क्अ इइइ,३१९।११-२२ रो व्,१९७।४-१९८।५ अयम् श्वन्शब्दः द्वारादिषु पठ्यते तत्र कः प्रसङ्गः यत् तदादेः स्यात् । न एव प्राप्नोति न अर्थः प्रतिषेधेन । तदादिविधिना प्राप्नोति । न एव तदादिविधिः अस्ति । अतः उत्तरम् पठति । प्रतिषेधे श्वादिग्रहणम् ज्ञापकम् अन्यत्र श्वन्ग्रहणे तदादिग्रहणस्य शौवहानाद्यर्थम् । प्रतिषेधे श्वादिग्रहणम् क्रियते ज्ञापकार्थम् । किम् ज्ञाप्यम् । एतत् ज्ञापयति आचार्यः अन्यत्र श्वन्ग्रहणे तदादिविधिः भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । शौवहानाद्यर्थम् । शौवहानम् नाम नगरम् । शौवादंष्ट्रः मणिः इति । इकारादिग्रहणम् च श्वागणिकाद्यर्थम् । इकारादिग्रहणम् च कर्तव्यम् । किम् प्रयोजनम् । श्वागणिकाद्यर्थम् । श्वगणेन चरति श्वागणिकः । तदन्तस्य च अन्यत्र प्रतिषेधः । तदन्तस्य च अन्यत्र प्रतिषेधः वक्तव्यः । श्वाभस्त्रेः स्वम् श्वाभस्त्रम् ।
KA III,319.11-22 Ro V,197.4-198.5 ayam śvanśabdaḥ dvārādiṣu paṭhyate tatra kaḥ prasaṅgaḥ yat tadādeḥ syāt . na eva prāpnoti na arthaḥ pratiṣedhena . tadādividhinā prāpnoti . na eva tadādividhiḥ asti . ataḥ uttaram paṭhati . pratiṣedhe śvādigrahaṇam jñāpakam anyatra śvangrahaṇe tadādigrahaṇasya śauvahānādyartham . pratiṣedhe śvādigrahaṇam kriyate jñāpakārtham . kim jñāpyam . etat jñāpayati ācāryaḥ anyatra śvangrahaṇe tadādividhiḥ bhavati iti . kim etasya jñāpane prayojanam . śauvahānādyartham . śauvahānam nāma nagaram . śauvādaṃṣṭraḥ maṇiḥ iti . ikārādigrahaṇam ca śvāgaṇikādyartham . ikārādigrahaṇam ca kartavyam . kim prayojanam . śvāgaṇikādyartham . śvagaṇena carati śvāgaṇikaḥ . tadantasya ca anyatra pratiṣedhaḥ . tadantasya ca anyatra pratiṣedhaḥ vaktavyaḥ . śvābhastreḥ svam śvābhastram .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.