्मदस्मदी तत्र एव आदेशाः स्युः । क्व च मान्ते युष्मदस्मदी । युष्मान् आचष्टे , अस्मान् आचष्टे इति युष्मयतेः अस्मयतेः च अप्रत्ययः ।
KA III,305.5-13 Ro V,160.5-162.2 parigrahaṇam śakyam akartum . māntasya iti eva siddham . na sidhyati . kim kāraṇam . antaśabdasya ubhayārthatvāt . katham . ayam antaśabdaḥ asti eva saha tena vartate . tat yathā . maryādāntam devadattasya kṣetram . saha maryādayā iti gamyate . asti prāk tasmāt vartate . tat yathā . nadyantam devadattasya kṣetram iti . prāk nadyāḥ iti gamyate . tat yaḥ saha tena vartate tasya idam grahaṇam yathā vijñāyeta . na etat asti prayojanam . sarvatra eva antaśabdaḥ saha tena vartate . atha katham nadyantam devadattasya kṣetram iti . nadyāḥ kṣetratve sambhaḥ na asti iti kṛtvā prāk nadyāḥ iti gamyate . avadhidyotanārtham tarhi parigrahaṇam kartavyam . māntasya iti iyati ucyamāne yatra eva mānte yuṣmadasmadī tatra eva ādeśāḥ syuḥ . kva ca mānte yuṣmadasmadī . yuṣmān ācaṣṭe , asmān ācaṣṭe iti yuṣmayateḥ asmayateḥ ca apratyayaḥ .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.