Library·Patanjali: Vyakaranamahabhasya·8·8.2·8.2.42

Patanjali: Vyakaranamahabhasya 8.2.42

क्अ इइइ,४०६।१-१० रो व्,३९५ रदाभ्याम् इति किमर्थम् । चरितम् मुदितम् । ननु च रदाभ्याम् इति उच्यमाने अपि अत्र प्राप्नोति । अत्र अपि रेफदकाराभ्याम् परा निष्ठा । न रेफदकाराभ्याम् निष्ठा विशेष्यते । किम् तर्हि । तकारः विशेष्यते । रफदकाराभ्याम् उत्तरस्य तकारस्य नः भवति स चेत् निष्ठायाः इति । अथ पूर्वग्रहणम् किमर्थम् । निष्ठादेशे पूर्वग्रहणम् परस्य आदेशप्रतिषेधार्थम् । निष्ठादेशे पूर्वग्रहणम् क्रियते परस्य आदेशः मा भूत् इति । भिन्नवद्भ्याम् भिन्नवद्भिः । पञ्चमीनिर्दिष्टात् हि परस्य । पञ्चमीनिर्दिष्टात् हि परस्य इति परस्य प्राप्नोति ।

KA III,406.1-10 Ro V,395 radābhyām iti kimartham . caritam muditam . nanu ca radābhyām iti ucyamāne api atra prāpnoti . atra api rephadakārābhyām parā niṣṭhā . na rephadakārābhyām niṣṭhā viśeṣyate . kim tarhi . takāraḥ viśeṣyate . raphadakārābhyām uttarasya takārasya naḥ bhavati sa cet niṣṭhāyāḥ iti . atha pūrvagrahaṇam kimartham . niṣṭhādeśe pūrvagrahaṇam parasya ādeśapratiṣedhārtham . niṣṭhādeśe pūrvagrahaṇam kriyate parasya ādeśaḥ mā bhūt iti . bhinnavadbhyām bhinnavadbhiḥ . pañcamīnirdiṣṭāt hi parasya . pañcamīnirdiṣṭāt hi parasya iti parasya prāpnoti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४०६।११-४०७।७ रो व्,३९६-३९७ वृद्धिनिमित्तात् प्रतिषेधः । वृद्धिनिमित्तात् प्रतिषेधः वक्तव्यः । किम् प्रयोजनम् । प्रयोजनम् कार्तिक्षैतिफौल्लयः । कार्तिः इति वृद्धौ कृतायाम् रदाभ्याम् इति नत्वम् प्राप्नोति । क्षैतिः इति वृद्धौ कृतायाम् क्षियोदीर्घात् इति नत्वम् प्राप्नोति । फौल्लिः इति वृद्धौ कृतायाम् उदुपधत्वसन्नियोगेन लत्वम् उच्यमानम् न प्राप्नोति । अथ उच्यमाने अपि प्रतिषेधे वृद्धिनिमित्तात् इति कथम् इदम् विज्ञायते । वृद्धिः एव निमित्तम् वृद्धिनिमित्तम् वृद्धिनिमित्तात् इति । आहोस्वित् वृद्धिः निमित्तम् अस्य सः अयम् वृद्धिनिमित्तः वृद्धिनिमित्तात् इति । किम् च अतः । यदि विज्ञायते वृद्धिः एव निमित्तम् वृद्धिनिमित्तम् वृद्धिनिमित्तात् इति क्षैतिः सङ्गृहीतः कार्तिः असङ्गृहीतः । अथ विज्ञायते वृद्धिः निमित्तम् अस्य सः अयम् वृद्धिनिमित्तः वृद्धिनिमित्तात् इति कार्तिः सङ्गृहीतः क्षैतिः असङ्गृहीतः । उभयथा च फौल्लिः असङ्गृहीतः । यथा इच्छसि तथा अस्तु । अस्तु तावत् वृद्धिः एव निमित्तम् वृद्धिनिमित्तम् वृद्धिनिमित्तात् इति । ननु च उक्तम् क्षैतिः सङ्ग्र्हीतः कार्तिः असङ्गृहीतः इति । कार्तिः च सङ्गृहीतः । कथम् । वृद्धिः भवति गुणः भवति इति रेफशिराः गुणवृद्धिसञ्ज्ञकः अभिनिर्वर्तते । अथ वा पुनः अस्तु वृद्धिः निमित्तम् अस्य सः अयम् वृद्धिनिमित्तः वृद्धिनिमित्तात् इति । ननु च उक्तम् कार्तिः सङ्गृहीतः क्षैतिः असङ्गृहीतः इति । क्षैतिः च सङ्गृहीतः । कथम् । यत् तत् वृद्धिशास्त्रम् तस्मिन् वृद्धिशब्दः वर्तते । सः तर्हि प्रतिषेधः वक्तव्यः । न वा बहिरङ्गलक्षणत्वात् । न वा वक्तव्यम् । किम् कारणम् । बहिरङ्गलक्षणत्वात् । बहिरङ्गा वृद्धिः । अन्तरङ्गम् नत्वम् । असिद्धम् बहिरङ्गम् अन्तरङ्गे । एवम् च कृत्वा लत्वम् अपि सिद्धम् भवति फौल्लिः इति ।

KA III,406.11-407.7 Ro V,396-397 vṛddhinimittāt pratiṣedhaḥ . vṛddhinimittāt pratiṣedhaḥ vaktavyaḥ . kim prayojanam . prayojanam kārtikṣaitiphaullayaḥ . kārtiḥ iti vṛddhau kṛtāyām radābhyām iti natvam prāpnoti . kṣaitiḥ iti vṛddhau kṛtāyām kṣiyodīrghāt iti natvam prāpnoti . phaulliḥ iti vṛddhau kṛtāyām udupadhatvasanniyogena latvam ucyamānam na prāpnoti . atha ucyamāne api pratiṣedhe vṛddhinimittāt iti katham idam vijñāyate . vṛddhiḥ eva nimittam vṛddhinimittam vṛddhinimittāt iti . āhosvit vṛddhiḥ nimittam asya saḥ ayam vṛddhinimittaḥ vṛddhinimittāt iti . kim ca ataḥ . yadi vijñāyate vṛddhiḥ eva nimittam vṛddhinimittam vṛddhinimittāt iti kṣaitiḥ saṅgṛhītaḥ kārtiḥ asaṅgṛhītaḥ . atha vijñāyate vṛddhiḥ nimittam asya saḥ ayam vṛddhinimittaḥ vṛddhinimittāt iti kārtiḥ saṅgṛhītaḥ kṣaitiḥ asaṅgṛhītaḥ . ubhayathā ca phaulliḥ asaṅgṛhītaḥ . yathā icchasi tathā astu . astu tāvat vṛddhiḥ eva nimittam vṛddhinimittam vṛddhinimittāt iti . nanu ca uktam kṣaitiḥ saṅgrhītaḥ kārtiḥ asaṅgṛhītaḥ iti . kārtiḥ ca saṅgṛhītaḥ . katham . vṛddhiḥ bhavati guṇaḥ bhavati iti rephaśirāḥ guṇavṛddhisañjñakaḥ abhinirvartate . atha vā punaḥ astu vṛddhiḥ nimittam asya saḥ ayam vṛddhinimittaḥ vṛddhinimittāt iti . nanu ca uktam kārtiḥ saṅgṛhītaḥ kṣaitiḥ asaṅgṛhītaḥ iti . kṣaitiḥ ca saṅgṛhītaḥ . katham . yat tat vṛddhiśāstram tasmin vṛddhiśabdaḥ vartate . saḥ tarhi pratiṣedhaḥ vaktavyaḥ . na vā bahiraṅgalakṣaṇatvāt . na vā vaktavyam . kim kāraṇam . bahiraṅgalakṣaṇatvāt . bahiraṅgā vṛddhiḥ . antaraṅgam natvam . asiddham bahiraṅgam antaraṅge . evam ca kṛtvā latvam api siddham bhavati phaulliḥ iti .

Sanskrit only: no published translation is held for this verse.