क्अ इइइ,३८६।१२-२१ रो व्,३५७-३५८ असिद्धवचनम् किमर्थम् । असिद्धवचने उक्तम् । किम् उक्तम् । तत्र तावत् उक्तम् षत्वतुकोः असिद्धवचनम् आदेशलक्षणप्रतिषेधार्थम् उत्सर्गलक्षणभावार्थम् च इति । एवम् इह अपि पूर्वत्रासिद्धवचनम् आदेशलक्षणप्रतिषेधार्थम् उत्सर्गलक्षणभावार्थम् च । आदेशलक्षणप्रतिषेधार्थम् तावत् । राजभिः तक्षभिः राजभ्याम् तक्षभ्याम् राजसु तक्षसु इति नलोपे कृते अतः इति ऐस्भावादयः प्राप्नुवन्ति । असिद्धत्वात् न भवन्ति । उत्सर्गलक्षणभावार्थम् च । अमुष्मै अमुष्मात् अमुष्य अमुष्मिन् इति अत्र मुभावे कृते अतः इति स्मायादयः न प्राप्नुवन्ति । असिद्धत्वात् भवन्ति । सुपर्वाणौ सुपर्वाणः । णत्वे कृते नोपधायाः इति दीर्घत्वम् न प्रप्नोति । असिद्धत्वात् भवति ।
KA III,386.12-21 Ro V,357-358 asiddhavacanam kimartham . asiddhavacane uktam . kim uktam . tatra tāvat uktam ṣatvatukoḥ asiddhavacanam ādeśalakṣaṇapratiṣedhārtham utsargalakṣaṇabhāvārtham ca iti . evam iha api pūrvatrāsiddhavacanam ādeśalakṣaṇapratiṣedhārtham utsargalakṣaṇabhāvārtham ca . ādeśalakṣaṇapratiṣedhārtham tāvat . rājabhiḥ takṣabhiḥ rājabhyām takṣabhyām rājasu takṣasu iti nalope kṛte ataḥ iti aisbhāvādayaḥ prāpnuvanti . asiddhatvāt na bhavanti . utsargalakṣaṇabhāvārtham ca . amuṣmai amuṣmāt amuṣya amuṣmin iti atra mubhāve kṛte ataḥ iti smāyādayaḥ na prāpnuvanti . asiddhatvāt bhavanti . suparvāṇau suparvāṇaḥ . ṇatve kṛte nopadhāyāḥ iti dīrghatvam na prapnoti . asiddhatvāt bhavati .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.