क्अ इइइ,४०६।१-१० रो व्,३९५ रदाभ्याम् इति किमर्थम् । चरितम् मुदितम् । ननु च रदाभ्याम् इति उच्यमाने अपि अत्र प्राप्नोति । अत्र अपि रेफदकाराभ्याम् परा निष्ठा । न रेफदकाराभ्याम् निष्ठा विशेष्यते । किम् तर्हि । तकारः विशेष्यते । रफदकाराभ्याम् उत्तरस्य तकारस्य नः भवति स चेत् निष्ठायाः इति । अथ पूर्वग्रहणम् किमर्थम् । निष्ठादेशे पूर्वग्रहणम् परस्य आदेशप्रतिषेधार्थम् । निष्ठादेशे पूर्वग्रहणम् क्रियते परस्य आदेशः मा भूत् इति । भिन्नवद्भ्याम् भिन्नवद्भिः । पञ्चमीनिर्दिष्टात् हि परस्य । पञ्चमीनिर्दिष्टात् हि परस्य इति परस्य प्राप्नोति ।
KA III,406.1-10 Ro V,395 radābhyām iti kimartham . caritam muditam . nanu ca radābhyām iti ucyamāne api atra prāpnoti . atra api rephadakārābhyām parā niṣṭhā . na rephadakārābhyām niṣṭhā viśeṣyate . kim tarhi . takāraḥ viśeṣyate . raphadakārābhyām uttarasya takārasya naḥ bhavati sa cet niṣṭhāyāḥ iti . atha pūrvagrahaṇam kimartham . niṣṭhādeśe pūrvagrahaṇam parasya ādeśapratiṣedhārtham . niṣṭhādeśe pūrvagrahaṇam kriyate parasya ādeśaḥ mā bhūt iti . bhinnavadbhyām bhinnavadbhiḥ . pañcamīnirdiṣṭāt hi parasya . pañcamīnirdiṣṭāt hi parasya iti parasya prāpnoti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.