क्अ इइइ,३९६।१४-३९७।२ रो व्,३७९-३८० छन्दसि इरः इति उच्यते तत्र ते विश्वकर्माणम् ते सप्तर्षिमन्तम् इति अत्र अपि प्राप्नोति । न एषः दोषः । न एवम् विज्ञायते छन्दसि इरः इति । कथम् तर्हि । छन्दसि ईरः इति । एवम् अपि त्विषीमान् पतीमान् इति अत्र अपि प्राप्नोति । न एषः दोषः । विहितविशेषणम् ईकारग्रहङम् । ईकारान्तात् यः विहितः इति । एवम् अपि सूरम् ते द्यावापृथिवीमन्तम् इति अत्र अपि प्राप्नोति । इह च न प्राप्नोति त्रिवतीः याज्यानुवाक्याः भवन्ति इति । एवम् तर्हि परिगणनम् कर्तव्यम् । त्रिहर्यधिपत्यग्निरे । त्रिवतीः याज्यानुवाक्याः भवन्ति । त्रि । हरि । हरिवः मेदिनम् त्वा । हरि । अधिपति । अधिपतिवतीः जुहोति । अधिपति । अग्नि । चरुः अग्निवान् इव । अग्नि । रे । आ रेवन् एतु नो विश इति । यदि तर्हि परिगणनम् क्रियते सरस्वतीवान् भारतीवान् अपूपवान् दधिवान् चरुः इति अत्र न प्राप्नोति । एवम् तर्हि छन्दसि इरः बहुलम् इति वक्तव्यम् ।
KA III,396.14-397.2 Ro V,379-380 chandasi iraḥ iti ucyate tatra te viśvakarmāṇam te saptarṣimantam iti atra api prāpnoti . na eṣaḥ doṣaḥ . na evam vijñāyate chandasi iraḥ iti . katham tarhi . chandasi īraḥ iti . evam api tviṣīmān patīmān iti atra api prāpnoti . na eṣaḥ doṣaḥ . vihitaviśeṣaṇam īkāragrahaṅam . īkārāntāt yaḥ vihitaḥ iti . evam api sūram te dyāvāpṛthivīmantam iti atra api prāpnoti . iha ca na prāpnoti trivatīḥ yājyānuvākyāḥ bhavanti iti . evam tarhi parigaṇanam kartavyam . triharyadhipatyagnire . trivatīḥ yājyānuvākyāḥ bhavanti . tri . hari . harivaḥ medinam tvā . hari . adhipati . adhipativatīḥ juhoti . adhipati . agni . caruḥ agnivān iva . agni . re . ā revan etu no viśa iti . yadi tarhi parigaṇanam kriyate sarasvatīvān bhāratīvān apūpavān dadhivān caruḥ iti atra na prāpnoti . evam tarhi chandasi iraḥ bahulam iti vaktavyam .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.